रु॒द्रो वा ए॒षः । यद॒ग्निः । पत्नी᳚ स्था॒ली । यन्मद्ध्ये॒ऽग्ने-र॑धि॒श्रये᳚त् । रु॒द्राय॒ पत्नी॒मपि॑ दद्ध्यात् । प्र॒मायु॑का स्यात् । उदी॒चोऽङ्गा॑रान्नि॒रूह्याधि॑ श्रयति । पत्नि॑यै गोपी॒थाय॑ ॥ व्य॑न्तान् करोति । तथा॒ पत्न्य-प्र॑मायुका भवति ।
कोर्वै (Index)
(भ॒व॒ति॒ - प्र॒ति॒षि॒ञ्चति॑ - गमयति - प्र॒त्यक् - प॒शव॑ - उपनि॒धा - या᳚द्घ्रिय॒न् - तेति॒ - तच्च॒त्वारि॑ च)