अन्न॑प॒ते ऽन्न॑स्य नो देहि । अ॒न॒मी॒वस्य॑ शु॒ष्मिणः॑ । प्रप्र॑दा॒तार॑न्तारिषः । ऊर्जं॑ नो धेहि द्वि॒पदे॒ चतु॑ष्पदे । अग्ने॑ पृथिवीपते । सोम॑ वीरुधां पते । त्वष्टः॑ समिधां पते । विष्ण॑वाशानां पते । मित्र॑ सत्यानां पते । वरु॑ण धर्मणां पते
कोर्वै (Index)
[वरु॑ण धर्मणां पते॒ स्वः॑ - स्वाहा᳚ ( ) ]