मा᳚ प्रति॒ष्ठां ग॑मय प्र॒जया॑ प॒शुभिः॑ स॒ह पुन॒र्माऽऽ वि॑शताद्-र॒यिरिति॑ प्र॒जयै॒वैनं॑ प॒शुभी॑ र॒य्यां प्रति॑ ष्ठापयति प्र॒जावा᳚न् पशु॒मान् र॑यि॒मान् भ॑वति॒ य ए॒वं ॅवेद॒ ताम॒ग्नीधे॑ वा ब्र॒ह्मणे॑ वा॒ होत्रे॑ वोद्गा॒त्रे वा᳚ऽद्ध्व॒र्यवे॑ वा दद्याथ् स॒हस्र॑मस्य॒ सा द॒त्ता भ॑वति स॒हस्र॑मस्य॒ प्रति॑गृहीतं भवति॒ यस्तामवि॑द्वान् - [ ]
पदपाठः (Word-by-word)
मा॒ । प्र॒ति॒ष्ठामिति॑ प्रति - स्थाम् । ग॒म॒य॒ । प्र॒जयेति॑ प्र - जया᳚ । प॒शुभि॒रिति॑ प॒शु - भिः॒ । स॒ह । पुनः॑ । मा॒ । एति॑ । वि॒श॒ता॒त् । र॒यिः । इति॑ । प्र॒जयेति॑ प्र - जया᳚ । ए॒व । ए॒न॒म् । प॒शुभि॒रिति॑ प॒शु - भिः॒ । र॒य्याम् । प्रतीति॑ । स्था॒प॒य॒ति॒ । प्र॒जावा॒निति॑ प्र॒जा - वा॒न् । प॒शु॒मानिति॑ पशु - मान् । र॒यि॒मानिति॑ रयि - मान् । भ॒व॒ति॒ । यः । ए॒वम् । वेद॑ । ताम् । अ॒ग्नीध॒ इत्य॑ग्नि - इधे᳚ । वा॒ । ब्र॒ह्मणे᳚ । वा॒ । होत्रे᳚ । वा॒ । उ॒द्गा॒त्र इत्यु॑त् - गा॒त्रे । वा॒ । अ॒द्ध्व॒र्यवे᳚ । वा॒ । द॒द्या॒त् । स॒हस्र᳚म् । अ॒स्य॒ । सा । द॒त्ता । भ॒व॒ति॒ । स॒हस्र᳚म् । अ॒स्य॒ । प्रति॑गृहीत॒मिति॒ प्रति॑ - गृ॒ही॒त॒म् । भ॒व॒ति॒ । यः । ताम् । अवि॑द्वान् ।