TB 3.11.6

4 पञ्चाशत्

3.11.6 अनुवाकं 6 - उपस्थानम्

3.11.6.1
यत्तेऽचि॑तं॒ ॅयदु॑ चि॒तन्ते॑ अग्ने । यत्त॑ ऊ॒नं ॅयदु॒ तेऽति॑रिक्तं । आ॒दि॒त्यास्त-दङ्गि॑रस-श्चिन्वन्तु । विश्वे॑ ते दे॒वाश्चिति॒-मापू॑रयन्तु । चि॒तश्चासि॒ सञ्चि॑तश्चा-स्यग्ने । ए॒तावाꣳ॒॒श्चासि॒ भूयाꣳ॑श्चास्यग्ने ॥ लो॒कं पृ॑ण च्छि॒द्रं पृ॑ण । अथो॑ सीद शि॒वा त्वं । इ॒न्द्रा॒ग्नी त्वा॒ बृह॒स्पतिः॑ । अ॒स्मिन्. योना॑वसीषदन्न्
कोर्वै (Index)
(अ॒सी॒ष॒द॒न्॒. - यवि॑ष्ठ - मङ्गिरो॒ - नक्तं᳚ )
3.11.6.2
तया॑ दे॒वत॑या-ऽङ्गिर॒स्वद्-ध्रु॒वा सी॑द ॥ ता अ॑स्य॒ सूद॑दोहसः ।सोमꣳ॑ श्रीणन्ति॒ पृश्न॑यः । जन्मं॑ दे॒वानां॒ ॅविशः॑ ।त्रि॒ष्वा रो॑च॒ने दि॒वः । तया॑ दे॒वत॑या-ऽङ्गिर॒स्वद्-ध्रु॒वा सी॑द ॥अग्ने॑ दे॒वाꣳ इ॒हाव॑ह । ज॒ज्ञा॒नो वृ॒क्त ब॑र्.हिषे । असि॒ होता॑ न॒ ईड्यः॑ ॥ अग॑न्म म॒हा मन॑सा॒ यवि॑ष्ठं
कोर्वै (Index)
(अ॒सी॒ष॒द॒न्॒. - यवि॑ष्ठ - मङ्गिरो॒ - नक्तं᳚ )
3.11.6.3
यो दी॒दाय॒ समि॑द्धः॒ स्वे दु॑रो॒णे । चि॒त्रभा॑नू॒ रोद॑सी अ॒न्तरु॒र्वी ।स्वा॑हुतं ॅवि॒श्वतः॑ प्र॒त्यञ्चं᳚ ॥ मे॒धा॒का॒रं ॅवि॒दथ॑स्य प्र॒साध॑नं ।अ॒ग्निꣳ होता॑रं परि॒भूत॑मं म॒तिं । त्वामर्भ॑स्य ह॒विषः॑ समा॒नमित् । त्वां म॒हो वृ॑णते॒ नरो॒ नान्यं-त्वत् ॥ म॒नु॒ष्वत्त्वा॒ निधी॑महि । म॒नु॒ष्वथ् समि॑धीमहि । अग्ने॑ मनु॒ष्व-द॑ङ्गिरः
कोर्वै (Index)
(अ॒सी॒ष॒द॒न्॒. - यवि॑ष्ठ - मङ्गिरो॒ - नक्तं᳚ )
3.11.6.4
दे॒वान् दे॑वाय॒ते य॑ज ॥ अ॒ग्निर्. हि वा॒जिनं॑ ॅवि॒शे । ददा॑ति वि॒श्वच॑र्.षणिः । अ॒ग्नी रा॒ये स्वा॒भुवं᳚ । स प्री॒तो या॑ति॒ वार्यं᳚ । इषꣳ॑ स्तो॒तृभ्य॒ आभ॑र ॥पृ॒ष्टो दि॒वि पृ॒ष्टो अ॒ग्निः पृ॑थि॒व्यां । पृ॒ष्टो विश्वा॒ ओष॑धी॒-रावि॑वेश । वै॒श्वा॒न॒रः सह॑सा पृ॒ष्टो अ॒ग्निः । स नो॒ दिवा॒ स रि॒षः पा॑तु॒ नक्तं᳚ ( ) ।
कोर्वै (Index)
(अ॒सी॒ष॒द॒न्॒. - यवि॑ष्ठ - मङ्गिरो॒ - नक्तं᳚ )