प्रश्नः 5 - Complete Audio Recording

Note: Time markers for individual verses will be added soon. Currently playing the complete Prasna recording.

TS 7.5.7.2 TS 7.5.7.2
-मुथ्सृ॑जेयु॒-र्यदादि॑ष्ट-मुथ्सृ॒जेयु॑र्या॒दृशे॒ पुनः॑ पर्याप्ला॒वे मद्ध्ये॑ षड॒हस्य॑ स॒पंद्ये॑त षड॒हैर्मासा᳚न्थ् स॒पांद्य॒ यथ् स॑प्त॒म- मह॒स्तस्मि॒न्नुथ् सृ॑जेयु॒-स्तद॒ग्नये॒ वसु॑मते पुरो॒डाश॑म॒ष्टाक॑पालं॒ निर्व॑पेयुरै॒न्द्रं दधीन्द्रा॑य म॒रुत्व॑ते पुरो॒डाश॒मेका॑दशकपालं ॅवैश्वदे॒वं द्वाद॑शकपालम॒ग्नेर्वै वसु॑मतः प्रातस्सव॒नं ॅयद॒ग्नये॒ वसु॑मते पुरो॒डाश॑म॒ष्टाक॑पालं नि॒र्वप॑न्ति दे॒वता॑मे॒व तद्-भा॒गिनीं᳚ कु॒र्वन्ति॒ - [ ]
▶ पदपाठः (Word-by-word)
उदिति॑ । सृ॒जे॒युः॒ । यत् । आदि॑ष्ट॒मित्या - दि॒ष्ट॒म् । उ॒थ्सृ॒जेयु॒रित्यु॑त् - सृ॒जेयुः॑ । या॒दृशे᳚ । पुनः॑ । प॒र्या॒प्ला॒व इति॑ परि - आ॒प्ला॒वे । मद्ध्ये᳚ । ष॒ड॒हस्येति॑ षट् - अ॒हस्य॑ । स॒पंद्ये॒तेति॑ सं - पद्ये॑त । ष॒ड॒हैरिति॑ षट् - अ॒हैः । मासान्॑ । स॒पांद्येति॑ सं - पाद्य॑ । यत् । स॒प्त॒मम् । अहः॑ । तस्मिन्न्॑ । उदिति॑ । सृ॒जे॒युः॒ । तत् । अ॒ग्नये᳚ । वसु॑मत॒ इति॒ वसु॑ - म॒ते॒ । पु॒रो॒डाश᳚म् । अ॒ष्टाक॑पाल॒मित्य॒ष्टा - क॒पा॒ल॒म् । निरितिः॑ । व॒पे॒युः॒ । ऐ॒न्द्रम् । दधि॑ । इन्द्रा॑य । म॒रुत्व॑ते । पु॒रो॒डाश᳚म् । एका॑दशकपाल॒मित्येका॑दश - क॒पा॒ल॒म् । वै॒श्व॒दे॒वमिति॑ वैश्व-दे॒वम् । द्वाद॑शकपाल॒मिति॒ द्वाद॑श - क॒पा॒ल॒म् । अ॒ग्नेः । वै । वसु॑मत॒ इति॒ वसु॑ - म॒तः॒ । प्रा॒त॒स्स॒व॒नमिति॑ प्रातः - स॒व॒नम् । यत् । अ॒ग्नये᳚ । वसु॑मत॒ इति॒ वसु॑-म॒ते॒ । पु॒रो॒डाश᳚म् । अ॒ष्टाक॑पाल॒मित्य॒ष्टा - क॒पा॒ल॒म् । नि॒र्वप॒न्तीति॑ निः - वप॑न्ति । दे॒वता᳚म् । ए॒व । तत् । भा॒गिनी᳚म् । कु॒र्वन्ति॑ ।
पदसंख्या: 50