उ॒थ्सृज्यां(3)नोथ्सृज्या(3)मिति॑ मीमाꣳसन्ते ब्रह्मवा॒दिन॒-स्तद्वा॑हुरु॒थ् सृज्य॑मे॒वेत्य॑-मावा॒स्या॑यां च पौर्णमा॒स्यां चो॒थ्-सृज्य॒मित्या॑हुरे॒ते हि य॒ज्ञ्ं ॅवह॑त॒ इति॒ ते त्वाव नोथ्सृज्ये॒ इत्या॑हु॒र्ये अ॑वान्त॒रं ॅय॒ज्ञ्ं भे॒जाते॒ इति॒ या प्र॑थ॒मा व्य॑ष्टका॒ तस्या॑मु॒थ्-सृज्य॒मित्या॑हुरे॒ष वै मा॒सो वि॑श॒र इति॒ नाऽऽ*दि॑ष्ट॒ - [ ]
पदपाठः (Word-by-word)
उ॒थ्सृज्या(3)मित्यु॑त् - सृज्या(3)म् । न । उ॒थ्सृज्या(3)मित्यु॑त्- सृज्या(3)म् । इति॑ । मी॒माꣳ॒॒स॒न्ते॒ । ब्र॒ह्म॒वा॒दिन॒ इति॑ ब्रह्म - वा॒दिनः॑ । तत् । उ॒ । आ॒हुः॒ । उ॒थ्सृज्य॒मित्यु॑त् - सृज्य᳚म् । ए॒व । इति॑ । अ॒मा॒वा॒स्या॑या॒मित्य॑मा - वा॒स्या॑याम् । च॒ । पौ॒र्ण॒मा॒स्यामिति॑ पौर्ण - मा॒स्याम् । च॒ । उ॒थ्सृज्य॒मित्यु॑त् - सृज्य᳚म् । इति॑ । आ॒हुः॒ । ए॒ते इति॑ । हि । य॒ज्ञ्म् । वह॑तः । इति॑ । ते इति॑ । तु । वाव । न । उ॒थ्सृज्ये॒ इत्यु॑त् - सृज्ये᳚ । इति॑ । आ॒हुः॒ । ये इति॑ । अ॒वा॒न्त॒रमित्य॑व - अ॒न्त॒रम् । य॒ज्ञ्म् । भे॒जाते॒ इति॑ । इति॑ । या । प्र॒थ॒मा । व्य॑ष्ट॒केति॒ वि - अ॒ष्ट॒का॒ । तस्या᳚म् । उ॒थ्सृज्य॒मित्यु॑त् - सृज्य᳚म् । इति॑ । आ॒हुः॒ । ए॒षः । वै । मा॒सः । वि॒श॒र इति॑ वि - श॒रः । इति॑ । न । आदि॑ष्ट॒मित्या - दि॒ष्ट॒म् ।
भट्टभास्करभाष्यम् (Bhatta Bhaskara Commentary)
1 उक्तमहरुत्स्रष्टव्यमिति ॥ तदिदानीं विचारपूर्वं निर्णेतुमारभते - उत्सृज्यामित्यादि ॥ किमुत्सृज्य समुत्स्रष्टव्यमहः उत नेति विचारयन्ति ब्रह्मवादिनः । 'ऋदुपधाच्च' इति क्यप्प्रत्ययः । 'विचार्यमाणानां' इत्युदात्तः प्लुतः, तस्यासिद्धत्वात् कृदुत्तरपदप्रकृतिस्वरत्वं च निवर्तते । 'मान्बध' इत्यादिना मानेर्जिज्ञासायां सन्प्रत्ययः । तद्वाहुरित्यादि । तत्र चाहुः ब्रह्मवादिनोऽन्ये वा यज्ञविदः उत्सृज्यमेव नेदं विचार्यमिति । अथोत्सर्गकाला उच्यन्ते - अमावास्यायां चेत्यादि । हेतुमाह - एते हीति । यज्ञं कर्मान्तरं दर्शपूर्णमासात्मकं एते दर्शपूर्णमासे सर्वदा वहतः तस्मादुत्स्रष्टव्यानयोः न यज्ञ कालस्स्यादिति । किंच तदाधारत्वात् सर्वकर्मणां ताभ्यां तेषां मिश्रणं च प्रयोजनमिति ॥
2 किं सर्वदैव तयोरुत्सृज्यमित्याह - ते त्वावेति ॥ संहितायां वाशब्दस्य लोपः । तुशब्दो व्यावृत्तौ । ते तु अमावास्यापौर्णमास्यौ नोत्सृज्ये नोत्स्रष्टव्ये तयोरिति यज्ञविद आहुः । अधिकरणे कृत्यः । नेत्युक्तं, के ते इत्याह - अवान्तरं अभ्यन्तरं यज्ञं भेजाते अन्तः प्रविश्याङ्गभावेन यज्ञं भजेते धारयतः । छान्दसो लिट् । तत्र नोत्स्रष्टव्यमहरस्ति । अन्यथा एते अवेक्षमाणस्य तस्य यज्ञस्याभाव एव स्यात् । या प्रथमेत्यादि । या प्रथमा कृष्णाष्टमी व्यष्टकाख्या तस्यामुत्सृज्यमित्याहुः । हेतुं चाहुः - मासस्यास्य एष विशरः विशरणस्थानमियं व्यष्टकेति । शीतातिप्रवृत्त्या विनष्ट इव मासोत्र भवतीति ॥
