ब्रह्मा᳚त्म॒न्-वद॑सृजत । तद॑कामयत । समा॒त्मना॑ पद्ये॒येति॑ । आत्म॒न्-नात्म॒न्-नित्याम॑न्त्रयत । तस्मै॑ दश॒मꣳ हू॒तः प्रत्य॑शृणोत् । स दश॑हूतोऽभवत् । दश॑हूतो ह॒ वै नामै॒षः । तं ॅवा ए॒तं दश॑हूतꣳ॒॒ सन्त᳚म् । दश॑हो॒तेत्याच॑क्षते प॒रोक्षे॑ण । प॒रोक्ष॑प्रिया इव॒ हि दे॒वाः ।
कोर्वै (Index)
(दे॒वाः - षड्ढू॑तोऽभव॒त् - पञ्च॑हो॒तेत्याच॑क्षते प॒रोक्षे॑णा - श्रौषीः॒ षट्च॑)