अनुवाकः 10 TS 1.5.10

(A10)

(अषा॑ढ॒-ओष॑धय-उपचि॒न्वन्ति॒-पञ्च॑चत्वारिꣳशच्च)

अनुवाकः 10 - Complete Audio

TS 1.5.10 - स्वरानुगामी

0:00 0:00
PS1.1 मम॒ नाम॑ प्रथ॒मं जा॑तवेदः
PS1.2 पि॒ता मा॒ता च॑ दधतु॒र्यदग्रे᳚
PS1.3 तत्त्वं बि॑भृहि॒ पुन॒रा मदैतो॒स्तवा॒हं
PS1.4 नाम॑ बिभराण्यग्ने
PS1.5 मम॒ नाम॒ तव॑ च
PS1.6 जातवेदो॒ वास॑सी इव वि॒वसा॑नौ॒
PS1.7 ये चरा॑वः
PS1.8 आयु॑षे॒ त्वं जी॒वसे॑ व॒यं
PS1.9 ॅय॑थाय॒थं ॅवि परि॑ दधावहै॒
PS1.10 पुन॒स्ते
PS1.11 नमो॒ऽग्नये ऽप्र॑तिविद्धाय॒ नमोऽना॑धृष्टाय॒ नमः॑ स॒म्राजे᳚
PS1.12 अषा॑ढो - [ ]
PS2.1 अ॒ग्निर्बृ॒हद्व॑या विश्व॒जिथ् सह॑न्त्यः॒ श्रेष्ठो॑ गन्ध॒र्वः
PS2.2 त्वत्पि॑तारो अग्ने दे॒वा-स्त्वामा॑हुतय॒-स्त्वद्वि॑वाचनाः
PS2.3 सं मामायु॑षा॒ सं गौ॑प॒त्येन॒
PS2.4 सुहि॑ते मा धाः
PS2.5 अ॒यम॒ग्निः श्रेष्ठ॑तमो॒ ऽयं भग॑वत्तमो॒
PS2.6 ऽयꣳ स॑हस्र॒सात॑मः
PS2.7 अ॒स्मा अ॑स्तु सु॒वीर्यं᳚
PS2.8 मनो॒ ज्योति॑र् जुषता॒माज्यं॒ ॅविच्छि॑न्नं
PS2.9 ॅय॒ज्ञ्ꣳ समि॒मं द॑धातु
PS2.10 या इ॒ष्टा उ॒षसो॑ नि॒म्रुच॑श्च॒
PS2.11 ताः सं द॑धामि ह॒विषा॑
PS2.12 घृ॒तेन॑
PS2.13 पय॑स्वती॒रोष॑धयः॒ - [ ]
PS3.1 पय॑स्वद्वी॒रुधां॒ पयः॑
PS3.2 अ॒पां पय॑सो॒ यत्पय॒स्तेन॒ मामि॑न्द्र॒
PS3.3 सꣳ सृ॑ज
PS3.4 अग्ने᳚ व्रतपते व्र॒तं च॑रिष्यामि॒
PS3.5 तच्छ॑केयं॒ तन्मे॑ राद्ध्यतां
PS3.6 अ॒ग्निꣳ होता॑रमि॒ह तꣳ हु॑वे
PS3.7 दे॒वान्. य॒ज्ञिया॑नि॒ह यान्. हवा॑महे
PS3.8 आ य॑न्तु दे॒वाः सु॑मन॒स्यमा॑ना
PS3.9 वि॒यन्तु॑ दे॒वा ह॒विषो॑ मे
PS3.10 अ॒स्य
PS3.11 कस्त्वा॑ युनक्ति॒ स त्वा॑
PS3.12 युनक्तु॒ यानि॑ घ॒र्मे क॒पाला᳚न्युपचि॒न्वन्ति॑
PS3.13 - [ ]
PS4.1 वे॒धसः॑
PS4.2 पू॒ष्णस्तान्यपि॑ व्र॒त इ॑न्द्रवा॒यू वि मु॑ञ्चतां
PS4.3 अभि॑न्नो घ॒र्मो जी॒रदा॑नु॒र्यत॒ आत्त॒स्तद॑ग॒न् पुनः॑
PS4.4 इ॒द्ध्मो वेदिः॑ परि॒धय॑श्च॒ सर्वे॑
PS4.5 य॒ज्ञ्स्याऽऽयु॒रनु॒ सं च॑रन्ति
PS4.6 त्रय॑स्त्रिꣳश॒त् तन्त॑वो॒॒ ये वि॑तत्नि॒रे
PS4.7 य इ॒मं ॅय॒ज्ञ्ꣳ स्व॒धया॒
PS4.8 दद॑न्ते॒ तेषां᳚ छि॒न्नं प्रत्ये॒तद्-द॑धामि॒
PS4.9 स्वाहा॑ घ॒र्मो दे॒वाꣳ अप्ये॑तु

Report Timing Issue

Report timing issue for this location?

