TB 2.3.10

4 पञ्चाशत्

2.3.10 अनुवाकं 10 - दशहोतृमन्त्राणां काम्यप्रयोगः

2.3.10.1
प्र॒जाप॑तिः॒ सोमꣳ॒॒ राजा॑नमसृजत । तं त्रयो॒ वेदा॒ अन्व॑सृज्यन्त । तान्. हस्ते॑ऽकुरुत । अथ॒ ह सीता॑ सावि॒त्री । सोमꣳ॒॒ राजा॑नं चकमे । श्र॒द्धामु॒ स च॑कमे । सा ह॑ पि॒तरं॑ प्र॒जाप॑ति॒-मुप॑ससार । तꣳ हो॑वाच । नम॑स्ते अस्तु भगवः । उप॑ त्वाऽयानि
कोर्वै (Index)
(अ॒या॒ - न्य॒ल॒ङ्कृत्य॑ - स्या॒मिति॑ - भवति)
2.3.10.2
प्र त्वा॑ पद्ये ॥ सोमं॒ ॅवै राजा॑नं कामये । श्र॒द्धामु॒ स का॑मयत॒ इति॑ । तस्या॑ उ॒ ह स्था॑ग॒रम॑लङ्का॒रं क॑ल्पयि॒त्वा । दश॑होतारं पु॒रस्ता᳚द्-व्या॒ख्याय॑ । चतु॑र्.होतारं दक्षिण॒तः । पञ्च॑ होतारं प॒श्चात् । षड्ढो॑तार-मुत्तर॒तः । स॒प्तहो॑तार-मु॒परि॑ष्टात् । स॒म्भा॒रैश्च॒ पत्नि॑भिश्च॒ मुखे॑ऽल॒ङ्कृत्य॑
कोर्वै (Index)
(अ॒या॒ - न्य॒ल॒ङ्कृत्य॑ - स्या॒मिति॑ - भवति)
2.3.10.3
आऽस्यार्द्धं ॅव॑व्राज । ताꣳ हो॒दीक्ष्यो॑वाच । उप॒ माऽऽव॑र्त॒स्वेति॑ । तꣳ हो॑वाच । भोगं॒ तु म॒ आच॑क्ष्व । ए॒तन् म॒ आच॑क्ष्व । यत्ते॑ पा॒णाविति॑ । तस्या॑ उ॒ ह त्रीन्. वेदा॒न् प्रद॑दौ । तस्मा॒दु ह॒ स्त्रियो॒ भोग॒मैव हा॑रयन्ते ॥ स यः का॒मये॑त प्रि॒यः स्या॒मिति॑
कोर्वै (Index)
(अ॒या॒ - न्य॒ल॒ङ्कृत्य॑ - स्या॒मिति॑ - भवति)
2.3.10.4
यं ॅवा॑ का॒मये॑त प्रि॒यः स्या॒दिति॑ । तस्मा॑ ए॒तꣳ स्था॑ग॒र-म॑लङ्का॒रं क॑ल्पयि॒त्वा । दश॑होतारं पु॒रस्ता᳚द्-व्या॒ख्याय॑ । चतु॑र्.होतारं दक्षिण॒तः । पञ्च॑होतारं प॒श्चात् । षड्ढो॑तार-मुत्तर॒तः । स॒प्तहो॑ता-रमु॒परि॑ष्टात् । स॒म्भा॒रैश्च॒ पत्नि॑भिश्च॒ मुखे॑ऽल॒ङ्कृत्य॑ । आऽस्यार्द्धं ॅव्र॑जेत् । प्रि॒यो है॒व भ॑वति ( ) ।
कोर्वै (Index)
(अ॒या॒ - न्य॒ल॒ङ्कृत्य॑ - स्या॒मिति॑ - भवति)