लो॒को॑ऽसि स्व॒र्गो॑ऽसि । अ॒न॒न्तो᳚ऽस्य पा॒रो॑ऽसि । अक्षि॑तोऽस्य क्ष॒य्यो॑ऽसि । तप॑सः प्रति॒ष्ठा । त्वयी॒दम॒न्तः । विश्वं॑ ॅय॒क्षं ॅविश्वं॑ भू॒तं ॅविश्वꣳ॑ सुभू॒तं । विश्व॑स्य भ॒र्ता विश्व॑स्य जनयि॒ता । तन्त्वोप॑दधे काम॒दुघ॒-मक्षि॑तं । प्र॒जाप॑तिस्त्वा सादयतु । तया॑ दे॒वत॑या-ऽङ्गिर॒स्वद्-ध्रु॒वा सी॑द ।
कोर्वै (Index)
लो॒क - स्तप॒ - स्तेजः॑ - समु॒द्र - आपः॑ - पृथि॒व्य॑ - ग्नि - र॒न्तरि॑क्षम् - वा॒युर् - द्यौ - रा॑दि॒त्य - श्च॒न्द्रमा॒ - नक्ष॑त्राणि - सम्ॅवथ्स॒र - ऋ॒तवो॒ - मासा॑ - अद्र्धमा॒सा - अ॑होरा॒त्रे - पौ᳚र्णमा॒सी - राड॒ - स्योजो॒ऽस्येक॑विꣳशतिः