पञ्चशत् 1 #
TS 1.5.10.1 TS 1.5.10.1
मम॒ नाम॑ प्रथ॒मं जा॑तवेदः पि॒ता मा॒ता च॑ दधतु॒र्यदग्रे᳚ । तत्त्वं बि॑भृहि॒ पुन॒रा मदैतो॒स्तवा॒हं नाम॑ बिभराण्यग्ने ॥ मम॒ नाम॒ तव॑ च जातवेदो॒ वास॑सी इव वि॒वसा॑नौ॒ ये चरा॑वः । आयु॑षे॒ त्वं जी॒वसे॑ व॒यं ॅय॑थाय॒थं ॅवि परि॑ दधावहै॒ पुन॒स्ते ॥ नमो॒ऽग्नये ऽप्र॑तिविद्धाय॒ नमोऽना॑धृष्टाय॒ नमः॑ स॒म्राजे᳚ । अषा॑ढो - [ ]
पदपाठः (Word-by-word)
मम॑ । नाम॑ । प्र॒थ॒मम् । जा॒त॒वे॒द॒ इति॑ जात - वे॒दः॒ । पि॒ता । मा॒ता । च॒ । द॒ध॒तुः॒ । यत् । अग्रे᳚ ॥ तत् । त्वम् । बि॒भृ॒हि॒ । पुनः॑ । एति॑ । मत् । ऐतो॒रित्या - ए॒तोः॒ । तव॑ । अ॒हम् । नाम॑ । बि॒भ॒रा॒णि॒ । अ॒ग्ने॒ ॥ मम॑ । नाम॑ । तव॑ । च॒ । जा॒त॒वे॒द॒ इति॑ जात - वे॒दः॒ । वास॑सी॒ इति॑ । इ॒व॒ । वि॒वसा॑ना॒विति॑ वि-वसा॑नौ । ये इति॑ । चरा॑वः ॥ आयु॑षे । त्वम् । जी॒वसे᳚ । व॒यम् । य॒था॒य॒थमिति॑ यथा-य॒थम् । वि । परीति॑ । द॒धा॒व॒है॒ । पुनः॑ । ते इति॑ ॥ नमः॑ । अ॒ग्नये᳚ । अप्र॑तिविद्धा॒येत्यप्र॑ति - वि॒द्धा॒य॒ । नमः॑ । अना॑धृष्टा॒येत्यना᳚ - धृ॒ष्टा॒य॒ । नमः॑ । स॒म्राज॒ इति॑ सं - राजे᳚ ॥ अषा॑ढः ।
पदसंख्या: 50
सायणभाष्यम् (Sayana Commentary)

(अथ प्रथमकाण्डे पञ्चमप्रपाठके दशमोऽनुवाकः)।

दशमानुवाकस्य पूर्वभागे प्रवत्स्यतो यजमानस्याग्न्युपस्थानमन्त्रा उत्तरभागे केचिद्दर्शपूर्णमासाङ्गमन्त्राश्चाभिधीयन्ते। कल्पे — “प्रवसथमेष्यन्नाहाग्नी-न्समाधेहीति ज्वलत उपतिष्ठते” इत्युपक्रम्योक्तं “पशून्मे शस्य पाहि तान्मे तान्मे गोपायास्माकं पुनरागमादित्याहवनीयं मम नाम प्रथमं जातवेद इति च” इति।

तत्र पशूनित्यादिमन्त्रः शाखान्तरगतः। मन्त्रान्तरपाठस्तु -

मम नाम प्रथममिति। ब्राह्मणस्य नामद्वयं विद्यते देवदत्तयज्ञदत्तादिकमे- कमुपाध्यायदीक्षितादिकमपरम्। अथ एव श्रूयते — “तस्माद्द्विनामा ब्राह्म-णोऽर्धुकः” इति। तत्राध्यापनादेरूर्ध्वं प्रवृत्तत्वादुपाध्यायादिकं चरमम्। अग्ने जन्मकाले मातापितृभ्यां कृतत्वाद्देवदत्तादिकं प्रथमम्। हे जातवेदो मम यत्प्रथमं नाम तत्त्वं धारय। कियन्तं कालम्। पुनरा मदैतोः। आ मदीयपुरागमनात्। अहमपि तव नाम धारयाणि। त्वमत्र वैकल्यं निर्हरन्मदीयं कार्यं कुरु। त्वन्नामधारिणो मम गन्तव्यदेशे वैकल्यमेव न संभवतीत्यर्थः।

कल्पे — “अभ्येत्याहाग्नीन्समाधेहीति ज्वलत उपतिष्ठते” इत्युपक्रम्योक्तं “मम नाम तव च जातवेद इति चतसृभिराहवनीयम्” इति।

तत्र प्रथमा - मम नाम तवेति। हे जातवेदो मम देवदत्तादि नाम तव च वह्न्यादि नामेत्येवं ये नामनी विपरिवृत्यान्योन्यवाससी विपर्ययेण वसानाविवेदानीमावां चरावः। अत ऊर्ध्वं ते नामनी त्वं चाहं च पुनरपि यथायथं त्वदीयं वह्न्यादिनाम तवैव मदीयं च देवदत्तादिनाम मदीयमेव यथा भवति तथा विपरिवृत्य परिदधावहै। एवं सत्यायुर्वृद्धिर्धनादिसंपत्त्या प्रशस्तजीवनं च भवति।

अथ द्वितीया - नमोऽग्नय इति। अप्रतिविद्धाय केनचिदताडिताय। अनाधृष्ठाय। केनाप्यतिरस्कृताय। सम्राजे संहतदीप्तये। अषाढः शत्रूणां सोढुमशक्यः। बृहद्वया अपरिमितान्नः। विश्वजित्सर्वस्य जेता। सहन्त्यः स्वयं सहिष्णुः। श्रेष्ठो गन्धर्वः संगीतादिकलाविद्यास्वतिकुशलः।

अथ तृतीया - त्वत्पितार इति। त्वमेव पिता पालको येषां देवानां ते त्वत्पितारः। त्वा प्राप्ता आहुतयो येषां देवानां ते त्वामाहुतयः। त्वयि हुताः सत्यो देवांस्तर्पय-न्तीत्यर्थः। त्वमेव विशेषेण वाचनप्रख्यापयिता येषां ते त्वद्विवाचनाः। हेऽग्ने मां दीर्घायुषा संधाः संयोजय। गौपत्येन गवां स्वामित्वेन संयोजय। सुहिते सुष्ठु हिते पुरुषार्थे मा धाः, मां स्थापय।

अथ चतुर्थी - अयमग्निरिति। प्रशस्यानां मध्येऽतिशयेन श्रेष्ठः। पुनरपि तादृशानां मध्येऽतिशयेन श्रेष्ठः श्रेष्ठतमः। भगवच्छब्दः पौराणिकैर्व्याख्यातः —

