अनुवाकः 4 TS 1.5.4

(A4)

(सैतं-दे॒वता॑भिरे॒व-जि॒ह्वा-ए॒तान्-पञ्च॑विꣳशतिश्च )

अनुवाकः 4 - Complete Audio

TS 1.5.4 - स्वरानुगामी

0:00 0:00
PS1.1 भूमि॑र् भू॒म्ना द्यौर् व॑रि॒णेत्या॑हा॒ऽऽशिषै॒वैन॒मा
PS1.2 ध॑त्ते स॒र्पा वै जीर्य॑न्तो
PS1.3 ऽमन्यन्त॒ स ए॒तं क॑स॒र्णीरः॑
PS1.4 काद्रवे॒यो मन्त्र॑मपश्य॒त् ततो॒ वै
PS1.5 ते जी॒र्णास्त॒नूरपा᳚घ्नत सर्परा॒ज्ञिया॑ ऋ॒ग्भिर्
PS1.6 गार्.ह॑पत्य॒मा द॑धाति पुनर्न॒वमे॒वैन॑म॒जरं॑ कृ॒त्वा
PS1.7 ऽऽ*ध॒त्तेऽथो॑ पू॒तमे॒व पृ॑थि॒वीम॒न्नाद्यं॒ नोपा॑नम॒थ्सैतं
PS1.8 - [ ]
PS2.1 मन्त्र॑मपश्य॒त् ततो॒ वै ताम॒न्नाद्य॒-मुपा॑नम॒द्यथ्
PS2.2 -स॑र्परा॒ज्ञिया॑ ऋ॒ग्भिर् गार्.ह॑पत्य-मा॒दधा᳚त्य॒न्नाद्य॒स्याव॑रुद्ध्या॒ अथो॑
PS2.3 अ॒स्यामे॒वैनं॒ प्रति॑ष्ठित॒मा ध॑त्ते॒ यत्त्वा᳚
PS2.4 क्रु॒द्धः प॑रो॒वपेत्या॒हाप॑ह्नुत ए॒वास्मै॒ तत्
PS2.5 पुन॒स्त्वोद्दी॑पयाम॒सीत्या॑ह॒ समि॑न्ध ए॒वैनं॒ ॅयत्ते॑
PS2.6 म॒न्युप॑रोप्त॒स्येत्या॑ह दे॒वता॑भिरे॒वै - [
PS2.7 ]
PS3.1 नꣳ॒॒ सं भ॑रति॒ वि
PS3.2 वा ए॒तस्य॑ य॒ज्ञ्श्छि॑द्यते॒ यो᳚ऽग्निमु॑द्वा॒सय॑ते॒
PS3.3 बृह॒स्पति॑वत्य॒र्चोप॑ तिष्ठते॒ ब्रह्म॒ वै
PS3.4 दे॒वानां॒ बृह॒स्पति॒र् ब्रह्म॑णै॒व य॒ज्ञ्ꣳ
PS3.5 सं द॑धाति॒ विच्छि॑न्नं ॅय॒ज्ञ्ꣳ
PS3.6 समि॒मं द॑धा॒त्वित्या॑ह॒ सन्त॑त्यै॒ विश्वे॑
PS3.7 दे॒वा इ॒ह मा॑दयन्ता॒मित्या॑ह स॒न्तत्यै॒व
PS3.8 य॒ज्ञ्ं दे॒वेभ्योऽनु॑ दिशति स॒प्त
PS3.9 ते॑ अग्ने स॒मिधः॑ स॒प्त
PS3.10 जि॒ह्वा - [ ]
PS4.1 इत्या॑ह स॒प्तस॑प्त॒ वै स॑प्त॒धाऽग्नेः
PS4.2 प्रि॒यास्त॒नुव॒स्ता ए॒वाव॑ रुन्धे॒ पुन॑रू॒र्जा
PS4.3 स॒ह र॒य्येत्य॒भितः॑ पुरो॒डाश॒माहु॑ती जुहोति॒
PS4.4 यज॑मानमे॒वोर्जा च॑ र॒य्या चो॑भ॒यतः॒
PS4.5 परि॑ गृह्णात्यादि॒त्या वा अ॒स्माल्लो॒काद॒मुं
PS4.6 ॅलो॒कमा॑य॒॒न् ते॑ऽमुष्मि॑न् ॅलो॒के व्य॑तृष्य॒न्
PS4.7 त इ॒मं ॅलो॒कं पुन॑रभ्य॒वेत्या॒
PS4.8 ऽग्निमा॒धायै॒-तान्. ( ) होमा॑नजुहवु॒स्त
PS4.9 आ᳚र्द्ध्नुव॒॒न् ते सु॑व॒र्गं ॅलो॒कमा॑य॒न्॒.
PS4.10 यः प॑रा॒चीनं॑ पुनरा॒धेया॑द॒ग्निमा॒दधी॑त॒ स
PS4.11 ए॒तान्. होमा᳚न् जुहुया॒द्यामे॒वाऽऽ*दि॒त्या ऋद्धि॒मार्द्ध्नु॑व॒न्
PS4.12 तामे॒वर्द्ध्नो॑ति

