प्र॒जाप॑तिः॒ पुरु॑ष-मसृजत । सो᳚ऽग्निर॑ब्रवीत् । ममा॒य-मन्न॑म॒स्त्विति॑ । सो॑ऽबिभेत् । सर्वं॒ ॅवै मा॒ऽयं प्रध॑क्ष्य॒तीति॑ । स ए॒ताꣳ-श्चतु॑र्.होतॄनात्म॒-स्पर॑णानपश्यत् । तान॑जुहोत् । तैर्वै स आ॒त्मान॑-मस्पृणोत् ॥ यद॑ग्निहो॒त्रं जु॒होति॑ । एक॑होतारमे॒व तद्-य॑ज्ञ्क्र॒तु-मा᳚प्नोत्यग्निहो॒त्रम्
कोर्वै (Index)
(अ॒ग्नि॒हो॒त्रं - म॒ज्जानं॒ - द्विर्जु॑हो॒ - त्यप॑रिवर्गꣳ स्पृ॒णोत्येकं॑ च )