“ऐश्वर्यस्य समग्रस्य धर्मस्य यशसः श्रियः।

ज्ञानवैराग्ययोश्चैव षण्णां भग इतीरणा” इति।

“उत्पत्तिं प्रलयं चैव भूतानामगतिं गतिम्।

वेत्ति विद्यामविद्यां च स वाच्यो भगवानिति” इति।

अतिशयेन भगवान्भगवत्तमः। सहस्रसंख्याकस्य धनस्य सनितारो दातारस्ते-ष्वतिशयेन दाता सहस्रसातमः। तादृशस्याग्नेः प्रसादादस्मै यजमानाय मह्यं शोभनं सामर्थ्यमस्तु।

कल्पः — “नवमीं चेदति प्रवसेन्मित्रो जनान्यातयति प्रजानन्निति मैत्र्योप

स्थाय मनो ज्योतिर्जुषतामित्याहुतिं जुहुयात्” इति।

निर्गमनतिथिमारभ्य नवमीं तिथिमतिक्रम्य प्रवासे सत्येतदवगन्तव्यम्। तत्र मित्रो जनानिति मन्त्रोऽन्यत्राऽऽम्नातः।

मनो ज्योतिरिति। पूर्वार्धं भूमिर्भूम्नेत्यनुवाके व्याख्यातम्। या उषसः प्रातःकालोपलक्षिता आहुतयः, याश्च निम्रुचोऽस्तमयकालोपलक्षिता आहुतय इष्टा इतरैर्यजमानैरनुष्ठिता मया त्वन्तरितास्ताः सर्वा आहुतीरनेन घृतेन हविषा संदधामि अविच्छिन्नाः करोमि।

अग्न्युपस्थानमन्त्रविषयः पूर्वभागो गतः। अथ दार्शिकयजमानमन्त्रादिविषय उत्तरभाग उच्यते।

कल्पः — “पयस्वतीरोषधय इत्यप आचामत्युपस्पृशति वा” इति।

पाठस्तु - पयस्वतीरिति। सारवाची पयःशब्दः। ओषधयः पयस्वत्यः सारवत्यः। वीरुधां लतानां संबन्धि यत्पयो निर्गतं क्षीरं तदपि पयस्वत्सारवत्। अपां मध्ये यत्पयः सारं यच्च पयसो गवादिक्षीरस्य पयः सारं तेन सारेण सर्वेण हे इन्द्र मां संसृज संयोजय।

अग्ने व्रतपत इति। कल्पः — “दक्षिणेनाऽऽहवनीयमवस्थाय व्रतमुपैष्यन्स-मुद्रं मनसा ध्यायत्यथ जपति अग्ने व्रतपते व्रतं चरिष्यामीति ब्राह्मणः” इति।

मन्त्रशेषस्तु — “तच्छकेयं तन्मे राध्यताम्” इति।

तद्व्रतमनुष्ठातुं शक्तो भूयासं, मदीयं तद्व्रतं समृद्धं भवति।

अग्नि होतारमिति। कल्पः — “अग्नि होतारमिह त हुव इति हविर्निरूप्यमाणमभिमन्त्रयते हविर्निर्वपणं वा पात्रमभिमृशत्यभि वा मन्त्रयते” इति।

मन्त्रशेषस्तु —”देवान्यज्ञियानिह यान्हवामहे। आ यन्तु देवाः सुमनस्यमाना वियन्तु देवा हविषो मे अस्य” इति।

इह कर्मणि देवानामाह्वातारं तमग्निमहमाह्वयामि। इह कर्मणि यान्देवानुद्दिश्य जुहुमस्तानपि यज्ञियान्देवानाह्वयामि। आहूताश्च ते देवाः सैमनस्यं प्राप्ता आगच्छन्तु। आगत्य च मेऽस्य हविषो मदीयमिदं हविर्वियन्तु भक्षयन्तु।

कस्त्वेति। कल्पः — “अथ यज्ञं युनक्ति कस्त्वा युनक्ति स त्वा युनक्त्विति सर्वं विहारमनुवीक्षते” इति।

हे यज्ञ कः प्रजापतिः सर्वत्र त्वां युनक्ति योग्यं करोति। तस्मादत्रापि स एव त्वां युनक्तु।

कल्पः — “उभौ कपालविमोचनं जपतः” इति। उभावप्यध्वर्युयजमानौ।

मन्त्रपाठस्तु - यानि घर्म इति। अयं मन्त्रोऽप्यध्वर्युकाण्ड आम्नातत्वात्प्रथमप्रपाठके व्याख्यातः। वेधसो ब्रह्मसमाः पूष्णः पोषका ऋत्विजो यानि कपालानि वह्ना वुपस्थापयन्ति तानि सर्वाण्यपि व्रते समाप्ते सतीन्द्रवायू विमुञ्चताम्।

अभिन्न इति। अथ प्रायश्चित्तम्। तत्र कल्पः — “यदि कपालं भिद्येत गायत्रिया त्वा शताक्षरया संदधामीति तत्संधायोपरि गार्हपत्ये धार्यमाणम-भिजुहुयान्मनो ज्योतिर्जुषतामित्यथैनदपोऽभ्यवहरेदभिन्नो घर्मो जीरदानुरिति” इति।

मन्त्रशेषस्तु “यत्र आत्तस्तदगन्पुनः। इध्मो वेदिः परिधेयश्च सर्वे यज्ञस्याऽऽयुरनुसंचरन्ति” इति।

