अनुवाकः 2 TS 1.5.2

(A2)

(आ-ऽप॑राभावाय-पुरो॒डाश॑मे॒ते-आहु॑ती॒-ततः॒ -षटत्रिꣳ॑शच्च)

अनुवाकः 2 - Complete Audio

TS 1.5.2 - स्वरानुगामी

0:00 0:00
PS1.1 परा॒ वा ए॒ष य॒ज्ञ्ं
PS1.2 प॒शून् व॑पति॒ यो᳚ऽग्निमु॑द्वा॒सय॑ते॒ पञ्च॑कपालः
PS1.3 पुरो॒डाशो॑ भवति॒ पाङ्क्तो॑ य॒ज्ञ्ः
PS1.4 पाङ्क्ताः᳚ प॒शवो॑ य॒ज्ञ्मे॒व प॒शूनव॑
PS1.5 रुन्धे वीर॒हा वा ए॒ष
PS1.6 दे॒वानां॒ ॅयो᳚ऽग्निमु॑द्वा॒सय॑ते॒ न वा
PS1.7 ए॒तस्य॑ ब्राह्म॒णा ऋ॑ता॒यवः॑ पु॒राऽन्न॑मक्षन्
PS1.8 प॒ङ्क्त्यो॑ याज्यानुवा॒क्या॑ भवन्ति॒ पाङ्क्तो॑
PS1.9 य॒ज्ञ्ः पाङ्क्तः॒ पुरु॑षो दे॒वाने॒व
PS1.10 वी॒रं नि॑रव॒दाया॒ग्निं पुन॒रा -
PS1.11 [ ]
PS2.1 ध॑त्ते श॒ताक्ष॑रा भवन्ति श॒तायुः॒
PS2.2 पुरु॑षः श॒तेन्द्रि॑य॒ आयु॑ष्ये॒वेन्द्रि॒ये प्रति॑
PS2.3 तिष्ठति॒ यद्वा अ॒ग्निराहि॑तो॒ नर्द्ध्यते॒
PS2.4 ज्यायो॑ भाग॒धेयं॑ निका॒मय॑मानो॒ यदा᳚ग्ने॒यꣳ
PS2.5 सर्वं॒ भव॑ति॒ सैवास्यर्द्धिः॒ सं
PS2.6 ॅवा ए॒तस्य॑ गृ॒हे वाक्
PS2.7 सृ॑ज्यते॒ यो᳚ऽग्निमु॑द्वा॒सय॑ते॒ स वाचꣳ॒॒
PS2.8 सꣳसृ॑ष्टां॒ ॅयज॑मान ईश्व॒रोऽनु॒ परा॑भवितो॒र्
PS2.9 विभ॑क्तयो भवन्ति वा॒चो विधृ॑त्यै॒
PS2.10 यज॑मान॒स्याप॑राभावाय॒ - [ ]
PS3.1 विभ॑क्तिं करोति॒ ब्रह्मै॒व तद॑करुपाꣳ॒॒शु
PS3.2 य॑जति॒ यथा॑ वा॒मं ॅवसु॑
PS3.3 विविदा॒नो गूह॑ति ता॒दृगे॒व तद॒ग्निं
PS3.4 प्रति॑ स्विष्ट॒कृतं॒ निरा॑ह॒ यथा॑
PS3.5 वा॒मं ॅवसु॑ विविदा॒नः प्र॑का॒शं
PS3.6 जिग॑मिषति ता॒दृगे॒व तद्विभ॑क्तिमु॒क्त्वा प्र॑या॒जेन॒
PS3.7 वष॑ट्करोत्या॒यत॑नादे॒व नैति॒ यज॑मानो॒ वै
PS3.8 पु॑रो॒डाशः॑ प॒शव॑ ए॒ते आहु॑ती॒
PS3.9 यद॒भितः॑ पुरो॒डाश॑मे॒ते आहु॑ती -
PS3.10 [ ]
PS4.1 जु॒होति॒ यज॑मानमे॒वोभ॒यतः॑ प॒शुभिः॒ परि॑
PS4.2 गृह्णाति कृ॒तय॑जुः॒ संभृ॑तसंभार॒ इत्या॑हु॒र्न
PS4.3 सं॒भृत्याः᳚ संभा॒रा न यजुः॑
PS4.4 कर्त॒व्य॑मित्यथो॒ खलु॑ सं॒भृत्या॑ ए॒व
PS4.5 सं॑भा॒राः क॑र्त॒व्यं॑ ॅयजु॑र् य॒ज्ञ्स्य॒
PS4.6 समृ॑द्ध्यै पुनर्निष्कृ॒तो रथो॒ दक्षि॑णा
PS4.7 पुनरुथ्स्यू॒तं ॅवासः॑ पुनरुथ्सृ॒ष्टो॑ऽन॒ड्वान् पु॑नरा॒धेय॑स्य॒
PS4.8 समृ॑द्ध्यै स॒प्त ते॑ अग्ने
PS4.9 स॒मिधः॑ स॒प्त जि॒ह्वा इत्य॑ग्निहो॒त्रं
PS4.10 जु॑होति॒ यत्र॑यत्रै॒वास्य॒ न्य॑क्तं॒ तत॑
PS4.11 - [ ]
PS5.1 ए॒वैन॒मव॑ रुन्धे वीर॒हा वा
PS5.2 ए॒ष दे॒वानां॒ ॅयो᳚ऽग्निमु॑द्वा॒सय॑ते॒ तस्य॒
PS5.3 वरु॑ण ए॒वर्ण॒यादा᳚ग्निवारु॒ण-मेका॑दशकपाल॒मनु॒ निर्व॑पे॒द्यं चै॒व
PS5.4 हन्ति॒ यश्चा᳚स्यर्ण॒यात्तौ भा॑ग॒धेये॑न प्रीणाति॒
PS5.5 नाऽऽर्ति॒मार्च्छ॑ति॒ यज॑मानः

