पदपाठः (Word-by-word)
सायणभाष्यम् (Sayana Commentary)
(अथ प्रथमकाण्डे पञ्चमप्रपाठके दशमोऽनुवाकः)।
दशमानुवाकस्य पूर्वभागे प्रवत्स्यतो यजमानस्याग्न्युपस्थानमन्त्रा उत्तरभागे केचिद्दर्शपूर्णमासाङ्गमन्त्राश्चाभिधीयन्ते। कल्पे — “प्रवसथमेष्यन्नाहाग्नी-न्समाधेहीति ज्वलत उपतिष्ठते” इत्युपक्रम्योक्तं “पशून्मे शस्य पाहि तान्मे तान्मे गोपायास्माकं पुनरागमादित्याहवनीयं मम नाम प्रथमं जातवेद इति च” इति।
तत्र पशूनित्यादिमन्त्रः शाखान्तरगतः। मन्त्रान्तरपाठस्तु -
मम नाम प्रथममिति। ब्राह्मणस्य नामद्वयं विद्यते देवदत्तयज्ञदत्तादिकमे- कमुपाध्यायदीक्षितादिकमपरम्। अथ एव श्रूयते — “तस्माद्द्विनामा ब्राह्म-णोऽर्धुकः” इति। तत्राध्यापनादेरूर्ध्वं प्रवृत्तत्वादुपाध्यायादिकं चरमम्। अग्ने जन्मकाले मातापितृभ्यां कृतत्वाद्देवदत्तादिकं प्रथमम्। हे जातवेदो मम यत्प्रथमं नाम तत्त्वं धारय। कियन्तं कालम्। पुनरा मदैतोः। आ मदीयपुरागमनात्। अहमपि तव नाम धारयाणि। त्वमत्र वैकल्यं निर्हरन्मदीयं कार्यं कुरु। त्वन्नामधारिणो मम गन्तव्यदेशे वैकल्यमेव न संभवतीत्यर्थः।
कल्पे — “अभ्येत्याहाग्नीन्समाधेहीति ज्वलत उपतिष्ठते” इत्युपक्रम्योक्तं “मम नाम तव च जातवेद इति चतसृभिराहवनीयम्” इति।
तत्र प्रथमा - मम नाम तवेति। हे जातवेदो मम देवदत्तादि नाम तव च वह्न्यादि नामेत्येवं ये नामनी विपरिवृत्यान्योन्यवाससी विपर्ययेण वसानाविवेदानीमावां चरावः। अत ऊर्ध्वं ते नामनी त्वं चाहं च पुनरपि यथायथं त्वदीयं वह्न्यादिनाम तवैव मदीयं च देवदत्तादिनाम मदीयमेव यथा भवति तथा विपरिवृत्य परिदधावहै। एवं सत्यायुर्वृद्धिर्धनादिसंपत्त्या प्रशस्तजीवनं च भवति।
अथ द्वितीया - नमोऽग्नय इति। अप्रतिविद्धाय केनचिदताडिताय। अनाधृष्ठाय। केनाप्यतिरस्कृताय। सम्राजे संहतदीप्तये। अषाढः शत्रूणां सोढुमशक्यः। बृहद्वया अपरिमितान्नः। विश्वजित्सर्वस्य जेता। सहन्त्यः स्वयं सहिष्णुः। श्रेष्ठो गन्धर्वः संगीतादिकलाविद्यास्वतिकुशलः।
अथ तृतीया - त्वत्पितार इति। त्वमेव पिता पालको येषां देवानां ते त्वत्पितारः। त्वा प्राप्ता आहुतयो येषां देवानां ते त्वामाहुतयः। त्वयि हुताः सत्यो देवांस्तर्पय-न्तीत्यर्थः। त्वमेव विशेषेण वाचनप्रख्यापयिता येषां ते त्वद्विवाचनाः। हेऽग्ने मां दीर्घायुषा संधाः संयोजय। गौपत्येन गवां स्वामित्वेन संयोजय। सुहिते सुष्ठु हिते पुरुषार्थे मा धाः, मां स्थापय।
अथ चतुर्थी - अयमग्निरिति। प्रशस्यानां मध्येऽतिशयेन श्रेष्ठः। पुनरपि तादृशानां मध्येऽतिशयेन श्रेष्ठः श्रेष्ठतमः। भगवच्छब्दः पौराणिकैर्व्याख्यातः —
“ऐश्वर्यस्य समग्रस्य धर्मस्य यशसः श्रियः।
