त्रयो॒ वै प्रै॑यमे॒धा आ॑सन्न् । तेषां॒ त्रिरेको᳚ऽग्निहो॒त्र-म॑जुहोत् । द्विरेकः॑ । स॒कृदेकः॑ । तेषां॒ ॅयस्त्रिरजु॑होत् । स ऋ॒चाऽजु॑होत् । यो द्विः । स यजु॑षा । यः स॒कृत् । स तू॒ष्णीम्
कोर्वै (Index)
(तू॒ष्णीं - जा॑यते॒ - यज॑मानः)
3 पञ्चाशत्
2.1.9 अनुवाकं 9 - अग्निहोत्रस्यासंसृष्टहोममन्त्रौ