Report Timing Issue

Report timing issue for this location?

पञ्चशत् 1 #
TS 1.5.4.1 TS 1.5.4.1
भूमि॑र् भू॒म्ना द्यौर् व॑रि॒णेत्या॑हा॒ऽऽशिषै॒वैन॒मा ध॑त्ते स॒र्पा वै जीर्य॑न्तो ऽमन्यन्त॒ स ए॒तं क॑स॒र्णीरः॑ काद्रवे॒यो मन्त्र॑मपश्य॒त् ततो॒ वै ते जी॒र्णास्त॒नूरपा᳚घ्नत सर्परा॒ज्ञिया॑ ऋ॒ग्भिर् गार्.ह॑पत्य॒मा द॑धाति पुनर्न॒वमे॒वैन॑म॒जरं॑ कृ॒त्वा ऽऽ*ध॒त्तेऽथो॑ पू॒तमे॒व पृ॑थि॒वीम॒न्नाद्यं॒ नोपा॑नम॒थ्सैतं - [ ]
पदपाठः (Word-by-word)
भूमिः॑ । भू॒म्ना । द्यौः । व॒रि॒णा । इति॑ । आ॒ह॒ । आ॒शिषेत्या᳚ - शिषा᳚ । ए॒व । ए॒न॒म् । एति॑ । ध॒त्ते॒ । स॒र्पाः । वै । जीर्य॑न्तः । अ॒म॒न्य॒न्त॒ । सः । ए॒तम् । क॒स॒र्णीरः॑ । का॒द्र॒वे॒यः । मन्त्र᳚म् । अ॒प॒श्य॒त् । ततः॑ । वै । ते । जी॒र्णाः । त॒नूः । अपेति॑ । अ॒घ्न॒त॒ । स॒र्प॒रा॒ज्ञिया॒ इति॑ सर्प -रा॒ज्ञियाः᳚ । ऋ॒ग्भिरित्यृ॑क् - भिः । गार्.ह॑पत्य॒मिति॒ गार्.ह॑ - प॒त्य॒म् । एति॑ । द॒धा॒ति॒ । पु॒न॒र्न॒वमिति॑ पुनः- न॒वम् । ए॒व । ए॒न॒म् । अ॒जर᳚म् । कृ॒त्वा । एति॑ । ध॒त्ते॒ । अथो॒ इति॑ । पू॒तम् । ए॒व । पृ॒थि॒वीम् । अ॒न्नाद्य॒मित्य॑न्न - अद्य᳚म् । न । उपेति॑ । अ॒न॒म॒त् । सा । ए॒तम् ।
पदसंख्या: 50
सायणभाष्यम् (Sayana Commentary)

(अथ प्रथमकाण्डे पञ्चमप्रपाठके चतुर्थोऽनुवाकः)।

चतुर्थानुवाके पूर्वोक्ता मन्त्रा व्याख्यायन्ते। तत्रान्नाद्यायेत्येतस्य मन्त्रपदस्या-भिप्रायमाह -

भूमिर्भूम्नेति। आशिषाऽन्नं प्राप्तुमिच्छया।

चतसृभिग्भिराधानं विधत्ते - सर्पा वा इति। जीर्यन्तो जरां प्राप्नुवन्तोऽमन्यन्त कोऽस्या जरायाः प्रतीकार इति विचारितवन्तः। तदा कसर्णीरनामकः कद्रूपुत्रो भूमिरित्यादिकं मन्त्र-संघमश्यत्। तन्मन्त्रसामर्थ्यात्ते सर्पा जीर्णाः शरीरत्वचोऽपहत्य कोमलास्त्वचः प्राप्नुवन्। सर्पाणां राज्ञी भूमिः। इयं वै सर्पतो राज्ञीत्यन्यत्राऽऽम्नानात्। तस्या ऋचो भूमिर्भूम्नेत्यादयस्ताभिराहितो वह्निर्जरां परित्यज्य नूतनः पूतश्च भवति।

