तꣳ है॒त-मेके॑ पशुब॒न्ध ए॒वोत्त॑रवे॒द्यां चि॑न्वते । उ॒त्त॒र॒वे॒दिस॑म्मित ए॒षो᳚ऽग्निरिति॒ वद॑न्तः । तन्न तथा॑ कु॒र्यात् । ए॒त-म॒ग्निं कामे॑न॒ व्य॑र्द्धयेत् । स ए॑नं॒ कामे॑न॒ व्यृ॑द्धः । कामे॑न॒ व्य॑र्द्धयेत् ।सौ॒म्ये वावै न॑मध्व॒रे चि॑न्वी॒त । यत्र॑ वा॒ भूयि॑ष्ठा॒ आहु॑तयो हू॒येरन्न्॑ । ए॒त-म॒ग्निं कामे॑न॒ सम॑र्द्धयति । स ए॑नं॒ कामे॑न॒ समृ॑द्धः
कोर्वै (Index)
[समृ॑द्ध॒ - ऋद्धि॑कामः - प॒रस्ता᳚च् - चिक्ये - पु॒त्रो॑ - ऽगच्छ - दि॒च्छे - ज्जु॑हुयाद् - विश्व॒प्रिः ( ) ]