ज्ञानवैराग्ययोश्चैव षण्णां भग इतीरणा” इति।
“उत्पत्तिं प्रलयं चैव भूतानामगतिं गतिम्।
वेत्ति विद्यामविद्यां च स वाच्यो भगवानिति” इति।
अतिशयेन भगवान्भगवत्तमः। सहस्रसंख्याकस्य धनस्य सनितारो दातारस्ते-ष्वतिशयेन दाता सहस्रसातमः। तादृशस्याग्नेः प्रसादादस्मै यजमानाय मह्यं शोभनं सामर्थ्यमस्तु।
कल्पः — “नवमीं चेदति प्रवसेन्मित्रो जनान्यातयति प्रजानन्निति मैत्र्योप
स्थाय मनो ज्योतिर्जुषतामित्याहुतिं जुहुयात्” इति।
निर्गमनतिथिमारभ्य नवमीं तिथिमतिक्रम्य प्रवासे सत्येतदवगन्तव्यम्। तत्र मित्रो जनानिति मन्त्रोऽन्यत्राऽऽम्नातः।
मनो ज्योतिरिति। पूर्वार्धं भूमिर्भूम्नेत्यनुवाके व्याख्यातम्। या उषसः प्रातःकालोपलक्षिता आहुतयः, याश्च निम्रुचोऽस्तमयकालोपलक्षिता आहुतय इष्टा इतरैर्यजमानैरनुष्ठिता मया त्वन्तरितास्ताः सर्वा आहुतीरनेन घृतेन हविषा संदधामि अविच्छिन्नाः करोमि।
अग्न्युपस्थानमन्त्रविषयः पूर्वभागो गतः। अथ दार्शिकयजमानमन्त्रादिविषय उत्तरभाग उच्यते।
कल्पः — “पयस्वतीरोषधय इत्यप आचामत्युपस्पृशति वा” इति।
पाठस्तु - पयस्वतीरिति। सारवाची पयःशब्दः। ओषधयः पयस्वत्यः सारवत्यः। वीरुधां लतानां संबन्धि यत्पयो निर्गतं क्षीरं तदपि पयस्वत्सारवत्। अपां मध्ये यत्पयः सारं यच्च पयसो गवादिक्षीरस्य पयः सारं तेन सारेण सर्वेण हे इन्द्र मां संसृज संयोजय।
अग्ने व्रतपत इति। कल्पः — “दक्षिणेनाऽऽहवनीयमवस्थाय व्रतमुपैष्यन्स-मुद्रं मनसा ध्यायत्यथ जपति अग्ने व्रतपते व्रतं चरिष्यामीति ब्राह्मणः” इति।
मन्त्रशेषस्तु — “तच्छकेयं तन्मे राध्यताम्” इति।
तद्व्रतमनुष्ठातुं शक्तो भूयासं, मदीयं तद्व्रतं समृद्धं भवति।
अग्नि होतारमिति। कल्पः — “अग्नि होतारमिह त हुव इति हविर्निरूप्यमाणमभिमन्त्रयते हविर्निर्वपणं वा पात्रमभिमृशत्यभि वा मन्त्रयते” इति।
मन्त्रशेषस्तु —”देवान्यज्ञियानिह यान्हवामहे। आ यन्तु देवाः सुमनस्यमाना वियन्तु देवा हविषो मे अस्य” इति।
इह कर्मणि देवानामाह्वातारं तमग्निमहमाह्वयामि। इह कर्मणि यान्देवानुद्दिश्य जुहुमस्तानपि यज्ञियान्देवानाह्वयामि। आहूताश्च ते देवाः सैमनस्यं प्राप्ता आगच्छन्तु। आगत्य च मेऽस्य हविषो मदीयमिदं हविर्वियन्तु भक्षयन्तु।
कस्त्वेति। कल्पः — “अथ यज्ञं युनक्ति कस्त्वा युनक्ति स त्वा युनक्त्विति सर्वं विहारमनुवीक्षते” इति।
हे यज्ञ कः प्रजापतिः सर्वत्र त्वां युनक्ति योग्यं करोति। तस्मादत्रापि स एव त्वां युनक्तु।
कल्पः — “उभौ कपालविमोचनं जपतः” इति। उभावप्यध्वर्युयजमानौ।