तमेव विधिमनूद्य प्रशंसति - पृथिवीमिति। अन्नाद्यायेत्युक्तत्वात्तत्प्राप्तिः। उपस्थे ते देवीत्युक्तत्वाद्भूमौ प्रतिष्ठितत्वम्।

यदाह (दहं) परोवप तत्सुकल्पमित्युक्तिर्बालस्येवाग्नेः सान्त्वनायापलाप इत्याह- यत्त्वा क्रुद्ध इति।

उद्दीपयामसीत्यस्याभिप्रायमाह पुनस्त्वेति।

आदित्या विश्वे तदित्यादेरभिप्रायमाह - यत्त इति।

उपस्थानं विधत्ते - वि वा इति। बृहस्पतिशब्दोऽस्यामस्तीति बृहस्पतिवती।

तं शब्दं प्रशस्य संदधात्विति शब्दस्याभिप्रायमाह - विच्छिन्नमिति।

देवसंबोधनस्योपयोगमाह - विश्वे देवा इति। यज्ञं संततं कृत्वा देवेभ्यस्तत्कथनाय संबोधनम्।

समिदादिषु सप्तसंख्याया उपयोगमाह - सप्त ते इति। समिदादयः सर्वे पदार्थाः सप्त सप्त विनिर्दिश्यन्ते। यस्मात्सप्तधाऽवस्थिताः पदार्थाः अग्नेः प्रियास्तनुवस्तस्मात्तदवरोधाय सप्तसंख्या।

द्वितीयानुवाके विहितयोराहुत्योर्मन्त्रो विनियुङ्क्ते - पुनरूर्जेति।

तृतीयाधाने होमान्विधत्ते - आदित्या वा इति। आदित्या आधानपुनराधाने अनुष्ठाय सुवर्गं गत्वा तत्र व्यतृष्यान्विशेषेण तृषां प्राप्ताः। समृद्धिर्न पर्याप्तेति मत्वा भूमावागत्य लेकादिमन्त्रैर्हुत्वाऽतिशयेन समृद्धिं गताः। ततः पुनराधेयादूर्ध्वमग्निमाधाय लेकादिभिर्जुहुयात्॥

इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीय-तैत्तिरीयसंहिताभाष्ये प्रथमकाण्डे पञ्चमप्रपाठके चतुर्थोऽनुवाकः॥४॥
भट्टभास्करभाष्यम् (Bhatta Bhaskara Commentary)
1 अथ सर्पराज्ञ्यादीनां मन्त्राणां ब्राह्मणं - भूमिरित्यादि ॥ आशिषा अन्नाद्यं प्राप्तुमिच्छया ॥
2 सर्पा वा इत्यादि ॥ धिक् जरा प्राप्यतेऽस्माभिरिति सविषादां मतिमकुर्वत सर्पाः । अथ तेषु कसर्णीरो नाम कश्चित्कद्रूपुत्रः स एतं भूमिर्भूम्नेत्यादिकं सर्पराज्ञ्याख्यं मन्त्रमपश्यत् । 'स्त्रीभ्यो ढक्' इति ढक् । ततस्सर्पा एतेनाग्निमादधतेति सामर्थ्याद्गम्य्ते । ततश्च जीर्णास्तनूरपहत्याभिनवा अलभन्तेत्यर्थः । सर्पराज्ञिया इत्यादि । गतम् । पृथिवी सर्पराज्ञी । यथोक्तम् - 'इयं वै सर्पतो राज्ञी' इति । तस्या ऋग्भिः भूमिर्भूम्नेत्यादिभिः । 'अपोद्धृत्य घर्मशिर एतस्य सर्पराज्ञी रोप्य गार्हपत्यमेव सर्वाभिराददीत' इत्याचार्याः । राजनशीला राज्ञी । 'कनिन्युवृष' इति कनिन्प्रत्ययः, 'ऋन्नेभ्यः' इति ङीप् । सर्पाणां राज्ञी स्वामिनी सर्पराज्ञी । 'समासस्य' इत्यन्तोदात्तत्वम् । 'उदात्तयणः' इत्येतद्बाधित्वा व्यत्ययेन । उदात्तस्वरितयोर्यणः' इति विभक्तिस्त्वर्यते । पुनर्नवमित्यादि । गतम् । अथो अपिच पूतमेवाधत्ते । येनायमृद्धिहेतुर्भवति ... त्यादि हेतुश्च न भवति । पृथिवीमित्यादि । गतम् । 'अन्नाद्यायादधे' इति मन्त्रपदम् । अथो अपिच अस्यां पृथिव्यां प्रतिष्ठितमाधत्ते । 'उपस्थे ते देवि' इति मन्त्रपदम् । यत्त्वेति । आत्मीयमुद्वासनात्मकं दुष्कृतमस्मा अग्नयेपह्नुते अपनय[पलप]ति 'सुकल्पमग्ने तत्' इति प्रच्छादयति । तद्दुष्कृतमपि त्वत्प्रसादात् सुकृतमेव भवतीति । पुनस्त्वेत्यादि । गतम् ॥
3 वि वा एतस्येत्यादि ॥ 'मनो ज्योतिः' इत्येषा बृहस्पतिवती ऋक् । 'छन्दसीरः' इति मतुपो वत्वम् । बृहस्पतिशब्दस्याद्युदात्तत्वम् । विश्वे देवा इति । विच्छिन्नयज्ञं सन्तत्यैव सन्धाय सन्ततमिहेति देवेभ्योनुदिशति ज्ञापयति । सप्त त इति । समिदादयस्सप्तसप्त प्रत्येकं सप्तसङ्ख्याः सप्तधा सर्वा अपि सप्तधा भिन्नाः अग्नेः प्रियास्तनुवः तनुवत् मूर्तिरिव प्रधानभूताः अग्नेस्तास्सर्वाः अवरुन्धे स्वाभिमतसाधनतया लभते । पुनरूर्जेति । 'पुनरूर्जा निवर्तस्व' 'सह रय्या नि वर्तस्व' इति मन्त्राभ्यामभितः पुरोडाशमाहुती जुहोति पुरस्तादुर्परिष्टाच्च । 'अभितःपरितः' इति द्वितीया । यजमानमेवेत्यादि । 'सावेकाचः' इत्येकत्रोदात्तत्वम् । 'उदात्तयणः' इतीतरत्र ॥
4 आदित्या इत्यादि ॥ भूलोकाद्द्योलोकं गताः ऋद्ध्यर्थं कृतपुनराधानाः आदित्याः । तत्र च ते व्यतृप्यन् भूयोपि ऋद्ध्यभावेन विविधं तृष्यन्तोभवन् । तृषा पिपासायां दैवादिकः । ततस्ते पुनरपि इममेव लोकमभ्यवेत्य अभ्यावृत्य तृतीयमग्निमाधाय एतान् 'लेकः' इत्यादीन् होमानजुहवुः ऋद्धाः स्वगं गताः । य इत्यादि । पराचीनं पुनराधेयात् पुनराधेयानन्तरं तृतीयमित्यर्थः । यामित्यादि । अयमृध्नोतिः ऋद्धौ च वर्तते यथा ऋध्नुवन्तीति । ऋद्धिकर्मिकायां च प्राप्तौ ऋद्धिमार्ध्नुवन्निति । तत्र पोषं पुष्णातीतिवत्प्राप्तिमात्रप्रवृत्तिर्द्वितीयो द्रष्टव्यः ॥

