TB 3.11.8

8 पञ्चाशत्

3.11.8 अनुवाकं 8 -नाचिकेतोपाख्यानम्

3.11.8.1
उ॒शन्. ह॒ वै वा॑जश्रव॒सः स॑र्ववेद॒सं द॑दौ । तस्य॑ ह॒ नचि॑केता॒ नाम॑ पु॒त्र आ॑स । तꣳ ह॑ कुमा॒रꣳ सन्तं᳚ । दक्षि॑णासु नी॒यमा॑नासु श्र॒द्धा ऽऽवि॑वेश । स हो॑वाच । तत॒ कस्मै॒ मां दा᳚स्य॒सीति॑ । द्वि॒तीयं॑ तृ॒तीयं᳚ ॥ तꣳ ह॒ परी॑त उवाच ।मृ॒त्यवे᳚ त्वा ददा॒मीति॑ ॥ तꣳ ह॒ स्मोत्थि॑तं॒ ॅवाग॒भिव॑दति
कोर्वै (Index)
(व॒द॒ - त्या॒श्ना॒ इत् - यु॑वाच - द्वि॒तीयं॑ ॅवृणी॒ष्वे - त्य॑जयत् - तृ॒तीयं॒ प्रास्य॑ - दगृह्णा॒द् - य ए॒वं ॅवेदैकं॑ च)
3.11.8.2
गौत॑म कुमा॒रमिति॑ । स हो॑वाच । परे॑हि मृ॒त्यो र्गृ॒हान् । मृ॒त्यवे॒ वै त्वा॑ऽदा॒-मिति॑ ॥ तं ॅवै प्र॒वस॑न्तं ग॒न्तासीति॑ होवाच । तस्य॑ स्म ति॒स्रो रात्री॒-रना᳚श्वान् गृ॒हे व॑सतात् । स यदि॑ त्वा पृ॒च्छेत् । कुमा॑र॒ कति॒ रात्री॑-रवाथ्सी॒-रिति॑ । ति॒स्र इति॒ प्रति॑ ब्रूतात् । किं प्र॑थ॒माꣳ रात्रि॑-माश्ना॒ इति॑
कोर्वै (Index)
(व॒द॒ - त्या॒श्ना॒ इत् - यु॑वाच - द्वि॒तीयं॑ ॅवृणी॒ष्वे - त्य॑जयत् - तृ॒तीयं॒ प्रास्य॑ - दगृह्णा॒द् - य ए॒वं ॅवेदैकं॑ च)
3.11.8.3
प्र॒जां त॒ इति॑ । किं द्वि॒तीया॒-मिति॑ । प॒शूꣳस्त॒ इति॑ । किं तृ॒तीया॒-मिति॑ । सा॒धु॒कृ॒त्यां त॒ इति॑ ॥ तं ॅवै प्र॒वस॑न्तं जगाम । तस्य॑ ह ति॒स्रो रात्री॒-रना᳚श्वान् गृ॒ह उ॑वास । तमा॒गत्य॑ पप्रच्छ । कुमा॑र॒ कति॒ रात्री॑-रवाथ्सी॒-रिति॑ । ति॒स्र इति॒ प्रत्यु॑वाच
कोर्वै (Index)
(व॒द॒ - त्या॒श्ना॒ इत् - यु॑वाच - द्वि॒तीयं॑ ॅवृणी॒ष्वे - त्य॑जयत् - तृ॒तीयं॒ प्रास्य॑ - दगृह्णा॒द् - य ए॒वं ॅवेदैकं॑ च)
3.11.8.4
किं प्र॑थ॒माꣳ रात्रि॑-माश्ना॒ इति॑ । प्र॒जां त॒ इति॑ । किं द्वि॒तीया॒-मिति॑ । प॒शूꣳस्त॒ इति॑ । किं तृ॒तीया॒-मिति॑ । सा॒धु॒कृ॒त्यां त॒ इति॑ ॥ नम॑स्ते अस्तु भगव॒ इति॑ होवाच । वरं॑ ॅवृणी॒ष्वेति॑ ॥ पि॒तर॑मे॒व जीव॑न्नया॒नीति॑ ॥ द्वि॒तीयं॑ ॅवृणी॒ष्वेति॑
कोर्वै (Index)
(व॒द॒ - त्या॒श्ना॒ इत् - यु॑वाच - द्वि॒तीयं॑ ॅवृणी॒ष्वे - त्य॑जयत् - तृ॒तीयं॒ प्रास्य॑ - दगृह्णा॒द् - य ए॒वं ॅवेदैकं॑ च)
3.11.8.5