Report Timing Issue

Report timing issue for this location?

पञ्चशत् 1 #
TS 1.5.2.1 TS 1.5.2.1
परा॒ वा ए॒ष य॒ज्ञ्ं प॒शून् व॑पति॒ यो᳚ऽग्निमु॑द्वा॒सय॑ते॒ पञ्च॑कपालः पुरो॒डाशो॑ भवति॒ पाङ्क्तो॑ य॒ज्ञ्ः पाङ्क्ताः᳚ प॒शवो॑ य॒ज्ञ्मे॒व प॒शूनव॑ रुन्धे वीर॒हा वा ए॒ष दे॒वानां॒ ॅयो᳚ऽग्निमु॑द्वा॒सय॑ते॒ न वा ए॒तस्य॑ ब्राह्म॒णा ऋ॑ता॒यवः॑ पु॒राऽन्न॑मक्षन् प॒ङ्क्त्यो॑ याज्यानुवा॒क्या॑ भवन्ति॒ पाङ्क्तो॑ य॒ज्ञ्ः पाङ्क्तः॒ पुरु॑षो दे॒वाने॒व वी॒रं नि॑रव॒दाया॒ग्निं पुन॒रा - [ ]
पदपाठः (Word-by-word)
परेति॑ । वै । ए॒षः । य॒ज्ञ्म् । प॒शून् । व॒प॒ति॒ । यः । अ॒ग्निम् । उ॒द्वा॒सय॑त॒ इत्यु॑त् - वा॒सय॑ते । पञ्च॑कपाल॒ इति॒ पञ्च॑ - क॒पा॒लः॒ । पु॒रो॒डाशः॑ । भ॒व॒ति॒ । पाङ्क्तः॑ । य॒ज्ञ्ः । पाङ्क्ताः᳚ । प॒शवः॑ । य॒ज्ञ्म् । ए॒व । प॒शून् । अवेति॑ । रु॒न्धे॒ । वी॒र॒हेति॑ वीर - हा । वै । ए॒षः । दे॒वाना᳚म् । यः । अ॒ग्निम् । उ॒द्वा॒सय॑त॒ इत्यु॑त् - वा॒सय॑ते । न । वै । ए॒तस्य॑ । ब्रा॒ह्म॒णाः । ऋ॒ता॒यव॒ इत्यृ॑त-यवः॑ । पु॒रा । अन्न᳚म् । अ॒क्ष॒न्न् । प॒ङ्क्त्यः॑ । या॒ज्या॒नु॒वा॒क्या॑ इति॑ याज्या - अ॒नु॒वा॒क्याः᳚ । भ॒व॒न्ति॒ । पाङ्क्तः॑ । य॒ज्ञ्ः । पाङ्क्तः॑ । पुरु॑षः । दे॒वान् । ए॒व । वी॒रम् । नि॒र॒व॒दायेति॑ निः - अ॒व॒दाय॑ । अ॒ग्निम् । पुनः॑ । एति॑ ।
पदसंख्या: 50
सायणभाष्यम् (Sayana Commentary)