घर्मो दीप्तः संतप्तोऽयं कपालविशेषः स्वयं मिन्नत्वेन प्रतीयमानोऽपि मन्त्र सामर्थ्यादभिन्न एव भिन्नत्वदोषं नाऽऽवहति। यस्मादयं जीरदानुः। जीरं जीवनं पुरोडाशाद्वारेण यज्ञस्य ददातीति जीरदानुः। यो ह्यन्यं जीवयति स कथं स्वयं भिन्नो भवेत्। अभिन्नत्वे तदाकारः कुतो न भातीत्याशङ्क्योत्तरमुच्यते - यतो यस्मान्मृद्रूपात्कारणादात्त उत्पन्नः पुनस्तत्कारणमगन्नाप्नोदतः कारणरूपमृदाकार एव प्रतीयते न तु कार्याकारः। तदप्रतीतावपीध्मादयः स्वस्वाकारेण प्रतीयमाना यज्ञपुरुषस्याऽऽयुरनुकृत्य संचरन्ति।

त्रयस्रिशदिति। कल्पः — “अथान्यत्संस्कृत्य कपालेष्वतिसृजेत्त्रयस्रिश-त्तन्तव इति” इति।

मन्त्रशेषस्तु — “ये वितत्निरे य इमं यज्ञ स्वधया ददन्ते तेषां छिन्नं प्रत्येतद्दधामि स्वाहा घर्मो देवा अप्येतु” इति।

चतुर्थकाण्डे प्रजापतिर्मनसाऽन्धोऽच्छेत इत्यस्मिन्ननुवाक इष्टकोपधानार्था यज्ञतनुनामकास्त्रयस्त्रिंशन्मन्त्रा आम्नाताः। तन्मन्त्रप्रतिपाद्या यज्ञतनव इह तन्तुस्थानीयाः। यथा तन्तुभिः पटो निष्पाद्यते तथा तास्तनवो यज्ञं विस्तारयन्ति। ते तन्तवो यज्ञनिष्पादकाः। येऽप्यृत्विगादयः स्वधया हविषेमं यज्ञं ददन्तेऽनुतिष्ठन्ति तेषां प्राजापत्यादीनां यज्ञाभिमानिदेवानामृ- त्विगादियज्ञाङ्गानां च मध्ये यत्स्वरूपं विच्छिन्नं तदेतत्प्रतिसंधामि। अतः स्वाहा सुष्टु प्रतिसंहितो घर्मो दीप्तो यज्ञाङ्गविशेषो देवानप्येतु प्राप्नोतु।

अत्र विनियोगसंग्रहः —

“मम प्रवत्स्यन्पूर्वाग्निं मन्त्रयेत्पुनरागतः।

ममेत्याद्यैश्चतुर्मन्त्रैर्मनस्तत्र जुहोति हि॥१॥

गतमग्नेरुपस्थानं मन्त्राः प्रासङ्गिका अथ।

पयेत्याचामति स्वामी दर्शपूर्णिमयोरपः॥२॥

अग्ने प्रागग्निपार्श्वस्थो जपेदग्निं हविस्तथा।

निरुप्यमाणं संमन्त्र्य कस्त्वा यज्ञं युनक्ति हि॥३॥

यानीति मुच्यमानानि कपालान्यनुमन्त्रयेत्।

अभिन्नोऽप्सु क्षिपेद्भिन्नं कपालं त्रय इत्यतः।

कपालान्तरमादध्यादिति प्रासङ्गिका गताः॥४॥” इति।

इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीय-तैत्तिरीयसंहिताभाष्ये प्रथमकाण्डे पञ्चमप्रपाठके दशमोऽनुवाकः॥१०॥
भट्टभास्करभाष्यम् (Bhatta Bhaskara Commentary)
1 अग्निभ्यः प्रवत्स्यन्नाहवनीयमुपतिष्ठते - मम नामेति त्रिष्टुभा ॥ हे अग्ने जातवेदः जातानां वेदितः, यद्वा - जातधनादिक । मम यत्प्रथममाद्यं गुह्यं; 'तस्माद्द्विनामा ब्राह्मणोर्धुकः' इति द्विनामत्वाद्विशेष्यते । किम्पुनस्तदित्याह - पिता माता चाग्रे जन्मकाले यद्दधतुः नाम मम चक्रतुः । सत्यपि यद्वृत्ते व्यत्ययेन निहन्यते । यद्वा - मम प्रथमं नाम माता च पिता च दधतुः तस्मादेवं नाम विशिष्टम् । ततः किम्पुनस्तदित्याह - यदग्रे यज्जन्मकाले एव ममाभूत् । प्रथमस्य नाम्नो द्वौ गुणौ, मातापितृकर्तृकत्वं अग्रे कृतत्वं च । ततो विशिष्टं मदीयं नाम त्वं बिभृहि । कुत इत्यत आह - मत् मम । सुपां सुलुक्' इति षष्ठ्या लुक् । कुतः? आ पुनरेतोः आपुनरागमनात् । 'भावलक्षणे स्थेण्' इति तोसुन्प्रत्ययः, कृदुत्तरपदप्रकृतिस्वरत्वं बाधित्वा 'तादौ च' इति गतेः प्रकृतिस्वरत्वम् । यद्वा - आभिमुख्ये आङ्स्वीकर्तव्यः । कर्तरि तोसुन् । मदिति पञ्चम्येव । आ गन्तोः मत्, यावदहमागन्तास्मि तावदित्यर्थः । तव च नामाहं बिभराणि । तावन्तं कालं नामभरणं चावश्यकार्यप्रतिलम्भार्थम् । एतदुक्तं भवति - मयि प्रोषित उपसन्निहितस्त्वमहं भूत्वा मया कर्तव्यं सर्वं कुरु, यथात्र न किञ्चित्परिहास्यते । अहमप्यन्यत्र त्वं भूत्वा त्वया कर्तव्यं करिष्यामि, यथा बहिर्न किञ्चित्परिहास्यते । एवमाभ्यां परस्परस्योपकुर्वद्भ्यां वर्तितव्यमिति ॥
2 आगत्य प्रवासात्पुनस्तमुपतिष्ठते - मम नाम तव चेति । अयञ्च जगतीप्रकारो विवृद्धपादः । 'आयुषे त्वं जीवसे वयम्' इति तृतीयः पादः ॥ हे जातवेदः मम च तव च सम्बन्धिनी ये नामनी विवसानौ विपरिवृत्य वसानौ मम नाम त्वं तव च नामाहमिति, अतोन्योन्यस्य विपरिवृत्ते इव धारयन्तौ चरावः त्वं चाहं च वर्तावहे । ते नामनी पुनरिदानीं यथायथं यथास्वं विपरिदधावहै पुनविवर्तावहै । तव नाम त्वमेव परिधत्स्व मम च नामाहमेव परिदधे । 'यथास्वे यथायथम्' इति निपात्यते । किमर्थमित्याह - आयुषे अन्नाय हविर्लक्षणाय त्वमात्मीयं नाम गृहाण । जीवसे दीर्घाय्नुर्जीवितुम् वयमप्यात्मीयं नाम गृह्णीमः । 'अस्मदो द्वयोश्च' इत्येकस्मिन् बहुवचनम् । वचनव्यत्ययो वा ।

