त्वम॑ग्ने रु॒द्रो असु॑रो म॒हो दि॒वः । त्वꣳ शर्द्धो॒ मारु॑तं पृ॒क्ष ई॑शिषे । त्वं ॅवातै॑ररु॒णैर्या॑सि शंग॒यः ।त्वं पू॒षा वि॑ध॒तः पा॑सि॒ नु त्मना᳚ । देवा॑ दे॒वेषु॑ श्रयद्ध्वं । प्रथ॑मा द्वि॒तीये॑षु श्रयद्ध्वं । द्विती॑या-स्तृ॒तीये॑षु श्रयद्ध्वं । तृती॑या-श्चतु॒र्थेषु॑ श्रयद्ध्वं । च॒तु॒र्थाः प॑ञ्च॒मेषु॑ श्रयद्ध्वं । प॒ञ्च॒माः ष॒ष्ठेषु॑ श्रयद्ध्वं
कोर्वै (Index)
(ष॒ष्ठेषु॑ श्रयद्धवꣳ - षोड॒शेषु॑ श्रयद्धवꣳ - षड्विꣳ॒॒शेषु॑ श्रयद्ध्व॒ - मुत्त॑रसत्वानश्च॒त्वारि॑ च)