(अथ प्रथमकाण्डे पञ्चमप्रपाठके द्वितीयोऽनुवाकः)।

द्वितीयानुवाके याज्याद्यङ्गजातं विधित्सुः पूर्वोक्तं द्रव्यविधिमनूद्य प्रशंसति -

परा वा इति। परावपति विनाशयति। धानादिभिर्हविर्भिर्यज्ञः पाङ्क्तः। पङ्क्तिच्छन्दसः पशुहेतुत्वात्पशवोऽपि पाङ्क्ताः।

याज्यानुवाक्ये विधत्ते - वीरहेति। देवानां मध्ये वीरोऽग्निः। तद्वधकारिणो यजमानस्यान्नमृतायवः सत्यमिच्छन्तो ब्राह्मणाः पुरा नैवाक्षन्नेव भुक्तवन्तः। ‘अश भोजने’ इत्यस्य रूपम्। अग्ने तमद्याश्वं न इत्यादयश्चतस्र ऋचः पङ्क्तयः। तासु प्रधानहविषो द्वे स्विष्ठकृतो द्वे। ताश्चाग्निकाण्डे - अग्निर्मूर्धेत्यनुवाक इष्टकोपधानार्थत्वेनाऽऽ म्नाताः इह तु वाचनिकस्तद्विधिः। शाखान्तरे तु याज्याप्रस्तावे समाम्नाताः। पुरुषस्य हस्तद्वयपादद्वयशिरोभिः पञ्चभिः पाङ्क्तत्वम्। देवानेव देवानामेव मध्ये वीरमग्निं निरवदायोत्सर्जनलक्षणवधभयान्निष्कृष्य।

चतसृष्वृक्षु विद्यमानाक्षरसंख्यां प्रशंसति -

शताक्षरा इति। अग्ने तमद्येत्येषा प्रथमा चतुर्विंशत्याक्षरा। अधा ह्यग्ने क्रतोः, आभिष्टे अद्येत्युभयोरेकैका पञ्चविंशत्यक्षरा। एभिर्नो अर्कैरित्यन्त्या षड्विंशत्यक्षरेति संभूय शतमक्षराणि। अण्डाभिमानिनो ब्रह्मणः स्वप्रमाणेन शतसंवत्सरायुष्ट्वात्तत्संततिपतितस्यापि सामान्येन शतायुष्ट्वं, धर्माधर्माभ्यां तूत्क र्षापकर्षौ भवतः। शतनाडीषु संचाराद्दशेन्द्रियेषु शतसंख्या।

प्रधानकर्मण एव प्रयाजाज्यभागाद्यङ्गानामप्याग्नेयत्वं विधत्ते - यद्वा इति। यजमानस्य समृद्ध्यभावादग्नेः समृद्ध्यभावोऽनुमेयः।

समिधो अग्न आज्यस्य वियन्त्वित्यादिषु चतुर्षु प्रयाजमन्त्रेषु संबुद्ध्यन्तादग्नि-शब्दात्पूर्वं संबुद्धिसप्तमीतृतीयाद्वितीयाविभक्त्यन्तानामग्निशब्दानां क्रमेण प्रयोगं विधत्ते - सं वा इति। अग्निमुद्वासयितुरेतस्य वाग्गृहेऽवस्थितानां स्त्रीशूद्रादीनां वाग्भिः संसृज्यते तत्समा भवति। तां वाचमनु यजमानोऽपीतरवैलक्षण्यरूपस्योत्कर्ष-स्याभावात्पराभूतो भवति। एताभिस्तु विभक्तिभिः पुनराधेस्याग्न्याधेयाद्वैलक्ष-ण्ये सति यजमानस्य विलक्षणत्वेन वाग्विधृतौ सत्यां पराभवः शाम्यति। विभक्तयः सूत्रे दर्शिताः – “अग्नेऽग्नेऽग्नावग्नेऽग्निनाऽग्नेऽग्निमग्न इति चतुर्षु प्रयाजेषु चतस्रो विभक्तीर्दधाति” इति। तथा चैवं मन्त्रपाठः संपद्यते – “समिधोऽग्नेऽग्न आज्यस्य वियन्तु। तनूनपादग्नावग्न आज्यस्य वेतु। इडो अग्निनाऽग्न आज्यस्य वियन्तु। बर्हिरग्निमग्न आज्यस्य वेतु” इति।