'तुमर्थे सेसेन्' इत्यसेप्रत्ययः, आद्युदात्तत्वप्रसङ्गादसुन्नन्तो नेष्यते ॥

3 गार्हपत्यमुपतिष्ठते - नमोग्नय इति त्रिष्टुभा ॥ नमोग्नये पूजेयं क्रियते । अप्रतिविद्धाय केन न चिदप्यताडिताय । नमोनाधृष्टाय केन चिदप्यपरिभूताय । नमस्सम्राजे सर्वदा सङ्गतदीप्तये । 'मो राजि समः क्वौ' इति मकारः । इदानीं स एवाग्निस्स्तूयते - अयं खल्वग्निः अषाढः केन चिदपि सोढुमशक्यः । 'साढ्वै साढ्वा' इति निपात्यते, 'सहोस्साढस्सः' इति षत्वम् । बृहद्वयाः अपरिमितान्नः, विश्वजित्सर्वस्य जेता, सहन्न्त्यः अभिभवनशीलश्शत्रूणाम् । सहेरौणादिके झचि स्वार्थिको यत्, अद्व्यचोपि व्यत्ययेन 'यतोऽनावः' इत्याद्युदात्तत्वम् । श्रेष्ठः प्रशस्यतमः, गन्धर्वः गवां स्तुतिशब्दानां धारयिता स्वीकर्ता । स्वीकृत्य वा तदर्थस्य कर्ता । पृषोदरादिः । योग्निरित्थम्भूतस्तस्मै नमः इति ॥
4 अन्वाहार्यपचनमुपतिष्ठते - त्वत्पितार इति ॥ अयं कश्चिद्गायत्रीप्रकारः । 'सम्मामायुषा' इति तृतीयः । हे अग्ने त्वात्पितारस्त्वत्पितृकाः त्वं पिता पाता वा येषां तादृशा देवताः । छान्दसं दीर्घत्वम्, 'ऋतश्छन्दसि' इति कबभावः । त्वामाहुतयः त्वां प्रति गन्तारः, त्वय्याहुतयो येषान्ते त्वामाहुतयः । छान्दसो द्वितीयाया अलुक् । त्वय्याहुतयः देवाहुतय इत्यर्थः । त्वद्विवाचनाः त्वं विवाचनाः विवाचयिता विशेषेण ख्यापयिता येषां ते तादृशाः, त्वन्मुखत्वाद्देवानाम् वचेर्ण्यन्तान्नन्द्यादिलक्षणो ल्युः । स तादृशस्त्वमायुषान्नेन जीवितेन वा सुहिते सुष्ठु निहिते सुहितार्थं मां सन्धाः सन्धेहि संयोजय । गौपत्येन गवां स्वामित्वेन च मां सन्धेहि । पत्यन्तलक्षणो यत् । दधातेर्लेटि शपो लुक् । छान्दसे वा लिङि 'गातिस्था' इति सिचो लुक् । यद्वा - सुहिते सम्यक् स्थापय । सुहित इति प्रादिसमासे अव्ययपूर्वपदप्रकृतिस्वरत्वम् ॥
5 आहवनीयमुपतिष्ठते - अयमित्यनुष्टुभा ॥ अयमग्निराहवनीयश्श्रेष्ठतमः अतिशयेन प्रशस्यतमः प्रशस्तानामपि प्रशस्ततमः । प्रकर्षवतामप्यतिशयविवक्षया द्वितीय आतिशायनिको भवत्येव, यथा 'श्रेष्ठतमाय कर्मणे' इति । अयं भगवत्तमः अतिशयेन धनवान् । तथाऽयं सहस्रसातमः सहस्रस्य बहुनो धनस्य ये सनितारस्सम्भक्तारो दातारो वा तानतिशेते । 'जनसन' इति विट् ,'विड्वनोरनुनासिकस्स्यात्' इत्यात्वम् । ईदृशोयमग्निरस्मै यजमानाय मह्यं सुवीर्यमस्तु शोभनवीर्यं धनमस्तु । ईदृशधनहेतुर्मामस्त्विति यावत् । 'वीरवीर्यौ च' इत्युत्तरपदाद्युदात्तत्वम् । एवं सहस्रपदोपात्तं धनं सुवीर्यशब्देन विशेप्यते ॥
6 विच्छिन्ननिमित्तो होमः - मनो ज्योतिरिति । त्रिष्टुबियं, विराड्वा ॥ पूर्वार्धर्चो व्याख्यातः । सर्वस्य मनो द्योतमानोयमग्निरिदमाज्यं जुषतां, जुषमाणश्चेमं विच्छिन्नं यज्ञं सन्दधात्विति । या इष्टाः 'तास्सन्दधामि' इति वचनात् मयि प्रोषिते प्रमत्ते वा । या उषसः अन्यैर्यजमानैरिष्टाः, मयानिष्टा इत्यर्थसिद्धम् । यद्वा - इष्टा यागार्हा मयानिष्टास्संधातुं या इष्टाः । इच्छतेर्निष्ठा । इषेर्वा गतिकर्मणः, इष्टाः गताः विना यागेनातिवाहिताः । उषसः अहरारम्भाः प्रातश्च सायं चेति यावत् । म्रुचु म्लुचु स्तेयकरणे, सम्पदादिलक्षणः क्विप् । तास्सन्दधामि अनेन घृतेनैव हविषा चरुणा सङ्गताः करोमि अनेन हविषा यागवतीः करोमि । अथापरम् - या इष्टाः पूर्वं मया यागवत्यः कृताः या उषसः उदया दिवसा इत्यर्थः । याश्च निम्रुचः लुप्तयागा उषसस्ता उभयीरुषसः अनेन हविषा सन्दधामि संयोजयामि, यागवतीरेव सर्वाः करोमि, इष्टानिष्टविभागरहिताः करोमीत्यर्थः ॥
7 अतः परमिष्टियाजमानकाण्डं प्राजापत्यम् । तत्राप आचामति - पयस्वतीरित्यनुष्टुभा ॥ पयस्वतीः पयस्वत्यः क्षीरवत्यस्सारवत्यो वा । पानरसेन तद्वत्य ओषधय ओषध्यः फलपाकान्ताः । 'वा छन्दसि' पूर्वसवर्णदीर्घत्वम् । वीरुधां तु पयः पयस्वत् ओषधीनां पयोपि पयस्वत् सारवत् पेयत्वगुणवत् । विविधं रोहन्तीति वीरुधः लतादयः । पृषोदरादिः । अपां वा सम्बन्धि यत्पयः ईदृशं पयसोपि पयः, यत्किञ्चित्पय ओषधीनां वीरुधां वा तस्यापि पयस्ततोपि सारवत् । तेन मां संसृज योजय हे इन्द्र । एतदुक्तं भवति - ओषधयो न केवलं पयस्वत्यः वीरुधान्तु पयोपि पयस्वत्, अपान्तु ततोपि पयस्वत्पय इति ॥
8 व्रतमुपैति - अग्ने व्रतपत इति यजुषा ॥ हे अग्ने व्रतानां ब्रह्मचर्यादीनां पते पालयितः । 'नामन्त्रिते समानाधिकरणे सामान्यवचनम्' इति पूर्वस्याविद्यमानवत्वनिषेधाद्द्वितीयं निहन्यते । व्रतं यथोक्तं चरिष्यामि तद्व्रतमहं शकेयं चरितुं समर्थो भूयासम् । लिङ्याशिष्यङ् । तद्व्रतं त्वत्प्रसादाच्चरितं मे मम राध्यतां सिद्ध्यतु । राध हिंसासिद्दयोः, दैवादिकः ॥
9 हविर्निरुप्यमाणमभिमन्त्रयते - अग्निं होतारमिति । अत्र वृत्तिद्वययोगात्संशये सङ्ख्यया त्रिष्टुबित्येके । 'आद्यात्सन्देहे । देवतादिभ्यश्च' इति जगतीत्यन्ये ॥ इहास्मिन् कर्मणि होतारं देवानामाह्वातारमग्निं हुवे आह्वयामि । शपो लुक् । देवान्यज्ञियान्यज्ञार्हान् हवामहे आह्वयामः, य आह्वातव्यास्तानप्याह्वयामि । 'बहुलं छन्दसि' इति ह्वयतेस्सम्प्रसार्णम् । 'यज्ञर्त्विग्भ्याम्' इति यज्ञशब्दाद्घः । यद्वा - यान्हवामहे ये होतव्याः तानाह्वयामि । जुहोतेर्व्यत्येयन शप्, आत्मनेपदं च । ते च हुतास्सुमनस्यमानाः सुमनसस्सन्त आह्वानापराधं सोढ्वा तुष्यन्तु, आयन्त्वागच्छन्तु । भृशादित्वलक्षणः क्यङ् । आगत्य च देवा हविषोस्य वियन्तु भक्षयन्तु । वी गत्यादिषु, 'क्रियाग्रहणं कर्तव्यम्' इति सम्प्रदानत्वात् 'चतुर्थ्यर्थे बहुलं छन्दसि' इति षष्ठी ॥
10 यज्ञं यज्ञयोगेन युनक्ति - कस्त्वेति यजुषा ॥ कः प्रजापतिरेव हि त्वां युनक्ति योक्तुमर्हति, तस्मात्स त्वां युनक्तु हे यज्ञ युक्तात्मानं त्वां करोतु ॥
11 कपालानि विमुञ्चति - यानि घर्म इत्यनुष्टुभा ॥ इयं चाध्वर्यवे व्याख्याता 'धृष्टिरसि' इत्यत्र । यानि कपालानि घर्मे अग्नौ वेधसोध्वर्यवः उपचिन्वन्ति उपदधति तानि पूष्णः पुष्टिकारणस्याग्नेर्व्रते कर्मणि अपीते समाप्ते । इदानीमिन्द्रवायू विमुञ्चताम्; न ह्यन्यस्तानि विमोक्तुं शक्नोतीति ॥
