प्रश्नः 1 - Complete Audio Recording

Note: Time markers for individual verses will be added soon. Currently playing the complete Prasna recording.

TS 7.1.6.7 TS 7.1.6.7
-म॑र्द्धयति प्र॒जावा᳚न् पशु॒मान् र॑यि॒मान् भ॑वति॒ य ए॒वं ॅवेद॒ तया॑ स॒हाऽऽ*ग्नी᳚द्ध्रं प॒रेत्य॑ पु॒रस्ता᳚त् प्र॒तीच्यां॒ तिष्ठ॑न्त्यां जुहुयादु॒भा जि॑ग्यथु॒र्न परा॑ जयेथे॒ न परा॑ जिग्ये कत॒रश्च॒नैनोः᳚ । इन्द्र॑श्च विष्णो॒ यदप॑स्पृधेथां त्रे॒धा स॒हस्रं॒ ॅवि तदै॑रयेथा॒मिति॑, त्रेधाविभ॒क्तं ॅवै त्रि॑रा॒त्रे स॒हस्रꣳ॑ साह॒स्रीमे॒वैनां᳚ करोति स॒हस्र॑स्यै॒वैनां॒ मात्रां᳚ - [ ]
▶ पदपाठः (Word-by-word)
अ॒द्‌र्ध॒य॒ति॒ । प्र॒जावा॒निति॑ प्रजा - वा॒न् । प॒शु॒मानिति॑ पशु - मान् । र॒यि॒मानिति॑ रयि - मान् । भ॒व॒ति॒ । यः । ए॒वम् । वेद॑ । तया᳚ । स॒ह । आग्नी᳚द्ध्र॒मित्याग्नि॑ - इ॒द्ध्र॒म् । प॒रेत्येति॑ परा - इत्य॑ । पु॒रस्ता᳚त् । प्र॒तीच्या᳚म् । तिष्ठ॑न्त्याम् । जु॒हु॒या॒त् । उ॒भा । जि॒ग्य॒थुः॒ । न । परेति॑ । ज॒ये॒थे॒ इति॑ । न । परेति॑ । जि॒ग्ये॒ । क॒त॒रः । च॒न । ए॒नोः॒ ॥ इन्द्रः॑ । च॒ । वि॒ष्णो॒ इति॑ । यत् । अप॑स्पृधेथाम् । त्रे॒धा । स॒हस्र᳚म् । वीति॑ । तत् । ऐ॒र॒ये॒था॒म् । इति॑ । त्रे॒धा॒वि॒भ॒क्तमिति॑ त्रेधा - वि॒भ॒क्तम् । वै । त्रि॒रा॒त्र इति॑ त्रि - रा॒त्रे । स॒हस्र᳚म् । सा॒ह॒स्रीम् । ए॒व । ए॒ना॒म् । क॒रो॒ति॒ । स॒हस्र॑स्य । ए॒व । ए॒ना॒म् । मात्रा᳚म् ।
पदसंख्या: 50