अ॒यं ॅवाव यः पव॑ते । सो᳚ऽग्नि ना॑र्चिके॒तः । स यत् प्राङ् पव॑ते । तद॑स्य॒ शिरः॑ । अथ॒ यद् द॑क्षि॒णा । स दक्षि॑णः प॒क्षः ।अथ॒ यत् प्र॒त्यक् । तत् पुच्छं᳚ । य दुदङ्ङ्॑ । स उत्त॑रः प॒क्षः
कोर्वै (Index)
(उत्त॑रः प॒क्षो - गच्छ॑ति प्रति॒ष्ठां - भा॒य्याद् - यः परे॑णादि॒त्य - +म॒ष्टौ च॑)