12 भिन्नं कपालमुत्कर उदस्यति - अभिन्न इति । पङ्क्तिरियं चतुष्पदा ॥ अभिन्नोऽविगुणोस्तु घर्मो यज्ञः; सत्यपि कपालभेदे तन्निमत्तं यज्ञस्य वैगुण्यं मा भूदित्यर्थः । अथ वा - घर्मार्थं कपालं घर्मः स भिन्नोप्यभिन्नोस्तु अविनष्ट एवास्तु । अत एव जीरदानुः यागः कपालं वा भवतु वैगुण्याभावात्; जीरमुदकं तस्य दाता वर्षादिद्वारेण । यद्वा - जीवं जीवितं प्रजानां तस्य दाता । जीवेरौणादिको रक्प्रत्ययः, ददातेर्नुः, दासीभारादित्वात्पूर्वपदप्रकृतिस्वरत्वम् । जीवेरदानुक् जीरदानुः इति निर्वचनं पदकारा न सहन्ते । किञ्च - अयं घर्मो यज्ञात्मा कपालात्मा वा यतः पृथिव्या आत्तः गृहीतः तदेव पुनरगन् गच्छतु पृथिव्यां गृहीतं पृथिवीमेव गच्छतु । गमेश्छान्दसे लिङि 'मन्त्रे घस' इत्यादिना च्लेर्लुक् । 'मो नो धातोः ' ॥
13 आहवनीये सम्मीननीं जुहोति - इध्मो वेदिरित्युत्तरेणार्धर्चेन त्रयस्त्रिंशदिति त्रिष्टुभा च ॥ इध्मो वेदिः परिधयश्च । चशब्दादन्येप्येवंजातीयास्सर्वे यज्ञस्यायुस्थानीयमिममनुसञ्चरन्ति अनुक्रमेण प्रत्यासन्ना भूत्वा चरन्ति इमं सेवमाना वर्तन्ते । ये च त्रयस्त्रिंशत्तन्तवः तन्तुस्थानीयाः पटमिव सूत्राणीमं यज्ञं वितत्निरे विस्तारयन्ति । के पुनस्ते? ये 'प्रजापतिर्मनसान्धोच्छेतः' इति आकूतिप्रभृतियज्ञस्य तनितारः प्रजापत्यादयः ते वेदितव्याः । आकूत्यादयो वा यज्ञावयवाः । त्रयश्च त्रिंशच्च । 'त्रेस्त्रयः' इति सूत्रेण त्रेस्त्रयसादेशः, 'सङ्क्या' इति पूर्वपदप्रर्कृतिस्वरत्वम् । विपूर्वात्तनोतेश्छान्दसे लिटि 'तनिपत्योश्छन्दसि' इत्युपधालोपः । अथ ये च इमं यज्ञं स्वधयान्नेन हविरात्मना ददन्ते उत्पादयन्ति, उत्पाद्य वा देवेभ्यो दधति । ददतिर्भौवादिकः । तेषां सर्वेषां यच्छिन्नं भेदननिमित्तेन प्राप्तं वैगुण्यं एतत्प्रतिदधामि अनयाहुत्या प्रतिविहितं करोमि । यद्वा - समर्थे प्रतिशब्दः; यच्छिन्नमेतत्सन्दधामि सन्ततमविच्छिन्नमनयाहुत्या करोमि, स्वाहुतं चेदमस्तु ॥
14 अन्यं कपालं तेषु विसृजति - घर्म इति ॥ घर्मो यज्ञः कपालं वा देवानप्येतु अनुप्रविशतु अन्वितगुणो भवतु ॥
इति पञ्चमे दशमोनुवाकः ॥
पञ्चशत् 2 #
TS 1.5.10.2 TS 1.5.10.2
अ॒ग्निर्बृ॒हद्व॑या विश्व॒जिथ् सह॑न्त्यः॒ श्रेष्ठो॑ गन्ध॒र्वः । त्वत्पि॑तारो अग्ने दे॒वा-स्त्वामा॑हुतय॒-स्त्वद्वि॑वाचनाः । सं मामायु॑षा॒ सं गौ॑प॒त्येन॒ सुहि॑ते मा धाः ॥ अ॒यम॒ग्निः श्रेष्ठ॑तमो॒ ऽयं भग॑वत्तमो॒ ऽयꣳ स॑हस्र॒सात॑मः । अ॒स्मा अ॑स्तु सु॒वीर्यं᳚ ॥ मनो॒ ज्योति॑र् जुषता॒माज्यं॒ ॅविच्छि॑न्नं ॅय॒ज्ञ्ꣳ समि॒मं द॑धातु । या इ॒ष्टा उ॒षसो॑ नि॒म्रुच॑श्च॒ ताः सं द॑धामि ह॒विषा॑ घृ॒तेन॑ ॥ पय॑स्वती॒रोष॑धयः॒ - [ ]
पदपाठः (Word-by-word)
