TB 3.11.10

4 पञ्चाशत्

3.11.10 अनुवाकं 10 -तत्प्रशंसा

3.11.10.1
यां प्र॑थ॒मा-मिष्ट॑का-मुप॒दधा॑ति । इ॒मं तया॑ लो॒क-म॒भि ज॑यति ।अथो॒ या अ॒स्मिन् ॅलो॒के दे॒वताः᳚ । तासाꣳ॒॒ सायु॑ज्यꣳ सलो॒कता॑-माप्नोति । यां द्वि॒तीया॑-मुप॒दधा॑ति । अ॒न्त॒रि॒क्ष॒लो॒कं तया॒-ऽभि जय॑ति । अथो॒ या अ॑न्तरिक्ष लो॒के दे॒वताः᳚ । तासाꣳ॒॒ सायु॑ज्यꣳ सलो॒कता॑-माप्नोति । यां तृ॒तीया॑-मुप॒दधा॑ति । अ॒मुं तया॑ लो॒क-म॒भिज॑यति
कोर्वै (Index)
अ॒मुं तया॑ लो॒कम॒भिज॑यति॒ - शिर॑ - श्चिनु॒त - इष्ट॑काः॒ षट्च॑)
3.11.10.2
अथो॒ या अ॒मुष्मि॑न् ॅलो॒के दे॒वताः᳚ । तासाꣳ॒॒ सायु॑ज्यꣳ सलो॒कता॑-माप्नोति । अथो॒ या अ॒मूरित॑रा अ॒ष्टाद॑श । य ए॒वामी उ॒रव॑श्च॒ वरी॑याꣳसश्च लो॒काः ।ताने॒व ताभि॑-र॒भिज॑यति ॥ का॒म॒चारो॑ ह॒ वा अ॑स्यो॒रुषु॑ च॒ वरी॑यस्सु च लो॒केषु॑ भवति । यो᳚ऽग्निं ना॑चिके॒तं चि॑नु॒ते । य उ॑ चैन-मे॒वं ॅवेद॑ ॥ स॒म्ॅव॒थ्स॒रो वा अ॒ग्नि ना॑र्चिके॒तः । तस्य॑ वस॒न्तः शिरः॑
कोर्वै (Index)
अ॒मुं तया॑ लो॒कम॒भिज॑यति॒ - शिर॑ - श्चिनु॒त - इष्ट॑काः॒ षट्च॑)
3.11.10.3
ग्री॒ष्मो दक्षि॑णः प॒क्षः । व॒र्॒.षा उत्त॑रः । श॒रत् पुच्छं᳚ । मासाः᳚ कर्मका॒राः । अ॒हो॒रा॒त्रे श॑तरु॒द्रीयं᳚ । प॒र्जन्यो॒ वसो॒द्र्धारा᳚ ।यथा॒ वै प॒र्जन्यः॒ सुवृ॑ष्टं ॅवृ॒ष्ट्वा । प्र॒जाभ्यः॒ सर्वा॒न् कामा᳚न्थ् संपू॒रय॑ति । ए॒व-मे॒व स तस्य॒ सर्वा॒न् कामा॒न्थ् संपू॑रयति । यो᳚ऽग्निं ना॑चिके॒तं चि॑नु॒ते
कोर्वै (Index)
अ॒मुं तया॑ लो॒कम॒भिज॑यति॒ - शिर॑ - श्चिनु॒त - इष्ट॑काः॒ षट्च॑)
3.11.10.4
य उ॑ चैन-मे॒वं ॅवेद॑ ॥ स॒म्ॅव॒थ्स॒रो वा अ॒ग्नि र्ना॑चिके॒तः । तस्य॑ वस॒न्तः शिरः॑ । ग्री॒ष्मो दक्षि॑णः प॒क्षः ।व॒॒र्॒.षाः पुच्छं᳚ । श॒रदुत्त॑रः प॒क्षः । हे॒म॒न्तो मद्ध्यं᳚ । पू॒र्व॒प॒क्षाश्चित॑यः । अ॒प॒र॒प॒क्षाः पुरी॑षं । अ॒हो॒रा॒त्राणीष्ट॑काः ( ) ।ए॒ष वाव सो᳚ऽग्नि-र॑ग्नि॒मयः॑ पुनर्ण॒वः । अ॒ग्नि॒मयो॑ ह॒ वै पु॑नर्ण॒वो भू॒त्वा । स्व॒र्गं ॅलो॒क-मे॑ति । आ॒दि॒त्यस्य॒ सायु॑ज्यं । यो᳚ऽग्निं ना॑चिके॒तं चि॑नु॒ते । य उ॑ चैन-मे॒वं ॅवेद॑ ।
कोर्वै (Index)
अ॒मुं तया॑ लो॒कम॒भिज॑यति॒ - शिर॑ - श्चिनु॒त - इष्ट॑काः॒ षट्च॑)