प्रश्नः 5 - Complete Audio Recording

Note: Time markers for individual verses will be added soon. Currently playing the complete Prasna recording.

TS 7.5.7.4 TS 7.5.7.4
-रुप॑ यन्ति प्राजाप॒त्यं प॒शुमा ल॑भन्ते य॒ज्ञो वै प्र॒जाप॑ति-र्य॒ज्ञ्स्या-न॑नुसर्गायाभिव॒र्त इ॒तः षण्मा॒सो ब्र॑ह्मसा॒मं भ॑वति॒ ब्रह्म॒ वा अ॑भिव॒र्तो ब्रह्म॑णै॒व तथ् सु॑व॒र्गं ॅलो॒क-म॑भिव॒र्तय॑न्तो यन्ति प्रतिकू॒लमि॑व॒ हीतः सु॑व॒र्गो लो॒क इन्द्र॒ क्रतुं॑ न॒ आ भ॑र पि॒ता पु॒त्रेभ्यो॒ यथा᳚ । शिक्षा॑ नो अ॒स्मिन् पु॑रुहूत॒ याम॑नि जी॒वा ज्योति॑रशीम॒हीत्य॒ ( )-मुत॑ आय॒ताꣳ षण्मा॒सो ब्र॑ह्मसा॒मं भ॑वत्य॒यं ॅवै लो॒को ज्योतिः॑ प्र॒जा ज्योति॑रि॒ममे॒व तल्लो॒कं पश्य॑न्तोऽभि॒वद॑न्त॒ आ य॑न्ति ॥
▶ पदपाठः (Word-by-word)
उपेति॑ । य॒न्ति॒ । प्रा॒जा॒प॒त्यमिति॑ प्राजा - प॒त्यम् । प॒शुम् । एति॑ । ल॒भ॒न्ते॒ । य॒ज्ञ्ः । वै । प्र॒जाप॑ति॒रिति॑ प्र॒जा - प॒तिः॒ । य॒ज्ञ्स्य॑ । अन॑नुसर्गा॒येत्यन॑नु - स॒र्गा॒य॒ । अ॒भि॒व॒र्त इत्य॑भि - व॒र्तः । इ॒तः । षट् । मा॒सः । ब्र॒ह्म॒सा॒ममिति॑ ब्रह्म - सा॒मम् । भ॒व॒ति॒ । ब्रह्म॑ । वै । अ॒भि॒व॒र्त इत्य॑भि - व॒र्तः । ब्रह्म॑णा । ए॒व । तत् । सु॒व॒र्गमिति॑ सुवः - गम् । लो॒कम् । अ॒भि॒व॒र्तय॑न्त॒ इत्य॑भि - व॒र्तय॑न्तः । य॒न्ति॒ । प्र॒ति॒कू॒लमिति॑ प्रति - कू॒लम् । इ॒व॒ । हि । इ॒तः । सु॒व॒र्ग इति॑ सुवः - गः । लो॒कः । इन्द्र॑ । क्रतु᳚म् । नः॒ । एति॑ । भ॒र॒ । पि॒ता । पु॒त्रेभ्यः॑ । यथा᳚ ॥ शिक्ष॑ । नः॒ । अ॒स्मिन्न् । पु॒रु॒हू॒तेति॑ पुरु - हू॒त॒ । याम॑नि । जी॒वाः । ज्योतिः॑ । अ॒शी॒म॒हि॒ । इति॑ ( ) । अ॒मुतः॑ । आ॒य॒तामित्या᳚ - य॒ताम् । षट् । मा॒सः । ब्र॒ह्म॒सा॒ममिति॑ ब्रह्म-सा॒मम् । भ॒व॒ति॒ । अ॒यम् । वै । लो॒कः । ज्योतिः॑ । प्र॒जेति॑ प्र-जा । ज्योतिः॑ । इ॒मम् । ए॒व । तत् । लो॒कम् । पश्य॑न्तः । अ॒भि॒वद॑न्त॒इत्य॑भि - वद॑न्तः । एति॑ । य॒न्ति॒ ॥
पदसंख्या: 70