TB 2.1.6

5 पञ्चाशत्

2.1.6 अनुवाकं 6 - अभ्युद्द्रवणं, होमाभावप्रतीकारश्च

2.1.6.1
प्र॒जाप॑ति-रकामय-तात्म॒न् वन्मे॑ जाये॒तेति॑ । सो॑ऽजुहोत् । तस्या᳚त्म॒न् वद॑जायत । अ॒ग्निर्-वा॒युरा॑-दि॒त्यः । ते᳚ऽब्रुवन्न् । प्र॒जाप॑ति-रहौषी-दात्म॒न्-वन्मे॑ जाये॒तेति॑ । तस्य॑ व॒यम॑जनिष्महि । जाय॑तां न आत्म॒न्-वदिति॒ ते॑ऽजुहवुः । प्रा॒णाना॑म॒ग्निः । त॒नुवै॑ वा॒युः
कोर्वै (Index)
(त॒नुवै॑ वा॒यु - र॒ग्निर् - भ॑व॒ - त्यवि॑त्त्वा - भव॒त्येकं॑ च)
2.1.6.2
चक्षु॑ष आदि॒त्यः । तेषाꣳ॑ हु॒ताद॑जायत॒ गौरे॒व ॥ तस्यै॒ पय॑सि॒ व्याय॑च्छन्त । मम॑ हु॒ताद॑जनि॒ ममेति॑ । ते प्र॒जाप॑तिं प्र॒श्नमा॑यन्न् । स आ॑दि॒त्यो᳚ऽग्नि-म॑ब्रवीत् । य॒त॒रो नौ॒ जया᳚त् । तन्नौ॑ स॒हास॒दिति॑ । कस्यै कोऽहौ॑षी॒दिति॑ प्र॒जाप॑ति-रब्रवी॒त्-कस्यै क॒ इति॑ । प्रा॒णाना॑म॒हमित्य॒ग्निः
कोर्वै (Index)
(त॒नुवै॑ वा॒यु - र॒ग्निर् - भ॑व॒ - त्यवि॑त्त्वा - भव॒त्येकं॑ च)
2.1.6.3
त॒नुवा॑ अ॒हमिति॑ वा॒युः । चक्षु॑षो॒ऽहमित्या॑दि॒त्यः । य ए॒व प्रा॒णाना॒महौ॑षीत् । तस्य॑ हु॒ताद॑ज॒नीति॑ । अ॒ग्नेर्. हु॒ताद॑ज॒नीति॑ । तद॑ग्निहो॒त्रस्या᳚-ग्निहोत्र॒त्वम् । गौर्वा अ॑ग्निहो॒त्रम् । य ए॒वं ॅवेद॒ गौर॑ग्निहो॒त्रमिति॑ । प्रा॒णा॒पा॒नाभ्या॑-मे॒वाग्निꣳ सम॑र्द्धयति । अव्य॑र्द्धुकः प्राणापा॒नाभ्यां᳚ भवति
कोर्वै (Index)
(त॒नुवै॑ वा॒यु - र॒ग्निर् - भ॑व॒ - त्यवि॑त्त्वा - भव॒त्येकं॑ च)
2.1.6.4
य ए॒वं ॅवेद॑ ॥ तौ वा॒युर॑ब्रवीत् । अनु॒ मा भ॑जत॒मिति॑ । यदे॒व गार्.ह॑पत्येऽधि॒श्रित्या॑-हव॒नीय॑-म॒भ्यु॑द्द्रवान्॑ । तेन॒ त्वां प्री॑णा॒नित्य॑-ब्रूताम् । तस्मा॒द्-यद्-गार्.ह॑पत्येऽधि॒-श्रित्या॑हव॒नीय॑-म॒भ्यु॑द्द्रव॑ति । वा॒युमे॒व तेन॑ प्रीणाति ॥ प्र॒जाप॑तिर्-दे॒वताः᳚ सृ॒जमा॑नः । अ॒ग्निमे॒व दे॒वता॑नां प्रथ॒म-म॑सृजत । सो᳚ऽन्यदा॑ल॒म्-भ्य॑मवि॑त्त्वा
कोर्वै (Index)
(त॒नुवै॑ वा॒यु - र॒ग्निर् - भ॑व॒ - त्यवि॑त्त्वा - भव॒त्येकं॑ च)
2.1.6.5
प्र॒जाप॑तिम॒भि प॒र्याव॑र्तत । स मृ॒त्यो-र॑बिभेत् । सो॑ऽमुमा॑दि॒त्य-मा॒त्मनो॒ निर॑मिमीत । तꣳहु॒त्वा परा᳚ङ्प॒र्याव॑र्तत । ततो॒ वै स मृ॒त्युमपा॑जयत् । अप॑ मृ॒त्युं ज॑यति । य ए॒वं ॅवेद॑ ॥ तस्मा॒द्-यस्यै॒वं ॅवि॒दुषः॑ । उ॒तैका॒हमु॒त द्व्य॒हं न जुह्व॑ति । हु॒तमे॒वास्य॑ भवति ( ) । अ॒सौ ह्या॑दि॒त्यो᳚ऽग्निहो॒त्रम् ।
कोर्वै (Index)
(त॒नुवै॑ वा॒यु - र॒ग्निर् - भ॑व॒ - त्यवि॑त्त्वा - भव॒त्येकं॑ च)