TB 2.1.11

1 पञ्चाशत्

2.1.11 अनुवाकं 11 - कालभेदेन समन्त्रकं परिषेचनम्

2.1.11.1
ऋ॒तं त्वा॑ स॒त्येन॒ परि॑षिञ्चा॒मीति॑ सा॒यं परि॑षिञ्चति । स॒त्यं त्व॒र्तेन॒ परि॑षिञ्चा॒मीति॑ प्रा॒तः । अ॒ग्निर्वा ऋ॒तम् । अ॒सावा॑दि॒त्यः स॒त्यम् । अ॒ग्निमे॒व तदा॑दि॒त्येन॑ सा॒यं परि॑षिञ्चति । अ॒ग्निना॑ ऽऽदि॒त्यं प्रा॒तस्सः । याव॑दहोरा॒त्रे भव॑तः । ताव॑दस्य लो॒कस्य॑ । नार्ति॒र्न रिष्टिः॑ । नान्तो॒ न प॑र्य॒न्तो᳚ऽस्ति ( ) । यस्यै॒वं ॅवि॒दुषो᳚ऽग्निहो॒त्रं जुह्व॑ति । य उ॑ चैन दे॒वं ॅवेद॑ ।
कोर्वै (Index)
(अ॒स्ति॒ द्वे च॑)