TB 2.1.10

3 पञ्चाशत्

2.1.10 अनुवाकं 10 - वह्नेरवस्थाविशेषानुसारेण होमः

2.1.10.1
यद॒ग्नि-मु॒द्धर॑ति । वस॑व॒स्तर्ह्य॒ग्निः । तस्मि॒न्॒. यस्य॒ तथा॑विधे॒ जुह्व॑ति । वसु॑ष्वे॒वास्या᳚ग्निहो॒त्रꣳ हु॒तं भ॑वति ॥ निहि॑तो धूपा॒यञ्छे॑ते । रु॒द्रास्तह्य॒र्ग्निः । तस्मि॒न्.॒ यस्य॒ तथा॑विधे॒ जुह्व॑ति । रु॒द्रेष्वे॒वास्या᳚ग्निहो॒त्रꣳ हु॒तं भ॑वति ॥ प्र॒थ॒ममि॒द्ध्मम॒र्चिरा ल॑भते । आ॒दि॒त्यास्तर्ह्य॒ग्निः
कोर्वै (Index)
(आ॒दि॒त्यास्तर्ह्य॒ग्निर् - इन्द्र॑ ए॒वास्या᳚ग्निहो॒त्रꣳ हु॒तं भ॑वति - दे॒वेषु॑ च॒त्वारि॑ च)
2.1.10.2
तस्मि॒न्॒. यस्य॒ तथा॑विधे॒ जुह्व॑ति । आ॒दि॒त्येष्वे॒वास्या᳚ग्निहो॒त्रꣳ हु॒तं भ॑वति ॥ सर्व॑ ए॒व स॑र्व॒श इ॒द्ध्म आदी᳚प्तो भवति । विश्वे॑ दे॒वास्तह्य॒र्ग्निः । तस्मि॒न्॒. यस्य॒ तथा॑विधे॒ जुह्व॑ति । विश्वे᳚ष्वे॒वास्य॑ दे॒वेष्व॑ग्निहो॒त्रꣳ हु॒तं भ॑वति ॥ नि॒त॒राम॒र्चिरु॒पावै॑ति लोहि॒नीके॑व भवति । इन्द्र॒स्तर्ह्य॒ग्निः । तस्मि॒न्॒. यस्य॒ तथा॑विधे॒ जुह्व॑ति । इन्द्र॑ ए॒वास्या᳚ग्निहो॒त्रꣳ हु॒तं भ॑वति ।
कोर्वै (Index)
(आ॒दि॒त्यास्तर्ह्य॒ग्निर् - इन्द्र॑ ए॒वास्या᳚ग्निहो॒त्रꣳ हु॒तं भ॑वति - दे॒वेषु॑ च॒त्वारि॑ च)
2.1.10.3
अङ्गा॑रा भवन्ति । तेभ्योऽङ्गा॑रेभ्यो॒ऽर्चिरुदे॑ति । प्र॒जाप॑ति॒स्तर्ह्य॒ग्निः । तस्मि॒न्॒. यस्य॒ तथा॑विधे॒ जुह्व॑ति । प्र॒जाप॑तावे॒वास्या᳚ग्निहो॒त्रꣳ हु॒तं भ॑वति ॥ शरोऽङ्गा॑रा॒ अद्ध्यू॑हन्ते । ब्रह्म॒-तर्ह्य॒ग्निः । तस्मि॒न्.॒ यस्य॒ तथा॑विधे॒ जुह्व॑ति । ब्रह्म॑न्ने॒वास्या᳚ग्निहो॒त्रꣳ हु॒तं भ॑वति ॥ वसु॑षु रु॒द्रेष्वा॑दि॒त्येषु॒ विश्वे॑षु दे॒वेषु॑ ( ) । इन्द्रे᳚ प्र॒जाप॑तौ॒ ब्रह्मन्न्॑ । अप॑रिवर्गमे॒वास्यै॒तासु॑ दे॒वता॑सु हु॒तं भ॑वति । यस्यै॒वं ॅवि॒दुषो᳚ऽग्निहो॒त्रं जुह्व॑ति । य उ॑ चैन दे॒वं ॅवेद॑ ।
कोर्वै (Index)
(आ॒दि॒त्यास्तर्ह्य॒ग्निर् - इन्द्र॑ ए॒वास्या᳚ग्निहो॒त्रꣳ हु॒तं भ॑वति - दे॒वेषु॑ च॒त्वारि॑ च)