-त्या॑ह स्यो॒नैवैनꣳ॑ सु॒षदा॑ सु॒शेवा॑ भू॒ताऽऽ वि॑शति॒ नैनꣳ॑ हिनस्ति ब्रह्मवा॒दिनो॑ वदन्ति स॒हस्रꣳ॑ सहस्रत॒म्यन्वे॒ती(3) स॑हस्रत॒मीꣳ स॒हस्रा(3)मिति॒ यत् प्राची॑मुथ् सृ॒जेथ् स॒हस्रꣳ॑ सहस्रत॒म्यन्वि॑या॒त् तथ् स॒हस्र॑मप्रज्ञा॒त्रꣳ सु॑व॒र्गं ॅलो॒कं न प्र जा॑नीयात् प्र॒तीची॒मुथ्- सृ॑जति॒ ताꣳ स॒हस्र॒मनु॑ प॒र्याव॑र्तते॒ सा प्र॑जान॒ती सु॑व॒र्गं ॅलो॒कमे॑ति॒ यज॑मान ( ) -म॒भ्युथ् सृ॑जति क्षि॒प्रे स॒हस्रं॒ प्र जा॑यत उत्त॒मा नी॒यते᳚ प्रथ॒मा दे॒वान् ग॑च्छति ॥
पदपाठः (Word-by-word)
इति॑ । आ॒ह॒ । स्यो॒ना । ए॒व । ए॒न॒म् । सु॒षदेति॑ सु - सदा᳚ । सु॒शेवेति॑ सु - शेवा᳚ । भू॒ता । एति॑ । वि॒श॒ति॒ । न । ए॒न॒म् । हि॒न॒स्ति॒ । ब्र॒ह्म॒वा॒दिन॒ इति॑ ब्रह्म - वा॒दिनः॑ । व॒द॒न्ति॒ । स॒हस्र᳚म् । स॒ह॒स्र॒त॒मीति॑ सहस्र - त॒मी । अन्विति॑ । ए॒ती(3) । स॒ह॒स्र॒त॒मीमिति॑ सहस्र - त॒मीम् । स॒हस्रा(3)म् । इति॑ । यत् । प्राची᳚म् । उ॒थ्सृ॒जेदित्यु॑त् - सृ॒जेत् । स॒हस्र᳚म् । स॒ह॒स्र॒त॒मीति॑ सहस्र - त॒मी । अन्विति॑ । इ॒या॒त् । तत् । स॒हस्र᳚म् । अ॒प्र॒ज्ञा॒त्रमित्य॑प्र - ज्ञा॒त्रम् । सु॒व॒र्गमिति॑ सुवः - गम् । लो॒कम् । न । प्रेति॑ । जा॒नी॒या॒त् । प्र॒तीची᳚म् । उदिति॑ । सृ॒ज॒ति॒ । ताम् । स॒हस्र᳚म् । अन्विति॑ । प॒र्याव॑र्तत॒ इति॑ परि - आव॑र्तते । सा । प्र॒जा॒न॒तीति॑ प्र - जा॒न॒ती । सु॒व॒र्गमिति॑ सुवः - गम् । लो॒कम् । ए॒ति॒ । यज॑मानम् ( ) । अ॒भि । उदिति॑ । सृ॒ज॒ति॒ । क्षि॒प्रे । स॒हस्र᳚म् । प्रेति॑ । जा॒य॒ते॒ । उ॒त्त॒मेत्यु॑त् - त॒मा । नी॒यते᳚ । प्र॒थ॒मा । दे॒वान् । ग॒च्छ॒ति॒ ॥