TB 2.3.4

6 पञ्चाशत्

2.3.4 अनुवाकं 4 - प्रतिग्रहमन्त्रमहिमज्ञानम्

2.3.4.1
तस्य॒ वा अ॒ग्नेर्. हिर॑ण्यं प्रतिजग्र॒हुषः॑ । अ॒र्द्धमि॑न्द्रि॒यस्या-पा᳚क्रामत् । तदे॒तेनै॒व प्रत्य॑गृह्णात् । तेन॒ वै सो᳚ऽर्द्धमि॑न्द्रि॒य-स्या॒त्मन्-नु॒पाध॑त्त । अ॒र्द्धमि॑न्द्रि॒यस्या॒त्मन्-नु॒पाध॑त्ते । य ए॒वं ॅवि॒द्वान्. हिर॑ण्यं प्रति गृ॒ह्णाति॑ । अथ॒ यो ऽवि॑द्वान् प्रति गृ॒ह्णाति॑ । अ॒र्द्धम॑स्येन्द्रि॒यस्याप॑ क्रामति ॥ तस्य॒ वै सोम॑स्य॒ वासः॑ प्रतिजग्र॒हुषः॑ । तृती॑यमिन्द्रि॒यस्या-पा᳚क्रामत्
कोर्वै (Index)
(तृती॑यमिन्द्रि॒यस्यापा᳚क्रामच् - चतु॒र्थमि॑न्द्रि॒यस्या॒त्मन्नु॒पाध॒ - त्ताश्वं॑ प्रतिगृ॒ह्णाति॑ - ष॒ष्ठ॑मस्येन्द्रि॒यस्याप॑क्राम -त्यष्ट॒ममि॑न्द्रि॒यस्यापा᳚क्रामत् - प्रति गृह्णी॒याच् च॒त्वारि॑ च)
2.3.4.2
तदे॒तेनै॒व प्रत्य॑गृह्णात् । तेन॒ वै स तृती॑यमिन्द्रि॒यस्या॒त्मन्-नु॒पाध॑त्त । तृती॑यमिन्द्रि॒यस्या॒त्मन्-नु॒पाध॑त्ते । य ए॒वं ॅवि॒द्वान्. वासः॑ प्रति गृ॒ह्णाति॑ । अथ॒ योऽवि॑द्वान् प्रति गृ॒ह्णाति॑ । तृती॑यमस्येन्द्रि॒यस्याप॑ क्रामति ॥ तस्य॒ वै रु॒द्रस्य॒ गां प्र॑तिजग्र॒हुषः॑ । च॒तु॒र्थमि॑न्द्रि॒यस्या-पा᳚क्रामत् । तामे॒तेनै॒व प्रत्य॑गृह्णात् । तेन॒ वै स च॑तु॒र्थमि॑न्द्रि॒यस्या॒त्मन्-नु॒पाध॑त्त
कोर्वै (Index)
(तृती॑यमिन्द्रि॒यस्यापा᳚क्रामच् - चतु॒र्थमि॑न्द्रि॒यस्या॒त्मन्नु॒पाध॒ - त्ताश्वं॑ प्रतिगृ॒ह्णाति॑ - ष॒ष्ठ॑मस्येन्द्रि॒यस्याप॑क्राम -त्यष्ट॒ममि॑न्द्रि॒यस्यापा᳚क्रामत् - प्रति गृह्णी॒याच् च॒त्वारि॑ च)
2.3.4.3
च॒तु॒र्थमि॑न्द्रि॒यस्या॒त्मन्-नु॒पाध॑त्ते । य ए॒वं ॅवि॒द्वान् गां प्र॑ति गृ॒ह्णाति॑ । अथ॒ योऽवि॑द्वान् प्रति गृ॒ह्णाति॑ । च॒तु॒र्थम॑स्येन्द्रि॒यस्याप॑ क्रामति ॥ तस्य॒ वै वरु॑ण॒स्याश्व॑म् प्रतिजग्र॒हुषः॑ । प॒ञ्च॒ममि॑न्द्रि॒यस्या-पा᳚क्रामत् । तमे॒तेनै॒व प्रत्य॑गृह्णात् । तेन॒ वै स प॑ञ्च॒ममि॑न्द्रि॒यस्या॒त्मन्-नु॒पाध॑त्त । प॒ञ्च॒ममि॑न्द्रि॒यस्या॒त्मन्-नु॒पाध॑त्ते । य ए॒वं ॅवि॒द्वानश्वं॑ प्रति गृ॒ह्णाति॑
कोर्वै (Index)
(तृती॑यमिन्द्रि॒यस्यापा᳚क्रामच् - चतु॒र्थमि॑न्द्रि॒यस्या॒त्मन्नु॒पाध॒ - त्ताश्वं॑ प्रतिगृ॒ह्णाति॑ - ष॒ष्ठ॑मस्येन्द्रि॒यस्याप॑क्राम -त्यष्ट॒ममि॑न्द्रि॒यस्यापा᳚क्रामत् - प्रति गृह्णी॒याच् च॒त्वारि॑ च)
