उ॒त्त॒राव॑तीं॒ ॅवै दे॒वा आहु॑ति॒मजु॑हवुः । अवा॑ची॒मसु॑राः । ततो॑ दे॒वा अभ॑वन्न् । पराऽसु॑राः । यं का॒मये॑त॒ वसी॑यान्थ् स्या॒दिति॑ । कनी॑य॒स्तस्य॒ पूर्वꣳ॑ हु॒त्वा । उत्त॑रं॒ भूयो॑ जुहुयात् । ए॒षा वा उ॑त्त॒राव॒त्याहु॑तिः । तां दे॒वा अ॑जुहवुः । तत॒स्ते॑ऽभवन्न्
कोर्वै (Index)
(अ॒भ॒व॒न् - भ॒व॒ति॒ - जु॒हु॒यान् - न॑यति - मार्ष्टि॒ द्विः प्राश्ना॑ति - प्राजाप॒त्य - माचा॑मती - न्धे - ऽकः)