रौ॒द्रं गवि॑ । वा॒य॒व्य॑-मुप॑सृष्टम् । आ॒श्वि॒नं दु॒ह्यमा॑नम् । सौ॒म्यं दु॒ग्धम् । वा॒रु॒णमधि॑श्रितम् । वै॒श्व॒दे॒वा भि॒न्दवः॑ । पौ॒ष्णमुद॑न्तम् । सा॒र॒स्व॒तं ॅवि॒ष्यन्द॑मानम् । मै॒त्रꣳ शरः॑ । धा॒तुरुद्वा॑सितम् ( ) । बृह॒स्पते॒रुन्नी॑तम् । स॒वि॒तुः प्रक्रा᳚न्तम् । द्या॒वा॒पृ॒थि॒व्यꣳ॑ ह्रि॒यमा॑णम् । ऐ॒न्द्रा॒ग्न-मुप॑सन्नम् । अ॒ग्नेः पूर्वा ऽऽहु॑तिः । प्र॒जाप॑ते॒-रुत्त॑रा । ऐ॒न्द्रꣳ हु॒तम् ।
कोर्वै (Index)
(उद्वा॑सितꣳ स॒प्त च॑)