प्रश्नः 3 - Complete Audio Recording

Note: Time markers for individual verses will be added soon. Currently playing the complete Prasna recording.

TS 1.3.6.2 TS 1.3.6.2
ग॒मद्ध्ये॒ गावो॒ यत्र॒ भूरि॑शृङ्गा अ॒यासः॑ । अत्राह॒ तदु॑रुगा॒यस्य॒ विष्णोः᳚ प॒रमं प॒दमव॑ भाति॒ भूरेः᳚ ॥ विष्णोः॒ कर्मा॑णि पश्यत॒ यतो᳚ व्र॒तानि॑ पस्प॒शे । इन्द्र॑स्य॒ युज्यः॒ सखा᳚ ॥ तद्-विष्णोः᳚ पर॒मं प॒दꣳ सदा॑ पश्यन्ति सू॒रयः॑ । दि॒वीव॒ चक्षु॒रात॑तं ॥ ब्र॒ह्म॒वनिं॑ त्वा क्षत्र॒वनिꣳ॑ सुप्रजा॒वनिꣳ॑ रायस्पोष॒वनिं॒ पर्यू॑हामि॒ ब्रह्म॑ दृꣳह क्ष॒त्रं दृꣳ॑ह प्र॒जां दृꣳ॑ह रा॒यस्पोषं॑ ( ) दृꣳह परि॒वीर॑सि॒ परि॑ त्वा॒ दैवी॒र्विशो᳚ व्ययन्तां॒ परी॒मꣳ रा॒यस्पोषो॒ यज॑मानं मनु॒ष्या॑ अ॒न्तरि॑क्षस्य त्वा॒ साना॒वव॑ गूहामि ॥
पदपाठः (Word-by-word)
ग॒मद्ध्ये᳚ । गावः॑ । यत्र॑ । भूरि॑शृङ्गा॒ इति॒ भूरि॑ - शृ॒ङ्गाः॒ । अ॒यासः॑ ॥ अत्र॑ । अह॑ । तत् । उ॒रु॒गा॒यस्येत्यु॑रु - गा॒यस्य॑ । विष्णोः᳚ । प॒र॒मम् । प॒दम् । अवेति॑ । भा॒ति॒ । भूरेः᳚ ॥ विष्णोः᳚ । कर्मा॑णि । प॒श्य॒त॒ । यतः॑ । व्र॒तानि॑ । प॒स्प॒शे ॥ इन्द्र॑स्य । युज्यः॑ । सखा᳚ ॥ तत् । विष्णोः᳚ । प॒र॒मम् । प॒दम् । सदा᳚ । प॒श्य॒न्ति॒ । सू॒रयः॑ ॥ दि॒वि । इ॒व॒ । चक्षुः॑ । आत॑त॒मित्या - त॒त॒म् ॥ ब्र॒ह्म॒वनि॒मिति॑ ब्रह्म - वनि᳚म् । त्वा॒ । क्ष॒त्र॒वनि॒मिति॑ क्षत्र - वनि᳚म् । सु॒प्र॒जा॒वनि॒मिति॑ सुप्रजा - वनि᳚म् । रा॒य॒स्पो॒ष॒वनि॒मिति॑ रायस्पोष - वनि᳚म् । परीति॑ । ऊ॒हा॒मि॒ । ब्रह्म॑ । दृꣳ॒॒ह॒ । क्ष॒त्रम् । दृꣳ॒॒ह॒ । प्र॒जामिति॑ प्र - जाम् । दृꣳ॒॒ह॒ । रा॒यः । पोष᳚म् ( ) । दृꣳ॒॒ह॒ । प॒रि॒वीरिति॑ परि - वीः । अ॒सि॒ । परीति॑ । त्वा॒ । दैवीः᳚ । विशः॑ । व्य॒य॒न्ता॒म् । परीति॑ । इ॒मम् । रा॒यः । पोषः॑ । यज॑मानम् । म॒नु॒ष्याः᳚ । अ॒न्तरि॑क्षस्य । त्वा॒ । सानौ᳚ । अवेति॑ । गू॒हा॒मि॒ ॥
पदसंख्या: 69