प्र॒जाप॑तिः प्र॒जाः सृ॒ष्ट्वा व्य॑स्रꣳसत । स हृद॑यं भू॒तो॑ऽशयत् । आत्म॒न्॒. हा(3) इत्यह्व॑यत् । आपः॒ प्रत्य॑शृण्वन्न् । ता अ॑ग्निहो॒त्रेणै॒व य॑ज्ञ्क्र॒तुनोप॑ प॒र्याव॑र्तन्त । ताः कुसि॑न्ध॒मुपौ॑हन्न् । तस्मा॑दग्निहो॒त्रस्य॑ यज्ञ्क्र॒तोः । एक॑ ऋ॒त्विक् ॥ च॒तु॒ष्कृत्वोऽह्व॑यत् । अ॒ग्निर्-वा॒यु-रा॑दि॒त्य-श्च॒न्द्रमाः᳚
कोर्वै (Index)
(च॒न्द्रमा᳚ - श्चातुर्मा॒स्यानां᳚ ॅयज्ञ्क्र॒तो - र॑द्ध्व॒रेण॑ यज्ञ्क्र॒तुनोप॑ प॒र्याव॑र्तन्त - स॒प्तहो॑ता च॒त्वारि॑ च)