TB 3.11.5

4 पञ्चाशत्

3.11.5 अनुवाकं 5 -चतुर्भिरनुवाकैः चतस्र आहुतीर्जुहोति

3.11.5.1
स॒प्त ते॑ अग्ने स॒मिधः॑ स॒प्त जि॒ह्वाः । स॒प्तर्.ष॑यः स॒प्तधाम॑ प्रि॒याणि॑ । स॒प्त होत्रा॑ अनु वि॒द्वान् । स॒प्त योनी॒-रापृ॑णस्वा घृ॒तेन॑ । प्राची॒ दिक् । अ॒ग्नि र्दे॒वता᳚ । अ॒ग्निꣳ स दि॒शां दे॒वं दे॒वता॑ना-मृच्छतु । यो मै॒तस्यै॑ दि॒शो॑ ऽभि॒दास॑ति । द॒क्षि॒णा दिक् । इन्द्रो॑ दे॒वता᳚
कोर्वै (Index)
(द॒क्षि॒णा दिगिन्द्रो॑ दे॒वता॑ - मि॒त्रावरु॑णौ॒ स दि॒शां दे॒वौ दे॒वता॑नामृच्छतु॒ यो मै॒तस्यै॑ दि॒शो॑ऽभि॒दा - स॑त्यद्र्धयतु॒ - +नव॑ च)
3.11.5.2
इन्द्रꣳ॒॒ स दि॒शां दे॒वं दे॒वता॑ना-मृच्छतु । यो मै॒तस्यै॑ दि॒शो॑ ऽभि॒दास॑ति । प्र॒तीची॒ दिक् । सोमो॑ दे॒वता᳚ । सोमꣳ॒॒ स दि॒शां दे॒वं दे॒वता॑ना-मृच्छतु । यो मै॒तस्यै॑ दि॒शो॑ ऽभि॒दास॑ति । उदी॑ची॒ दिक् । मि॒त्रावरु॑णौ दे॒वता᳚ ।मि॒त्रावरु॑णौ॒ स दि॒शां दे॒वौ दे॒वता॑ना-मृच्छतु । यो मै॒तस्यै॑ दि॒शो॑ ऽभि॒दास॑ति
कोर्वै (Index)
(द॒क्षि॒णा दिगिन्द्रो॑ दे॒वता॑ - मि॒त्रावरु॑णौ॒ स दि॒शां दे॒वौ दे॒वता॑नामृच्छतु॒ यो मै॒तस्यै॑ दि॒शो॑ऽभि॒दा - स॑त्यद्र्धयतु॒ - +नव॑ च)
3.11.5.3
ऊ॒द्र्ध्वा दिक् । बृह॒स्पति॑ र्दे॒वता᳚ । बृह॒स्पतिꣳ॒॒ स दि॒शां दे॒वं दे॒वता॑ना-मृच्छतु । यो मै॒तस्यै॑ दि॒शो॑ ऽभि॒दास॑ति । इ॒यन्दिक् । अदि॑ति र्दे॒वता᳚ । अदि॑तिꣳ॒ ॒ स दि॒शां दे॒वीं दे॒वता॑ना-मृच्छतु । यो मै॒तस्यै॑ दि॒शो॑ ऽभि॒दास॑ति । पुरु॑षो॒ दिक् । पुरु॑षो मे॒ कामा॒न् थ्सम॑र्द्धयतु ( )
कोर्वै (Index)
(द॒क्षि॒णा दिगिन्द्रो॑ दे॒वता॑ - मि॒त्रावरु॑णौ॒ स दि॒शां दे॒वौ दे॒वता॑नामृच्छतु॒ यो मै॒तस्यै॑ दि॒शो॑ऽभि॒दा - स॑त्यद्र्धयतु॒ - +नव॑ च)
3.11.5.4
अ॒न्धो जागृ॑विः प्राण । असा॒वेहि॑ । ब॒धि॒र आ᳚क्रन्दयित-रपान । असा॒वेहि॑ । उ॒षस॑-मुषस-मशीय । अ॒हमसो॒ ज्योति॑रशीय ।अ॒हमसो॒ ऽपो॑शीय । व॒यꣳ स्या॑म॒ पत॑यो रयी॒णां । भूर्भुवः॒ स्वः॑ स्वाहा᳚ ।
कोर्वै (Index)
(द॒क्षि॒णा दिगिन्द्रो॑ दे॒वता॑ - मि॒त्रावरु॑णौ॒ स दि॒शां दे॒वौ दे॒वता॑नामृच्छतु॒ यो मै॒तस्यै॑ दि॒शो॑ऽभि॒दा - स॑त्यद्र्धयतु॒ - +नव॑ च)