TB 2.3.9

9 पञ्चाशत्

2.3.9 अनुवाकं 9 - वायुरूपत्वज्ञानेन होतृमन्त्राणां प्रशंसा

2.3.9.1
[(य॒था॒स्था॒नं ग॑र्भि॒ण्यः॑) इस् ऒन्ल्य् इन्स्त्रुच्तिऒन् , नॊत् अ मन्त्र]ब्र॒ह्म॒वा॒दिनो॑ वदन्ति । यो वा इ॒मं ॅवि॒द्यात् । यतो॒ऽयं पव॑ते । यद॑भि॒ पव॑ते । यद॑भि स॒पंव॑ते । सर्व॒मायु॑रियात् । न पु॒रा ऽऽयु॑षः॒ प्रमी॑येत । प॒शु॒मान्थ् स्या᳚त् । वि॒न्देत॑ प्र॒जाम् ॥ यो वा इ॒मं ॅवेद॑
कोर्वै (Index)
(वेद॒ - संप॑वत - आदि॒त्यात् प॑वते - वा॒त्या - वा᳚त्ये॒ - ष पव॑मान ए॒व - द॑क्षिण॒त आ॒यन्त॑मुप॒ वद॑न् - त्युत्तर॒तः पा॒प्मान॒स्ताꣳस्ते ऽप॑घ्न॒ - न्तीत्य॒ष्टौ च॑)
2.3.9.2
यतो॒ऽयं पव॑ते । यद॑भि॒ पव॑ते । यद॑भि स॒पंव॑ते । सर्व॒मायु॑रेति । न पु॒राऽऽयु॑षः॒ प्रमी॑यते । प॒शु॒मान् भ॑वति । वि॒न्दते᳚ प्र॒जाम् ॥ अ॒द्भ्यः प॑वते । अ॒पो॑ऽभि प॑वते । अ॒पो॑ऽभि संप॑वते ।
कोर्वै (Index)
(वेद॒ - संप॑वत - आदि॒त्यात् प॑वते - वा॒त्या - वा᳚त्ये॒ - ष पव॑मान ए॒व - द॑क्षिण॒त आ॒यन्त॑मुप॒ वद॑न् - त्युत्तर॒तः पा॒प्मान॒स्ताꣳस्ते ऽप॑घ्न॒ - न्तीत्य॒ष्टौ च॑)
2.3.9.3
अ॒स्याः प॑वते । इ॒माम॒भि प॑वते । इ॒माम॒भि संप॑वते । अ॒ग्नेः प॑वते । अ॒ग्निम॒भि प॑वते । अ॒ग्निम॒भि सं प॑वते । अ॒न्तरि॑क्षात् पवते । अ॒न्तरि॑क्षम॒भि प॑वते । अ॒न्तरि॑क्षम॒भि सं प॑वते । आ॒दि॒त्यात् प॑वते
कोर्वै (Index)
(वेद॒ - संप॑वत - आदि॒त्यात् प॑वते - वा॒त्या - वा᳚त्ये॒ - ष पव॑मान ए॒व - द॑क्षिण॒त आ॒यन्त॑मुप॒ वद॑न् - त्युत्तर॒तः पा॒प्मान॒स्ताꣳस्ते ऽप॑घ्न॒ - न्तीत्य॒ष्टौ च॑)
2.3.9.4
आ॒दि॒त्यम॒भि प॑वते । आ॒दि॒त्यम॒भि सं प॑वते । द्योः प॑वते । दिव॑म॒भि प॑वते ॥ दिव॑म॒भि सं प॑वते । दि॒ग्भ्यः प॑वते । दिशो॒ऽभि प॑वते । दिशो॒ऽभि सं प॑वते । स यत्-पु॒रस्ता॒द्वाति॑ । प्रा॒ण ए॒व भू॒त्वा पु॒रस्ता᳚द्वाति
कोर्वै (Index)
(वेद॒ - संप॑वत - आदि॒त्यात् प॑वते - वा॒त्या - वा᳚त्ये॒ - ष पव॑मान ए॒व - द॑क्षिण॒त आ॒यन्त॑मुप॒ वद॑न् - त्युत्तर॒तः पा॒प्मान॒स्ताꣳस्ते ऽप॑घ्न॒ - न्तीत्य॒ष्टौ च॑)
2.3.9.5
तस्मा᳚त्-पु॒रस्ता॒-द्वान्त᳚म् । सर्वाः᳚ प्र॒जाः प्रति॑ नन्दन्ति । प्रा॒णो हि प्रि॒यः प्र॒जाना᳚म् । प्रा॒ण इ॑व प्रि॒यः प्र॒जानां᳚ भवति । य ए॒वं ॅवेद॑ । स वा ए॒ष प्रा॒ण ए॒व ॥ अथ॒ यद्-द॑क्षिण॒तो वाति॑ । मा॒त॒रिश्वै॒व भू॒त्वा द॑क्षिण॒तो वा॑ति । तस्मा᳚द्-दक्षिण॒तो वान्तं॑ ॅवि॒द्यात् । सर्वा॒ दिश॒ आवा॑ति
कोर्वै (Index)
