द॒क्षि॒ण॒त उप॑ सृजति । पि॒तृ॒लो॒कमे॒व तेन॑ जयति ॥ प्राची॒माव॑र्तयति । दे॒व॒लो॒कमे॒व तेन॑ जयति । उदी॑चीमा॒वृत्य॑ दोग्धि । म॒नु॒ष्य॒लो॒कमे॒व तेन॑ जयति ॥ पूर्वौ॑ दुह्याज्ज्ये॒ष्ठस्य॑ ज्यैष्ठिने॒यस्य॑ । यो वा॑ ग॒तश्रीः॒ स्यात् । अप॑रौ दुह्यात्-कनि॒ष्ठस्य॑ कानिष्ठिने॒यस्य॑ । यो वा॒ बुभू॑षेत् ।
कोर्वै (Index)
(बभू॑षे- द्ध्रि॒यमा॑णं - जायते॒ द्वे च॑)