ब्र॒ह्म॒वा॒दिनो॑ वदन्ति । अ॒ग्नि॒हो॒त्रप्रा॑यणा य॒ज्ञाः । किं प्रा॑यण-मग्निहो॒त्रमिति॑ । व॒थ्सो वा अ॑ग्निहो॒त्रस्य॒ प्राय॑णम् । अ॒ग्नि॒हो॒त्रं ॅयज्ञाना᳚म् ॥ तस्य॑ पृथि॒वी सदः॑ । अ॒न्तरि॑क्ष॒-माग्नी᳚द्ध्रम् । द्यौर्.-ह॑वि॒र्द्धान᳚म् । दि॒व्या आपः॒ प्रोक्ष॑णयः । ओष॑धयो ब॒र॒.हिः
कोर्वै (Index)
(ब॒र्॒.हिः - प्रा॒तर्. - हु॒ताद्या॑य - जायते - रुन्धे - ऽसा॒मा - क॑रो - त्ये॒ता वा अ॑ग्निहो॒त्रस्यो॑ प॒सदो॑ - वषट्का॒र - श्च॑ प्रात॒र्यावा॑णो॒ - वज्र॒स्त्रीणि॑ च)