यथोक्तविभाक्तिविधिमनूद्य प्रशंसति - विभक्तिमिति। तत्पुनराधेयं ब्रह्मैवाग्न्याधेयात्परिवृढमेव करोति।

अत्र मन्त्राणां नीचध्वनिं विधत्ते - उपाश्विति। यथा लोके श्रेष्ठं वसु लब्धवान्पुरुषो गोपायति तद्वत्।

स्विष्टकृत्युच्चध्वनिं विधत्ते - अग्निं प्रतीति। निराह निःशेषध्वनिं कुर्यात्। यथा लोके श्रेष्ठं वसु लब्धवान्द्रव्यपतिः प्रसिद्धिं गन्तुमिच्छति तद्वत्।

पूर्वं विहितानां विभक्तीनां प्रयाजमन्त्रसबन्धं विधत्ते - विभक्तिमिति। विभक्तिवचनप्रकारो दर्शितः। तदुक्तिसहितेन प्रयाजमन्त्रेण वषट्कारपूर्वं यजेत। तथा सति पूर्वोक्तवाक्संसर्गकृतपराभवरहित आयतनात्स्वगृहान्नैति न निर्गच्छति, किंतु स्वगृहे प्रतितिष्ठति।

पुनरूर्जा निवर्तस्व, सह रय्या निवर्तस्वेत्याभ्यां मन्त्राभ्यामाग्नेयपुरोडाश-स्याधस्तादुपरिष्टाच्चाऽऽहुतिद्वयं विधत्ते - यजमानो वा इति। अत्र चोदकप्राप्तान्संभारानाधानमन्त्रांश्च वाजसनेयादि-शाखान्तरमनुसृत्य पूर्वपक्षरूपेण निराचष्टे कृतजुरिति यजुःशब्देन सर्पराज्ञीप्रभृतय आधानमन्त्रा विवक्षिताः। संभारशब्देन सिकतोषादिसप्तमृद्विशेषाः सप्त विवक्षिताः। प्रथमाधाने यजुषामुच्चारितत्वात्संभाराणां च संपादितत्वादस्यापि कर्मविशेषस्याऽऽधानादत्यन्तभेदाभावेन यजुःसंभारयोः सिद्धत्वात्तदुभयं पुनर्न कर्तव्यमिति पूर्वः पक्षः। प्रथमाधाने वाजसनेयिमतं सूत्रकार उदाजहार - “सप्त पार्थिवान्संभारानाहरत्येवं वानस्पत्यान्पञ्च पञ्च वा भूयसो वा पार्थिवान्संभारान्संभरsदिति वाजसनेयकम्”इति।

सिद्धान्तमाह

अथो खल्विति। अथोशब्दः पूर्वपक्षव्यावृत्त्यार्थः। अत्र सूत्रकारः पक्षद्बय-मुदाजहार – “कृताकृताः संभारा यजूषि च भवन्त्यपि वा पञ्च पार्थिवान्सं-भारानाहरत्येवं वानस्पत्यान्” इति।

दक्षिणां विधत्ते - पुनर्निष्कृत इति। भग्नः संन्दृढीकृतः पुनर्निष्कृतः। छिन्नं सत्सूचीतन्तुभ्यां स्यूतं पुनरुत्स्यूतम्। दौर्बल्येन भारं वोढमशक्ततया परित्यक्तः सन्कथंचित्पोषणेन शक्तीकृतः पुनरुत्सृष्टः।

