TB 2.3.1

3 पञ्चाशत्

2.3.1 अनुवाकं 1 - सर्वेषां होतृमन्त्राणां चतुर्होतृशब्देन व्यवहार

2.3.1.1
ब्र॒ह्म॒वा॒दिनो॑ वदन्ति । किं चतु॑र्.होतृणां चतुर्.होतृ॒त्वमिति॑ । यदे॒वैषु च॑तु॒र्द्धा होता॑रः । तेन॒ चतु॑र्.होतारः । तस्मा॒च्चतु॑र्.होतार उच्यन्ते । तच्चतु॑र्.होतृणां चतुर्.होतृ॒त्वम् ॥ सोमो॒ वै चतु॑र्.होता । अ॒ग्निः पञ्च॑होता । धा॒ता षड्ढो॑ता । इन्द्रः॑ स॒प्तहो॑ता
कोर्वै (Index)
(स॒प्तहो॑ता - प्रति॒ष्ठां वेद॑ - बुद्ध्यन्ते॒ षट्च॑)
2.3.1.2
प्र॒जाप॑ति॒र्-दश॑होता । य ए॒वं चतु॑र्.होतृणा॒-मृद्धिं॒ ॅवेद॑ । ऋ॒ध्नोत्ये॒व ॥ य ए॑षामे॒वं ब॒न्धुतां॒ ॅवेद॑ । बन्धु॑मान्भवति । य ए॑षामे॒वं क्लृप्तिं॒ ॅवेद॑ । कल्प॑तेऽस्मै । य ए॑षामे॒व-मा॒यत॑नं॒ ॅवेद॑ । आ॒यत॑नवान्-भवति । य ए॑षामे॒वं प्र॑ति॒ष्ठां ॅवेद॑
कोर्वै (Index)
(स॒प्तहो॑ता - प्रति॒ष्ठां वेद॑ - बुद्ध्यन्ते॒ षट्च॑)
2.3.1.3
प्रत्ये॒व ति॑ष्ठति ॥ ब्र॒ह्म॒वा॒दिनो॑ वदन्ति । दश॑होता॒ चतु॑र्.होता । पञ्च॑होता॒ षड्ढो॑ता स॒प्तहो॑ता । अथ॒ कस्मा॒च्चतु॑र्.होतार उच्यन्त॒ इति॑ । इन्द्रो॒ वै चतु॑र्.होता । इन्द्रः॒ खलु॒ वै श्रेष्ठो॑ दे॒वता॑ना-मुप॒देश॑नात् । य ए॒वमिन्द्रꣳ॒॒ श्रेष्ठं॑ दे॒वता॑ना-मुप॒देश॑ना॒द्-वेद॑ । वसि॑ष्ठः समा॒नानां᳚ भवति । तस्मा॒च्छ्रेष्ठ॑मा॒यन्तं॑ प्रथ॒मेनै॒वानु॑बुद्ध्यन्ते ( ) । अ॒यमागन्न्॑ । अ॒यमवा॑सा॒दिति॑ । की॒र्तिर॑स्य॒ पूर्वाऽऽग॑च्छति ज॒नता॑माय॒तः । अथो॑ एनं प्रथ॒मेनै॒वानु॑ बुद्ध्यन्ते । अ॒यमागन्न्॑ । अ॒यमवा॑सा॒दिति॑ ।
कोर्वै (Index)
(स॒प्तहो॑ता - प्रति॒ष्ठां वेद॑ - बुद्ध्यन्ते॒ षट्च॑)