TB 2.3.8

3 पञ्चाशत्

2.3.8 अनुवाकं 8 - सृष्टिसाधनत्वेन होतृमन्त्रासामर्थ्य प्रशंसा

2.3.8.1
[(अप॑क्रामत गर्भि॒ण्यः) इस् ओन्ल्य् इन्स्त्रुच्तिओन् , नोत् अ मन्त्र]प्र॒जाप॑ति-रकामयत॒ प्रजा॑ये॒येति॑ । स तपो॑ऽतप्यत । सो᳚ऽन्तर्वा॑नभवत् । स हरि॑तः श्या॒वो॑ऽभवत् । तस्मा॒थ्-स्त्र्य॑न्तर्व॑त्नी । हरि॑णी स॒ती श्या॒वा भ॑वति । स वि॒जाय॑मानो॒ गर्भे॑णाताम्यत् । स ता॒न्तः कृ॒ष्णः श्या॒वो॑ऽभवत् । तस्मा᳚त् ता॒न्तः कृ॒ष्णः श्या॒वो भ॑वति । तस्यासु॑रे॒वाजी॑वत्
कोर्वै (Index)
(अ॒जी॒व॒थ् - स्वानां᳚ भवति - दे॒वान॑सृजत स॒प्त च॑)
2.3.8.2
तेनासु॒नाऽसु॑रानसृजत । तदसु॑राणा-मसुर॒त्वम् । य ए॒वमसु॑राणा-मसुर॒त्वं ॅवेद॑ । असु॑माने॒व भ॑वति । नैन॒मसु॑र्जहाति ॥ सोऽसु॑रान्थ् सृ॒ष्ट्वा पि॒तेवा॑मन्यत । तदनु॑ पि॒तॄन॑सृजत । तत्-पि॑तृ॒णां पि॑तृ॒त्वम् । य ए॒वं पि॑तृ॒णां पि॑तृ॒त्वं ॅवेद॑ । पि॒तेवै॒व स्वानां᳚ भवति
कोर्वै (Index)
(अ॒जी॒व॒थ् - स्वानां᳚ भवति - दे॒वान॑सृजत स॒प्त च॑)
2.3.8.3
यन्त्य॑स्य पि॒तरो॒ हव᳚म् ॥ स पि॒तॄन्थ् सृ॒ष्ट्वा ऽम॑नस्यत् । तदनु॑ मनु॒ष्या॑-नसृजत । तन्म॑नु॒ष्या॑णां मनुष्य॒त्वम् । य ए॒वं म॑नु॒ष्या॑णां मनुष्य॒त्वं ॅवेद॑ । म॒न॒स्व्ये॑व भ॑वति । नैनं॒ मनु॑र्जहाति ॥ तस्मै॑ मनु॒ष्या᳚न्थ् ससृजा॒नाय॑ । दिवा॑ देव॒त्रा ऽभ॑वत् । तदनु॑ दे॒वान॑सृजत ( ) । तद्-दे॒वानां᳚ देव॒त्वम् । य ए॒वं दे॒वानां᳚ देव॒त्वं ॅवेद॑ । दिवा॑ है॒वास्य॑ देव॒त्रा भ॑वति ॥ तानि॒ वा ए॒तानि॑ च॒त्वार्यम्भाꣳ॑सि । दे॒वा म॑नु॒ष्याः᳚ पि॒तरोऽसु॑राः ॥ तेषु॒ सर्वे॒ष्वम्भो॒ नभ॑ इव भवति । य ए॒वं ॅवेद॑ ।
कोर्वै (Index)
(अ॒जी॒व॒थ् - स्वानां᳚ भवति - दे॒वान॑सृजत स॒प्त च॑)