TB 2.3.5

6 पञ्चाशत्

2.3.5 अनुवाकं 5 - प्रश्नोत्तररूपो ब्रह्मविषयस्संवादः

2.3.5.1
ब्र॒ह्म॒वा॒दिनो॑ वदन्ति ॥ यद्-दश॑होतारः स॒त्रमास॑त । केन॒ ते गृ॒हप॑तिना ऽऽर्द्ध्नुवन्न् । केन॑ प्र॒जा अ॑सृज॒न्तेति॑ । प्र॒जाप॑तिना॒ वै ते गृ॒हप॑तिना ऽऽर्द्ध्नुवन्न् । तेन॑ प्र॒जा अ॑सृजन्त ॥ यच्चतु॑र्.होतारः स॒त्रमास॑त । केन॒ ते गृ॒हप॑तिना ऽऽर्द्ध्नुवन्न् । केनौष॑धी-रसृज॒न्तेति॑ । सोमे॑न॒ वै ते गृ॒हप॑तिना ऽऽर्द्ध्नुवन्न्
कोर्वै (Index)
(आ॒र्द्ध्नु॒व॒ - न्ना॒ध्नु॒व॒ - न्नित्ये॒ - वं ॅवेदा᳚ - त्ति॒ - सर्वा॒ दिशो॒भि ज॑यति वै तेन॑ स॒त्रं केन॑)
2.3.5.2
तेनौष॑धी-रसृजन्त ॥ यत् पञ्च॑होतारः स॒त्रमास॑त । केन॒ ते गृ॒हप॑तिना ऽऽर्द्ध्नुवन्न् । केनै॒भ्यो लो॒केभ्योऽसु॑रा॒न् प्राणु॑दन्त । केनै॑षां प॒शून॑वृञ्ज॒तेति॑ । अ॒ग्निना॒ वै ते गृ॒हप॑तिना ऽऽर्द्ध्नुवन्न् । तेनै॒भ्यो लो॒केभ्योऽसु॑रा॒न्-प्राणु॑दन्त । तेनै॑षां प॒शून॑वृञ्जत ॥ यथ् षड्ढो॑तारः स॒त्रमास॑त । केन॒ ते गृ॒हप॑तिना ऽऽर्द्ध्नुवन्न्
कोर्वै (Index)
(आ॒र्द्ध्नु॒व॒ - न्ना॒ध्नु॒व॒ - न्नित्ये॒ - वं ॅवेदा᳚ - त्ति॒ - सर्वा॒ दिशो॒भि ज॑यति वै तेन॑ स॒त्रं केन॑)
2.3.5.3
केन॒र्तून॑-कल्पय॒न्तेति॑ । धा॒त्रा वै ते गृ॒हप॑तिना ऽऽर्द्ध्नुवन्न् । तेन॒र्तून॑कल्पयन्त ॥ यथ् स॒प्तहो॑तारः स॒त्रमास॑त । केन॒ ते गृ॒हप॑तिना ऽऽर्द्ध्नुवन्न् । केन॒ सुव॑रायन्न् । केने॒माल् ॅलो॒कान्थ्-सम॑तन्व॒न्निति॑ । अ॒र्य॒म्णा वै ते गृ॒हप॑तिना ऽऽर्द्ध्नुवन्न् । तेन॒ सुव॑रायन्न् । तेने॒माल् ॅलो॒कान्थ्-सम॑तन्व॒न्निति॑ ।
कोर्वै (Index)
(आ॒र्द्ध्नु॒व॒ - न्ना॒ध्नु॒व॒ - न्नित्ये॒ - वं ॅवेदा᳚ - त्ति॒ - सर्वा॒ दिशो॒भि ज॑यति वै तेन॑ स॒त्रं केन॑)
2.3.5.4
ए॒ते वै दे॒वा गृ॒हप॑तयः । तान्. य ए॒वं ॅवि॒द्वान् । अप्य॒न्यस्य॑ गार्.हप॒ते दीक्ष॑ते । अ॒वा॒न्त॒रमे॒व स॒त्रिणा॑-मृद्ध्नोति ॥ यो वा अ॑र्य॒मणं॒ ॅवेद॑ । दान॑कामा अस्मै प्र॒जा भ॑वन्ति । य॒ज्ञो वा अ॑र्य॒मा । आर्या॑वस॒तिरिति॒ वै तमा॑हु॒र्यं प्र॒शꣳस॑न्ति ॥ आर्या॑ वस॒तिर्भ॑वति । य ए॒वं ॅवेद॑ ।
कोर्वै (Index)
(आ॒र्द्ध्नु॒व॒ - न्ना॒ध्नु॒व॒ - न्नित्ये॒ - वं ॅवेदा᳚ - त्ति॒ - सर्वा॒ दिशो॒भि ज॑यति वै तेन॑ स॒त्रं केन॑)
2.3.5.5
यद्वा इ॒दं किं च॑ । तथ् सर्वं॒ चतु॑र्.होतारः । चतु॑र्.होतृ॒भ्योऽधि॑ य॒ज्ञो निमि॑र्तः । स य ए॒वं ॅवि॒द्वान्. वि॒वदे॑त । अ॒हमे॒व भूयो॑ वेद । यश्चतु॑र्.होतॄ॒न्॒. वेदेति॑ । स ह्ये॑व भूयो॒ वेद॑ । यश्चतु॑र्.होतॄ॒न्.॒ वेद॑ ॥ यो वै चतु॑र्.होतृणाꣳ॒॒ होतॄ॒न्॒. वेद॑ । सर्वा॑सु प्र॒जास्वन्न॑मत्ति
कोर्वै (Index)
(आ॒र्द्ध्नु॒व॒ - न्ना॒ध्नु॒व॒ - न्नित्ये॒ - वं ॅवेदा᳚ - त्ति॒ - सर्वा॒ दिशो॒भि ज॑यति वै तेन॑ स॒त्रं केन॑)
2.3.5.6
सर्वा॒ दिशो॒ऽभिज॑यति । प्र॒जाप॑ति॒र्वै दश॑होतृणाꣳ॒॒ होता᳚ । सोम॒श्चतु॑र्.होतृणाꣳ॒॒ होता᳚ । अ॒ग्निः पञ्च॑होतृणाꣳ॒॒ होता᳚ । धा॒ता षड्ढो॑तृणाꣳ॒॒ होता᳚ । अ॒र्य॒मा स॒प्तहो॑तृणाꣳ॒॒ होता᳚ । ए॒ते वै चतु॑र्.होतृणाꣳ॒॒ होता॑रः । तान्. य ए॒वं ॅवेद॑ । सर्वा॑सु प्र॒जास्वन्न॑मत्ति । सर्वा॒ दिशो॒ऽभि ज॑यति ( ) ।
कोर्वै (Index)
(आ॒र्द्ध्नु॒व॒ - न्ना॒ध्नु॒व॒ - न्नित्ये॒ - वं ॅवेदा᳚ - त्ति॒ - सर्वा॒ दिशो॒भि ज॑यति वै तेन॑ स॒त्रं केन॑)