इ॒ष्टा॒पू॒र्तयो॒ र्मे ऽक्षि॑तिं ब्रू॒हीति॑ होवाच । तस्मै॑ है॒तम॒ग्निं ना॑चिके॒त-मु॑वाच । ततो॒ वै तस्ये᳚-ष्टापू॒र्ते ना क्षी॑येते ॥ नास्ये᳚ष्टा-पू॒र्ते क्षी॑येते । योऽ᳚ग्निं ना॑चिके॒तं चि॑नु॒ते । य उ॑ चैन-मे॒वं ॅवेद॑ ॥ तृ॒तीयं॑ ॅवृणी॒ष्वेति॑ । पु॒न॒ मृ॒र्त्यो र्मे ऽप॑जितिं ब्रू॒हीति॑ होवाच । तस्मै॑ है॒तम॒ग्निं ना॑चिके॒त-मु॑वाच । ततो॒ वै सोऽप॑ पुन र्मृ॒त्यु-म॑जयत्
कोर्वै (Index)
(व॒द॒ - त्या॒श्ना॒ इत् - यु॑वाच - द्वि॒तीयं॑ ॅवृणी॒ष्वे - त्य॑जयत् - तृ॒तीयं॒ प्रास्य॑ - दगृह्णा॒द् - य ए॒वं ॅवेदैकं॑ च)
3.11.8.6
अप॑ पुन र्मृ॒त्युं ज॑यति । योऽ᳚ग्निं ना॑चिके॒तं चि॑नु॒ते ॥ य उ॑ चैन-मे॒वं ॅवेद॑ ॥ प्र॒जाप॑ति॒ र्वै प्र॒जाका॑म॒-स्तपो॑-ऽतप्यत ।स हिर॑ण्य॒-मुदा᳚स्यत् । त-द॒ग्नौ प्रास्य॑त् । त-द॑स्मै॒ नाच्छ॑दयत् । तद् द्वि॒तीयं॒ प्रास्य॑त् । त-द॑स्मै॒ नै वाच्छ॑दयत् । तत् तृ॒तीयं॒ प्रास्य॑त्
कोर्वै (Index)
(व॒द॒ - त्या॒श्ना॒ इत् - यु॑वाच - द्वि॒तीयं॑ ॅवृणी॒ष्वे - त्य॑जयत् - तृ॒तीयं॒ प्रास्य॑ - दगृह्णा॒द् - य ए॒वं ॅवेदैकं॑ च)
3.11.8.7
त-द॑स्मै॒ नै वाच्छ॑दयत् । त-दा॒त्म-न्ने॒व हृ॑द॒य्ये᳚ऽग्नौ वै᳚श्वान॒रे प्रास्य॑त् । त-द॑स्मा अच्छदयत् । तस्मा॒द्धिर॑ण्यं॒ कनि॑ष्ठं॒ धना॑नां । भु॒ञ्जत् प्रि॒यत॑मं । हृ॒द॒य॒जꣳ हि । स वै तमे॒व नावि॑न्दत् । यस्मै॒ तां दक्षि॑णा॒-मने᳚ष्यत् । ताꣳ स्वायै॒व हस्ता॑य॒ दक्षि॑णायानयत् । तां प्रत्य॑गृह्णात्
कोर्वै (Index)
(व॒द॒ - त्या॒श्ना॒ इत् - यु॑वाच - द्वि॒तीयं॑ ॅवृणी॒ष्वे - त्य॑जयत् - तृ॒तीयं॒ प्रास्य॑ - दगृह्णा॒द् - य ए॒वं ॅवेदैकं॑ च)
3.11.8.8
दक्षा॑य त्वा॒ दक्षि॑णां॒ प्रति॑गृह्णा॒मीति॑ । सो॑ ऽदक्षत॒ दक्षि॑णां प्रति॒गृह्य॑ । दक्ष॑ते ह॒ वै दक्षि॑णां प्रति॒गृह्य॑ । य ए॒वं ॅवेद॑ ॥ ए॒तद्ध॑ स्म॒ वै तद् वि॒द्वाꣳसो॑ वाजश्रव॒सा गोत॑माः । अप्य॑नूदे॒श्यां᳚ दक्षि॑णां॒ प्रति॑गृह्णन्ति । उ॒भये॑न व॒यं द॑क्षिष्यामह ए॒व दक्षि॑णां प्रति॒गृह्येति॑ । ते॑ ऽदक्षन्त॒ दक्षि॑णां प्रति॒गृह्य॑ ।दक्ष॑ते ह॒ वै दक्षि॑णां प्रति॒गृह्य॑ । य ए॒वं ॅवेद॑ ( ) । प्र हा॒न्यं ॅव्ली॑नाति ।
कोर्वै (Index)
(व॒द॒ - त्या॒श्ना॒ इत् - यु॑वाच - द्वि॒तीयं॑ ॅवृणी॒ष्वे - त्य॑जयत् - तृ॒तीयं॒ प्रास्य॑ - दगृह्णा॒द् - य ए॒वं ॅवेदैकं॑ च)