पञ्चमे चतुर्थः ॥

पञ्चशत् 2 #
TS 1.5.4.2 TS 1.5.4.2
मन्त्र॑मपश्य॒त् ततो॒ वै ताम॒न्नाद्य॒-मुपा॑नम॒द्यथ् -स॑र्परा॒ज्ञिया॑ ऋ॒ग्भिर् गार्.ह॑पत्य-मा॒दधा᳚त्य॒न्नाद्य॒स्याव॑रुद्ध्या॒ अथो॑ अ॒स्यामे॒वैनं॒ प्रति॑ष्ठित॒मा ध॑त्ते॒ यत्त्वा᳚ क्रु॒द्धः प॑रो॒वपेत्या॒हाप॑ह्नुत ए॒वास्मै॒ तत् पुन॒स्त्वोद्दी॑पयाम॒सीत्या॑ह॒ समि॑न्ध ए॒वैनं॒ ॅयत्ते॑ म॒न्युप॑रोप्त॒स्येत्या॑ह दे॒वता॑भिरे॒वै - [ ]
पदपाठः (Word-by-word)
मन्त्र᳚म् । अ॒प॒श्य॒त् । ततः॑ । वै । ताम् । अ॒न्नाद्य॒मित्य॑न्न - अद्य᳚म् । उपेति॑ । अ॒न॒म॒त् । यत् । स॒र्प॒रा॒ज्ञिया॒ इति॑ सर्प -रा॒ज्ञियाः᳚ । ऋ॒ग्भिरित्यृ॑क् - भिः । गार्.ह॑पत्य॒मिति॒ गार्.ह॑ - प॒त्य॒म् । आ॒दधा॒तीत्या᳚ - दधा॑ति । अ॒न्नाद्य॒स्येत्य॑न्न - अद्य॑स्य । अव॑रुद्ध्या॒ इत्यव॑ - रु॒द्ध्यै॒ । अथो॒ इति॑ । अ॒स्याम् । ए॒व । ए॒न॒म् । प्रति॑ष्ठित॒मिति॒ प्रति॑ - स्थि॒त॒म् । एति॑ । ध॒त्ते॒ । यत् । त्वा॒ । क्रु॒द्धः । प॒रो॒वपेति॑ परा - उ॒वप॑ । इति॑ । आ॒ह॒ । अपेति॑ । ह्नु॒ते॒ । ए॒व । अ॒स्मै॒ । तत् । पुनः॑ । त्वा॒ । उदिति॑ । दी॒प॒या॒म॒सि॒ । इति॑ । आ॒ह॒ । समिति॑ । इ॒न्धे॒ । ए॒व । ए॒न॒म् । यत् । ते॒ । म॒न्युप॑रोप्त॒स्येति॑ म॒न्यु - प॒रो॒प्त॒स्य॒ । इति॑ । आ॒ह॒ । दे॒वता॑भिः । ए॒व ।
पदसंख्या: 50
पञ्चशत् 3 #
TS 1.5.4.3 TS 1.5.4.3
नꣳ॒॒ सं भ॑रति॒ वि वा ए॒तस्य॑ य॒ज्ञ्श्छि॑द्यते॒ यो᳚ऽग्निमु॑द्वा॒सय॑ते॒ बृह॒स्पति॑वत्य॒र्चोप॑ तिष्ठते॒ ब्रह्म॒ वै दे॒वानां॒ बृह॒स्पति॒र् ब्रह्म॑णै॒व य॒ज्ञ्ꣳ सं द॑धाति॒ विच्छि॑न्नं ॅय॒ज्ञ्ꣳ समि॒मं द॑धा॒त्वित्या॑ह॒ सन्त॑त्यै॒ विश्वे॑ दे॒वा इ॒ह मा॑दयन्ता॒मित्या॑ह स॒न्तत्यै॒व य॒ज्ञ्ं दे॒वेभ्योऽनु॑ दिशति स॒प्त ते॑ अग्ने स॒मिधः॑ स॒प्त जि॒ह्वा - [ ]
पदपाठः (Word-by-word)
ए॒न॒म् । समिति॑ । भ॒र॒ति॒ । वीति॑ । वै । ए॒तस्य॑ । य॒ज्ञ्ः । छि॒द्य॒ते॒ । यः । अ॒ग्निम् । उ॒द्वा॒सय॑त॒ इत्यु॑त् - वा॒सय॑ते । बृह॒स्पति॑व॒त्येति॒॒ बृह॒स्पति॑ - व॒त्य॒ । ऋ॒चा । उपेति॑ । ति॒ष्ठ॒ते॒ । ब्रह्म॑ । वै । दे॒वाना᳚म् । बृह॒स्पतिः॑ । ब्रह्म॑णा । ए॒व । य॒ज्ञ्म् । समिति॑ । द॒धा॒ति॒ । वच्छि॑न्न॒मिति॒ वि-छि॒न्न॒म् । य॒ज्ञ्म् । समिति॑ । इ॒मम् । द॒धा॒तु॒ । इति॑ । आ॒ह॒ । संत॑त्या॒ इति॒ सं - त॒त्यै॒ । विश्वे᳚ । दे॒वाः । इ॒ह । मा॒द॒य॒न्ता॒म् । इति॑ । आ॒ह॒ । स॒न्तत्येति॑ सं - तत्य॑ । ए॒व । य॒ज्ञ्म् । दे॒वेभ्यः॑ । अन्विति॑ । दि॒श॒ति॒ । स॒प्त । ते॒ । अ॒ग्ने॒ । स॒मिध॒ इति॑ सं - इधः॑ । स॒प्त । जि॒ह्वाः ।
पदसंख्या: 50
पञ्चशत् 4 #
TS 1.5.4.4 TS 1.5.4.4
इत्या॑ह स॒प्तस॑प्त॒ वै स॑प्त॒धाऽग्नेः प्रि॒यास्त॒नुव॒स्ता ए॒वाव॑ रुन्धे॒ पुन॑रू॒र्जा स॒ह र॒य्येत्य॒भितः॑ पुरो॒डाश॒माहु॑ती जुहोति॒ यज॑मानमे॒वोर्जा च॑ र॒य्या चो॑भ॒यतः॒ परि॑ गृह्णात्यादि॒त्या वा अ॒स्माल्लो॒काद॒मुं ॅलो॒कमा॑य॒॒न् ते॑ऽमुष्मि॑न् ॅलो॒के व्य॑तृष्य॒न् त इ॒मं ॅलो॒कं पुन॑रभ्य॒वेत्या॒ ऽग्निमा॒धायै॒-तान्. ( ) होमा॑नजुहवु॒स्त आ᳚र्द्ध्नुव॒॒न् ते सु॑व॒र्गं ॅलो॒कमा॑य॒न्॒. यः प॑रा॒चीनं॑ पुनरा॒धेया॑द॒ग्निमा॒दधी॑त॒ स ए॒तान्. होमा᳚न् जुहुया॒द्यामे॒वाऽऽ*दि॒त्या ऋद्धि॒मार्द्ध्नु॑व॒न् तामे॒वर्द्ध्नो॑ति ॥
पदपाठः (Word-by-word)
इति॑ । आ॒ह॒ । स॒प्तस॒प्तेति॑ स॒प्त - स॒प्त॒ । वै । स॒प्त॒धेति॑ सप्त - धा । अ॒ग्नेः । प्रि॒याः । त॒नुवः॑ । ताः । ए॒व । अवेति॑ । रु॒न्धे॒ । पुनः॑ । ऊ॒र्जा । स॒ह । र॒य्या । इति॑ । अ॒भितः॑ । पु॒रो॒डाश᳚म् । आहु॑ती॒ इत्या - हु॒ती॒ । जु॒हो॒ति॒ । यज॑मानम् । ए॒व । ऊ॒र्जा । च॒ । र॒य्या । च॒ । उ॒भ॒यतः॑ । परीति॑ । गृ॒ह्णा॒ति॒ । आ॒दि॒त्याः । वै । अ॒स्मात् । लो॒कात् । अ॒मुम् । लो॒कम् । आ॒य॒न्न् । ते । अ॒मुष्मिन्न्॑ । लो॒के । वीति॑ । अ॒तृ॒ष्य॒न्न् । ते । इ॒मम् । लो॒कम् । पुनः॑ । अ॒भ्य॒वेत्येत्य॑भि - अ॒वेत्य॑ । अ॒ग्निम् । आ॒धायेत्या᳚ - धाय॑ । ए॒तान् () । होमान्॑ । अ॒जु॒ह॒वुः॒ । ते । आ॒र्द्ध्नु॒व॒न्न् । ते । सु॒व॒र्गमिति॑ सुवः - गम् । लो॒कम् । आ॒य॒न्न् । यः । प॒रा॒चीन᳚म् । पु॒न॒रा॒धेया॒दिति॑ पुनः - आ॒धेया᳚त् । अ॒ग्निम् । आ॒दधी॒तेत्या᳚- दधी॑त । सः । ए॒तान् । होमान्॑ । जु॒हु॒या॒त् । याम् । ए॒व । आ॒दि॒त्याः । ऋद्धि᳚म् । आर्द्ध्नु॑वन्न् । ताम् । ए॒व । ऋ॒द्ध्नो॒ति॒ ॥
पदसंख्या: 75