(वेद॒ - संप॑वत - आदि॒त्यात् प॑वते - वा॒त्या - वा᳚त्ये॒ - ष पव॑मान ए॒व - द॑क्षिण॒त आ॒यन्त॑मुप॒ वद॑न् - त्युत्तर॒तः पा॒प्मान॒स्ताꣳस्ते ऽप॑घ्न॒ - न्तीत्य॒ष्टौ च॑)
2.3.9.6
सर्वा॒ दिशोऽनु॒ विवा॑ति । सर्वा॒ दिशोऽनु॒ सम्ॅवा॒तीति॑ । स वा ए॒ष मा॑त॒रिश्वै॒व ॥ अथ॒ यत्-प॒श्चाद्वाति॑ । पव॑मान ए॒व भू॒त्वा प॒श्चाद्वा॑ति । पू॒तम॑स्मा॒ आह॑रन्ति । पू॒तमुप॑हरन्ति । पू॒तम॑श्नाति । य ए॒वं ॅवेद॑ । स वा ए॒ष पव॑मान ए॒व ।
कोर्वै (Index)
(वेद॒ - संप॑वत - आदि॒त्यात् प॑वते - वा॒त्या - वा᳚त्ये॒ - ष पव॑मान ए॒व - द॑क्षिण॒त आ॒यन्त॑मुप॒ वद॑न् - त्युत्तर॒तः पा॒प्मान॒स्ताꣳस्ते ऽप॑घ्न॒ - न्तीत्य॒ष्टौ च॑)
2.3.9.7
अथ॒ यदु॑त्तर॒तो वाति॑ । स॒वि॒तैव भू॒त्वोत्त॑र॒तो वा॑ति । स॒वि॒तेव॒ स्वानां᳚ भवति । य ए॒वं ॅवेद॑ । स वा ए॒ष स॑वि॒तैव ॥ ते य ए॑नं पु॒रस्ता॑दा॒यन्त॑-मुप॒वद॑न्ति । य ए॒वास्य॑ पु॒रस्ता᳚त्-पा॒प्मानः॑ । ताꣳस्ते ऽप॑घ्नन्ति । पु॒रस्ता॒दित॑रान्-पा॒प्मनः॑ सचन्ते ॥ अथ॒ य ए॑नं दक्षिण॒त आ॒यन्त॑-मुप॒वद॑न्ति
कोर्वै (Index)
(वेद॒ - संप॑वत - आदि॒त्यात् प॑वते - वा॒त्या - वा᳚त्ये॒ - ष पव॑मान ए॒व - द॑क्षिण॒त आ॒यन्त॑मुप॒ वद॑न् - त्युत्तर॒तः पा॒प्मान॒स्ताꣳस्ते ऽप॑घ्न॒ - न्तीत्य॒ष्टौ च॑)
2.3.9.8
य ए॒वास्य॑ दक्षिण॒तः पा॒प्मानः॑ । ताꣳस्ते ऽप॑घ्नन्ति । द॒क्षि॒ण॒त इत॑रान् पा॒प्मनः॑ सचन्ते ॥ अथ॒ य ए॑नं प॒श्चादा॒यन्त॑-मुप॒वद॑न्ति । य ए॒वास्य॑ प॒श्चात्-पा॒प्मानः॑ । ताꣳस्ते ऽप॑घ्नन्ति । प॒श्चादित॑रान्-पा॒प्मनः॑ सचन्ते ॥ अथ॒ य ए॑नमुत्तर॒त आ॒यन्त॑मुप॒ वद॑न्ति । य ए॒वास्यो᳚त्तर॒तः पा॒प्मानः॑ । ताꣳस्ते ऽप॑घ्नन्ति
कोर्वै (Index)
(वेद॒ - संप॑वत - आदि॒त्यात् प॑वते - वा॒त्या - वा᳚त्ये॒ - ष पव॑मान ए॒व - द॑क्षिण॒त आ॒यन्त॑मुप॒ वद॑न् - त्युत्तर॒तः पा॒प्मान॒स्ताꣳस्ते ऽप॑घ्न॒ - न्तीत्य॒ष्टौ च॑)
2.3.9.9
उ॒त्त॒र॒त इत॑रान् पा॒प्मनः॑ सचन्ते ॥ तस्मा॑ दे॒वं ॅवि॒द्वान् । वीव॑ नृत्येत् । प्रेव॑ चलेत् । व्यस्ये॑वा॒क्ष्यौ भा॑षेत । म॒ण्टये॑दिव । क्रा॒थये॑दिव । शृ॒ङ्गा॒येते॑व ॥ उ॒त मोप॑वदेयुः । उ॒त मे॑ पा॒प्मान॒-मप॑हन्यु॒रिति॑ ( ) ॥ स यां दिशꣳ॑ स॒निमे॒ष्यन्थ्-स्यात् । य॒दा तां दिशं॒ ॅवातो॑ वा॒यात् । अथ॒ प्रवे॒यात् । प्र वा॑ धापयेत् (धावयेत्) । सा॒तमे॒व र॑दि॒तं ॅव्यू॑ढं ग॒न्धम॒भि प्रच्य॑वते । आऽस्य॒ तं ज॑नप॒दं पूर्वा॑ की॒र्तिर्ग॑च्छति ॥दान॑कामा अस्मै प्र॒जा भ॑वन्ति । य ए॒वं ॅवेद॑ ।