मन्त्रपाठस्तु - यानि घर्म इति। अयं मन्त्रोऽप्यध्वर्युकाण्ड आम्नातत्वात्प्रथमप्रपाठके व्याख्यातः। वेधसो ब्रह्मसमाः पूष्णः पोषका ऋत्विजो यानि कपालानि वह्ना वुपस्थापयन्ति तानि सर्वाण्यपि व्रते समाप्ते सतीन्द्रवायू विमुञ्चताम्।
अभिन्न इति। अथ प्रायश्चित्तम्। तत्र कल्पः — “यदि कपालं भिद्येत गायत्रिया त्वा शताक्षरया संदधामीति तत्संधायोपरि गार्हपत्ये धार्यमाणम-भिजुहुयान्मनो ज्योतिर्जुषतामित्यथैनदपोऽभ्यवहरेदभिन्नो घर्मो जीरदानुरिति” इति।
मन्त्रशेषस्तु “यत्र आत्तस्तदगन्पुनः। इध्मो वेदिः परिधेयश्च सर्वे यज्ञस्याऽऽयुरनुसंचरन्ति” इति।
घर्मो दीप्तः संतप्तोऽयं कपालविशेषः स्वयं मिन्नत्वेन प्रतीयमानोऽपि मन्त्र सामर्थ्यादभिन्न एव भिन्नत्वदोषं नाऽऽवहति। यस्मादयं जीरदानुः। जीरं जीवनं पुरोडाशाद्वारेण यज्ञस्य ददातीति जीरदानुः। यो ह्यन्यं जीवयति स कथं स्वयं भिन्नो भवेत्। अभिन्नत्वे तदाकारः कुतो न भातीत्याशङ्क्योत्तरमुच्यते - यतो यस्मान्मृद्रूपात्कारणादात्त उत्पन्नः पुनस्तत्कारणमगन्नाप्नोदतः कारणरूपमृदाकार एव प्रतीयते न तु कार्याकारः। तदप्रतीतावपीध्मादयः स्वस्वाकारेण प्रतीयमाना यज्ञपुरुषस्याऽऽयुरनुकृत्य संचरन्ति।
त्रयस्रिशदिति। कल्पः — “अथान्यत्संस्कृत्य कपालेष्वतिसृजेत्त्रयस्रिश-त्तन्तव इति” इति।
मन्त्रशेषस्तु — “ये वितत्निरे य इमं यज्ञ स्वधया ददन्ते तेषां छिन्नं प्रत्येतद्दधामि स्वाहा घर्मो देवा अप्येतु” इति।
चतुर्थकाण्डे प्रजापतिर्मनसाऽन्धोऽच्छेत इत्यस्मिन्ननुवाक इष्टकोपधानार्था यज्ञतनुनामकास्त्रयस्त्रिंशन्मन्त्रा आम्नाताः। तन्मन्त्रप्रतिपाद्या यज्ञतनव इह तन्तुस्थानीयाः। यथा तन्तुभिः पटो निष्पाद्यते तथा तास्तनवो यज्ञं विस्तारयन्ति। ते तन्तवो यज्ञनिष्पादकाः। येऽप्यृत्विगादयः स्वधया हविषेमं यज्ञं ददन्तेऽनुतिष्ठन्ति तेषां प्राजापत्यादीनां यज्ञाभिमानिदेवानामृ- त्विगादियज्ञाङ्गानां च मध्ये यत्स्वरूपं विच्छिन्नं तदेतत्प्रतिसंधामि। अतः स्वाहा सुष्टु प्रतिसंहितो घर्मो दीप्तो यज्ञाङ्गविशेषो देवानप्येतु प्राप्नोतु।
अत्र विनियोगसंग्रहः —
“मम प्रवत्स्यन्पूर्वाग्निं मन्त्रयेत्पुनरागतः।
ममेत्याद्यैश्चतुर्मन्त्रैर्मनस्तत्र जुहोति हि॥१॥
गतमग्नेरुपस्थानं मन्त्राः प्रासङ्गिका अथ।
पयेत्याचामति स्वामी दर्शपूर्णिमयोरपः॥२॥
अग्ने प्रागग्निपार्श्वस्थो जपेदग्निं हविस्तथा।
निरुप्यमाणं संमन्त्र्य कस्त्वा यज्ञं युनक्ति हि॥३॥
यानीति मुच्यमानानि कपालान्यनुमन्त्रयेत्।
अभिन्नोऽप्सु क्षिपेद्भिन्नं कपालं त्रय इत्यतः।
कपालान्तरमादध्यादिति प्रासङ्गिका गताः॥४॥” इति।
भट्टभास्करभाष्यम् (Bhatta Bhaskara Commentary)
'तुमर्थे सेसेन्' इत्यसेप्रत्ययः, आद्युदात्तत्वप्रसङ्गादसुन्नन्तो नेष्यते ॥