2.3.4.4
अथ॒ योऽवि॑द्वान् प्रतिगृ॒ह्णाति॑ । प॒ञ्च॒मम॑स्येन्द्रि॒यस्याप॑ क्रामति ॥ तस्य॒ वै प्र॒जाप॑तेः॒ पुरु॑षं प्रतिजग्र॒हुषः॑ । ष॒ष्ठमि॑न्द्रि॒यस्या-पा᳚क्रामत् । तमे॒तेनै॒व प्रत्य॑गृह्णात् । तेन॒ वै स ष॒ष्ठमि॑न्द्रि॒यस्या॒त्मन्-नु॒पाध॑त्त । ष॒ष्ठमि॑न्द्रि॒यस्या॒त्मन्-नु॒पाध॑त्ते । य ए॒वं ॅवि॒द्वान् पुरु॑षं प्रति गृ॒ह्णाति॑ । अथ॒ योऽवि॑द्वान् प्रति गृ॒ह्णाति॑ । ष॒ष्ठम॑स्येन्द्रि॒यस्याप॑-क्रामति ।
कोर्वै (Index)
(तृती॑यमिन्द्रि॒यस्यापा᳚क्रामच् - चतु॒र्थमि॑न्द्रि॒यस्या॒त्मन्नु॒पाध॒ - त्ताश्वं॑ प्रतिगृ॒ह्णाति॑ - ष॒ष्ठ॑मस्येन्द्रि॒यस्याप॑क्राम -त्यष्ट॒ममि॑न्द्रि॒यस्यापा᳚क्रामत् - प्रति गृह्णी॒याच् च॒त्वारि॑ च)
2.3.4.5
तस्य॒ वै मनो॒स्तल्पं॑ प्रतिजग्र॒हुषः॑ । स॒प्त॒ममि॑न्द्रि॒यस्या-पा᳚क्रामत् । तमे॒तेनै॒व प्रत्य॑गृह्णात् । तेन॒ वै स स॑प्त॒ममि॑न्द्रि॒य-स्या॒त्मन्-नु॒पाध॑त्त । स॒प्त॒ममि॑न्द्रि॒यस्या॒त्मन्-नु॒पाध॑त्ते । य ए॒वं ॅवि॒द्वाꣳस्तल्पं॑ प्रतिगृ॒ह्णाति॑ । अथ॒ योऽवि॑द्वान् प्रति गृ॒ह्णाति॑ । स॒प्त॒मम॑स्येन्द्रि॒यस्याप॑-क्रामति ॥ तस्य॒ वा उ॑त्ता॒नस्या᳚ङ्गीर॒सस्या प्रा॑णत् प्रतिजग्र॒हुषः॑ । अ॒ष्ट॒ममि॑न्द्रि॒यस्या-पा᳚क्रामत्
कोर्वै (Index)
(तृती॑यमिन्द्रि॒यस्यापा᳚क्रामच् - चतु॒र्थमि॑न्द्रि॒यस्या॒त्मन्नु॒पाध॒ - त्ताश्वं॑ प्रतिगृ॒ह्णाति॑ - ष॒ष्ठ॑मस्येन्द्रि॒यस्याप॑क्राम -त्यष्ट॒ममि॑न्द्रि॒यस्यापा᳚क्रामत् - प्रति गृह्णी॒याच् च॒त्वारि॑ च)
2.3.4.6
तदे॒तेनै॒व प्रत्य॑गृह्णात् । तेन॒ वै सो᳚ऽष्ट॒ममि॑न्द्रि॒यस्या॒त्मन्-नु॒पाध॑त्ते । अ॒ष्ट॒ममि॑न्द्रि॒यस्या॒त्मन्-नु॒पाध॑त्ते । य ए॒वं ॅवि॒द्वान प्रा॑णत् प्रति गृ॒ह्णाति॑ । अथ॒ योऽवि॑द्वान् प्रतिगृ॒ह्णाति॑ । अ॒ष्ट॒मम॑स्येन्द्रि॒यस्याप॑ क्रामति ॥ यद्वा इ॒दं किं च॑ । तथ् सर्व॑-मुत्ता॒न ए॒वाङ्गी॑र॒सः प्रत्य॑ गृह्णात् । तदे॑नं॒ प्रति॑गृहीतं॒ नाहि॑नत् । यत् किं च॑ प्रति गृह्णी॒यात् ( ) । तथ् सर्व॑-मुत्ता॒न-स्त्वा᳚ङ्गीर॒सः प्रति॑गृह्णा॒त्वित्ये॒व प्रति॑ गृह्णीयात् । इ॒यं ॅवा उ॑त्ता॒न आ᳚ङ्गीर॒सः । अ॒नयै॒वैन॒त्-प्रति॑गृह्णाति । नैनꣳ॑ हिनस्ति ।