अ॒ग्निः । बृ॒हद्व॑या॒ इति॑ बृ॒हत् - व॒याः॒ । वि॒श्व॒जिदिति॑ विश्व - जित् । सह॑न्त्यः । श्रेष्ठः॑ । ग॒न्ध॒र्वः ॥ त्वत्पि॑तार॒ इति॒ त्वत्-पि॒ता॒रः॒ । अ॒ग्ने॒ । दे॒वाः । त्वामा॑हुतय॒ इति॒ त्वाम् - आ॒हु॒त॒यः॒ । त्वद्वि॑वाचना॒ इति॒ त्वत् - वि॒वा॒च॒नाः॒ ॥ समिति॑ । माम् । आयु॑षा । समिति॑ । गौ॒प॒त्येन॑ । सुहि॑त॒ इति॒ सु - हि॒ते॒ । मा॒ । धाः॒ ॥ अ॒यम् । अ॒ग्निः । श्रेष्ठ॑तम॒ इति॒ श्रेष्ठ॑ - त॒मः॒ । अ॒यम् । भग॑वत्तम॒ इति॒ भग॑वत्-त॒मः॒ । अ॒यम् । स॒ह॒स्र॒सात॑म॒ इति॑ सहस्र - सात॑मः ॥ अ॒स्मै । अ॒स्तु॒ । सु॒वीर्य॒मिति॑ सु - वीर्य᳚म् ॥ मनः॑ । ज्योतिः॑ । जु॒ष॒ता॒म् । आज्य᳚म् । विच्छि॑न्न॒मिति॒ वि - छि॒न्न॒म् । य॒ज्ञ्म् । समिति॑ । इ॒मम् । द॒धा॒तु॒ ॥ याः । इ॒ष्टाः । उ॒षसः॑ । नि॒म्रुच॒ इति॑ नि-म्रुचः॑ । च॒ । ताः । समिति॑ । द॒धा॒मि॒ । ह॒विषा᳚ । घृ॒तेन॑ ॥ पय॑स्वतीः । ओष॑धयः ।
पदसंख्या: 50
पञ्चशत् 3 #
TS 1.5.10.3 TS 1.5.10.3
पय॑स्वद्वी॒रुधां॒ पयः॑ । अ॒पां पय॑सो॒ यत्पय॒स्तेन॒ मामि॑न्द्र॒ सꣳ सृ॑ज ॥ अग्ने᳚ व्रतपते व्र॒तं च॑रिष्यामि॒ तच्छ॑केयं॒ तन्मे॑ राद्ध्यतां ॥ अ॒ग्निꣳ होता॑रमि॒ह तꣳ हु॑वे दे॒वान्. य॒ज्ञिया॑नि॒ह यान्. हवा॑महे ॥ आ य॑न्तु दे॒वाः सु॑मन॒स्यमा॑ना वि॒यन्तु॑ दे॒वा ह॒विषो॑ मे अ॒स्य ॥ कस्त्वा॑ युनक्ति॒ स त्वा॑ युनक्तु॒ यानि॑ घ॒र्मे क॒पाला᳚न्युपचि॒न्वन्ति॑ - [ ]
पदपाठः (Word-by-word)
पय॑स्वत् । वी॒रुधा᳚म् । पयः॑ । अ॒पाम् । पय॑सः । यत् । पयः॑ ॥ तेन॑ । माम् । इ॒न्द्र॒ । समिति॑ । सृ॒ज॒ ॥ अग्ने᳚ । व्र॒त॒प॒त॒ इति॑ व्रत - प॒ते॒ । व्र॒तम् । च॒रि॒ष्या॒मि॒ । तत् । श॒के॒य॒म् । तत् । मे॒ । रा॒द्ध्य॒ता॒म् ॥ अ॒ग्निम् । होता॑रम् । इ॒ह । तम् । हु॒वे॒ । दे॒वान् । य॒ज्ञियान्॑ । इ॒ह । यान् । हवा॑महे ॥ एति॑ । य॒न्तु॒ । दे॒वाः । सु॒म॒न॒स्यमा॑ना॒ इति॑ सु - म॒न॒स्यमा॑नाः । वि॒यन्तु॑ । दे॒वाः । ह॒विषः॑ । मे॒ । अ॒स्य ॥ कः । त्वा॒ । यु॒न॒क्ति॒ । सः । त्वा॒ । यु॒न॒क्तु॒ । यानि॑ । घ॒र्मे । क॒पाला॑नि । उ॒प॒चि॒न्वन्तीत्यु॑प - चि॒न्वन्ति॑ ।
पदसंख्या: 50
पञ्चशत् 4 #
TS 1.5.10.4 TS 1.5.10.4
वे॒धसः॑ । पू॒ष्णस्तान्यपि॑ व्र॒त इ॑न्द्रवा॒यू वि मु॑ञ्चतां ॥अभि॑न्नो घ॒र्मो जी॒रदा॑नु॒र्यत॒ आत्त॒स्तद॑ग॒न् पुनः॑ । इ॒द्ध्मो वेदिः॑ परि॒धय॑श्च॒ सर्वे॑ य॒ज्ञ्स्याऽऽयु॒रनु॒ सं च॑रन्ति ॥ त्रय॑स्त्रिꣳश॒त् तन्त॑वो॒॒ ये वि॑तत्नि॒रे य इ॒मं ॅय॒ज्ञ्ꣳ स्व॒धया॒ दद॑न्ते॒ तेषां᳚ छि॒न्नं प्रत्ये॒तद्-द॑धामि॒ स्वाहा॑ घ॒र्मो दे॒वाꣳ अप्ये॑तु ॥
पदपाठः (Word-by-word)
वे॒धसः॑ ॥ पू॒ष्णः । तानि॑ । अपीति॑ । व्र॒ते । इ॒न्द्र॒वा॒यू इती᳚न्द्र - वा॒यू । वीति॑ । मु॒ञ्च॒ता॒म् ॥ अभि॑न्नः । घ॒र्मः । जी॒रदा॑नु॒रिति॑ जी॒र - दा॒नुः॒ । यतः॑ । आत्तः॑ । तत् । अ॒ग॒न्न् । पुनः॑ ॥ इ॒द्ध्मः । वेदिः॑ । प॒रि॒ध॒य॒ इति॑ परि - धयः॑ । च॒ । सर्वे᳚ । य॒ज्ञ्स्य॑ । आयुः॑ । अनु॑ । समिति॑ । च॒र॒न्ति॒ ॥ त्रय॑स्त्रिꣳश॒दिति॒ त्रयः॑ - त्रिꣳ॒॒श॒त् । तन्त॑वः । ये । वि॒त॒त्नि॒र इति॑ वि - त॒त्नि॒रे । ये । इ॒मम् । य॒ज्ञ्म् । स्व॒धयेति॑ स्व - धया᳚ । दद॑न्ते । तेषा᳚म् । छि॒न्नम् । प्रतीति॑ । ए॒तत् । द॒धा॒मि॒ । स्वाहा᳚ । घ॒र्मः । दे॒वान् । अपीति॑ । ए॒तु॒ ॥
पदसंख्या: 45