3 नादिष्टमिति ॥ न नियमेनोत्सृष्टमप्युत्सृजेयुः । यत्र क्वचिदुत्सृष्टं न पुनस्तत्रोत्सृजेयुः । प्रथमग्रहणादेव सिद्धे वचनं क्वचिदन्यत्र विधानार्थम् । तदेवाह - यदिति । यादृशे दिवसे आदिष्टमुत्सृजेयुः यद्युत्सर्गः प्रयुज्येत तदादिष्टमुत्सृजेयुः । कीदृश इत्याह - यादृश इत्यादि । पुनः पर्याप्लावे पर्यावृत्तौ वर्तमानायां मध्ये षडहस्य यादृशे दिवसे अष्टमी संपद्यते यदि तादृशे पूर्वमुत्सुष्टं न पुनरुत्सृजेयुः । अतादृशत्वे द्वितीयादावप्युत्सुजेयुरिति । अत्र हि सावनेन सत्रं प्रवर्तते चान्द्रमानेन तिथिरिति वैषम्यात् कदाचित्तादृशत्वमपि स्यादिति । आदिष्टमित्यादेशः निवर्तते स्थानी स्यादिति तुल्यत्वादुत्सृष्टमहरित्युच्यते । स्थानी ह्यस्य क्वचिदादेशेन निवर्तितो न तत्र पुनर्निवर्त्यते, विषयान्तरे तु निवर्त्यत इति ॥
4 षडहैरित्यादि ॥ षडेहैः पञ्चभिः पञ्च मासान् संपाद्य यत्सप्तमं पञ्चमषडहानन्तरभावि अहस्तस्मिन्नुत्सृजेयुः क्रमप्राप्तं कर्म । तदग्नय इत्यादि । तस्मि न्नुत्सृष्टेऽह्नि आग्नेयादीनि निर्वपेयुः - अग्नेर्वा इत्यादि । प्रातस्सवने देवतां वसुमन्तमग्निं पुरोडाशेन भागवतीं कुर्वन्ति नोत्सृष्टा अप्यन्तरिता भवन्ति । अष्टत्वसङ्ख्यया च गायत्रं प्रातस्सवनमुपगच्छन्ति । (ततश्च उत्सृष्टं चानुत्सृष्टं च तदहर्भवति । एतदित्यादि । एतद्धि यज्ञं विच्छिन्दन्ति यत् षडहसस्ततं षडहैरविच्छेदेन सम्बद्धं सन्ततम् । 'तृतीया कर्मणि' इति पूर्वपदप्रकृतिस्वरत्वम् । अथानन्तरभावि अहरुत्सृजन्ति यज्ञमहरुत्सर्गेण विच्छिन्दन्ति । अथ यच्चाहरुत्सृजन्तीति । प्राजापत्यमित्यादि । उत्सृष्टेऽह्नि सन्तन्वन्ति अविछिन्नं कुर्वते) नोत्सृष्टं भवति । एवमुत्तरत्र द्रष्टव्यम् । 'ह्रस्वनुड्भ्याम्' इत्युदात्तः वसुभ्यो
व्यत्ययेन भवति ॥
5 प्राजापत्यमित्यादि ॥ तस्मिन्नेवाह्नि उक्तस्य द्विर्वचनं पुरोडाशा मा बाधिषतेति । अननुसर्गाय अनुत्सर्गाय प्राजापत्यः पशुः ॥
6 अभिवर्त इति ॥ पूर्वस्मिन् पक्षसि इत इमं प्रथममारभ्य इतो वा यतः षण्मासोभिवर्तो ब्रह्मसामं भवति । (व्यत्यये) ल्यब्लोपे पञ्चमी । ब्रह्म वा इत्यादि । स्वर्गं लोकं ब्रह्मणैवाभिमुख्येन वर्तयन्तो गच्छन्ति स्वर्गमेव प्रतिपद्यन्ते । प्रतिकूलमिति । इत इमं मनुष्यलोकमपेक्ष्य प्रतिकूलं प्रतिकूलमिव हि स्वर्गो लोको वर्तते; अधोमुखत्वादित्येके । मृत्वा तत्र गमनादित्यन्ये ॥
7 इन्द्र क्रतुमित्यादि ॥ अमुतः अमुं द्यामारभ्य आयतां पर्यावृत्तानां षण्मासो ब्रह्मसामं भवति 'इन्द्र क्रतुं' इति मन्त्रेण । इयं च पथ्याबृहती, तृतीयस्य पादस्य द्वादशाक्षरत्वात् । अर्थस्तु - हे इन्द्र! क्रतुं प्रज्ञां कर्म वा तद्विषयं कर्मैव वा नः अस्मभ्यं आभर आहर । 'हृग्रहोर्भः' । यथा पिता पुत्रेभ्यः आहरति । किञ्च - नोस्मान् अस्मिन् यामनि यज्ञे शिक्ष शक्तान् कुरु । 'द्व्यचोतस्तिङः' इति दीर्घः ।, हे पुरुहूत त्वत्प्रसादात् वयं जीवाः जीवन्तः ज्योतिष्मन्तं मनुष्यलोकं अशीमहि प्राप्नुयामः । अश्नोतेश्शपो लुक् ॥
8 अथास्यैव ब्राह्मणम् - अयं वा इत्यादि ॥ अयं लोको ज्योतिः प्रकाशः प्रत्यक्षत्वात् । प्रजा ज्योतिः प्रकाशहेतुत्वात् । एवंविधाभ्यां पक्षाभ्यां उभौ लोकौ अभिजितौ भवतः ॥
इति सप्तमे पञ्चमे सप्तमोनुवाकः ॥