तूष्णीमेव होतव्यमिति प्रथमाधानस्यामन्त्रत्वेन यदग्निहोत्रं विहितं तदत्र चोदकप्राप्तं तदपोद्य समन्त्रकं विधत्ते - सप्त ते इति। मन्त्रस्तूपरिष्टाद्व्याख्यास्यते। अत्र(स्य) पुनराधेयदेवस्याग्ने-र्यद्यदङ्गं यस्मिन्यस्मिन्प्रदेशे न्यक्तं निमग्नं विस्मृतं तत एव प्रदेशात्साङ्गमेन-मग्निं संपादयति -

अनुनिर्वप्यं हविर्विधत्ते - वीरहेति। ऋणिनमिव यातयति पीडयतीत्यृणयात्। तौ वध्याग्निपोडयितृ-वरुणौ तोषयति।

अथ मीमांसा।

दशमाध्यायस्य तृतीयपादे चिन्तितम् -

“एकादिना समुच्चेयं मुनर्निष्कृत इत्यदः।

बाधकं वा समुच्चेयमुभयीरित्युदीरणात्॥

आधानदक्षिणोपेतमुभयीरित्यनूद्यते।

ददातीत्यविधायित्वात्कार्यैक्याद्बाधकं भवेत्” इति॥

आधाने विकल्पिता गोद्रव्यदक्षिणा द्रव्यान्तरदक्षिणाश्च बहवः श्रूयन्ते - “एका देया षड्देया द्वादश देयाः” इत्यादिना। पुनराधेये तु पुनर्निष्कृतो रथ इत्यादि श्रुतम्। भग्नः सन्पुनः समाहितः पुनर्निष्कृतः। सेयं पुनर्निष्कृतादिद-क्षिणा किमतिदिष्टयैकादिदक्षिणया समुच्चीयत उत तां बाधत इति संशयः। उभयीर्दक्षिणा ददात्याग्न्याधेयिकीः पौनराधेयिकीश्चेत्युक्तत्वात्समुच्चय इति पूर्वः पक्षः। ददातीति वर्तमाननिर्देशस्य विधित्वाभावादाधानकाले पूर्वं दत्तं पुनराधानकाले दीयमानं च मिलित्वोभयीरिनूद्यते। दक्षिणात्वरूपस्य कार्यस्यैकत्वादुपदिष्टमतिदिष्टस्य बाधकम्॥

इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीय-तैत्तिरीयसंहिताभाष्ये प्रथमकाण्डे पञ्चमप्रपाठके द्वितीयोऽनुवाकः॥२॥
भट्टभास्करभाष्यम् (Bhatta Bhaskara Commentary)
1 परा वा इत्यादि ॥ परावापो विनाशः । पञ्चकपाल इति पुनर्विधानं प्रयोजनान्तरार्थम् । पाङ्क्तो यज्ञ इति, धानादिपञ्चकाधीनसिद्धित्वात् । उत्सादित्वादणपवादोऽञ् उक्तः । पाङ्क्ता इति पशुसाधनत्वात्पाङ्क्ताः । यज्ञं पशूंश्च अवरुन्धे प्राप्नोति ॥
2 वीरहेत्यादि याज्यानुवाक्या विशेषविधिः ॥ देवानां मध्ये वीरस्याग्नेर्हन्ता, का कथान्येषां देवानामिति? तस्मात् सर्वेप्यस्माद्बिभ्यतीति । ऋतायवः ऋतं सत्यं यज्ञं वा आत्मन इच्छन्तः । क्यचि 'न छन्दस्यपुत्रस्य' इतीत्वाभावः । 'क्याच्छन्दसि' इत्युप्रत्ययः । ऋतायुत्वादेतस्योद्वासिताग्नेरन्नं नाक्षन् नादन्, अभोज्यान्नत्वादेतस्य । अत्तेर्लुङि 'लुङ्सनोर्घसॢ' इति घस्लादेशः, 'मन्त्रे घस' इत्यादिना च्लेर्लुक्, 'घसिभसोः' इत्युपधालोपः, 'शासिवसिघसीनां च' इति षत्वम् । पङ्क्त्य इति । 'अग्ने तमद्याश्वं न स्तोमैः' इति चतस्रोऽक्षरपङ्क्तयः । तत्र द्वे अग्न्याधेयस्य याज्यानुवाक्ये द्वे स्विष्टकृतः । याज्यानुवाक्ये च याज्यानुवाक्ये चेति कृतैकशेषयोर्द्वन्द्वः । छान्दसमुत्तरपदप्रकृतिस्वरत्वम् । पाङ्क्तः पुरुष इति । 'पाङ्क्तं वा इदं सर्वम्' इति । देवानिति । देवान् तेषां च वीरं निरवदाय उद्वासनलक्षणभयस्थानान्निष्कृष्य अग्निं पुनराधत्ते ॥
3 शताक्षरा इति ॥ उक्ता अक्षरपङ्क्तयश्चतस्र इति । तत्रैकैका पञ्चविंशत्यक्षरा । सर्वास्सम्भूय शताक्षरा इति । शतायुश्शतवर्षः शतेन्द्रियश्शतवीर्यः आयुषीन्द्रिये च प्रतिष्ठितो भवति ॥
4 यद्वा इत्यादि ॥ येन नर्घ्यते ऋद्धिहेतुर्न भवति तज्ज्यायः प्रशस्यतरं अग्न्याधेयभागात् केवलाग्नेयत्वात् पुनराधेयभागं तन्निकामयमानः तन्निभृतं आत्मनस्सम्पादयितुमिच्छन् ऋद्धिहेतुतामग्निर्न प्रतिपद्यत इति । आहितशब्दे 'गतिरनन्तरः' इति स्वरः । ततः केवलाग्नेयकरणेन ऋद्धिहेतुरयमिति । तस्मात् सर्वमाग्नेयं कर्तव्यमिति विधिः ॥
5 अथ विभक्तिविधानार्थमाह - सं वा इति ॥ अस्य वाग्गृहे संसृज्यते गृहवासिनां वाग्योगे न वैलक्षण्यं भजते । ततश्चाबहुमतवाक्त्वात् पराभवितोः पराभवितुमीश्वरस्स्यात् । ततश्चास्य गृहान् भावयितुमेव वरमिति । वक्ष्यति च - 'आयतनादेव नैति' इति । मूकत्वं वा वाक्संसर्गः । 'ईश्वरे तोसुन्कसुनौ' । लक्षणेनोः कर्मप्रवचनीयत्वम् । तस्मात् विभक्तयो भवन्तीति विधिः । विभज्यते व्यावर्त्यतेस्य वाग्भिरिति विभक्तयः 'अग्नाग्ने अग्नावग्ने अग्निनाग्ने अग्निमग्ने' इति चतस्रः । एताश्च चतुर्षु प्रयाजेषु देयाः नोत्तमे । 'तादौ च' इति गतेः प्रकृतिस्वरत्वम् । विधृत्यै विलक्षणावस्थानाय प्रयाजानामग्न्याधेयाद्वैलक्षण्यापादने वाचस्संसर्गदोषः परिह्रियत इति ॥
6 विभक्तिमिति ॥ विभक्तिं वैलक्षण्यविभक्तिप्रदानमस्येति[मस्य] कर्मणो यत्करोति तेन हेतुना पुनराधेयं ब्रह्म परिबृढं अग्न्याधेयात् अकः करोति । छान्दसो लुङ्, 'मन्त्रे घस' इति च्लेर्लुक् । मन्त्र इति वेदमात्रस्य ग्रहणम् । यद्वा - लङि व्यत्ययेन शपो लुक् ॥
7 उपांश्विति ॥ सर्वो याग उपांशुः कर्तव्यः ओत्तमादनूयाजात् । 'उपाद्व्यजजिनम्' इत्युत्तरपदान्तोदात्तत्वम् । यथेति । यथा वामं वननीयं वरिष्ठं धनं मुषितं विविदानः लभमानः लब्धुं यतमानः तत् गूहति संवृणोति तादृक्तदुपांशुकरणम् । छान्दसस्य लिटः कानजादेशः ॥
8 अग्निं प्रतीति ॥ स्विष्टकृतमग्निं प्रति निराह निर्गतं ब्रूयात् उच्चैरिति यावत् । लक्षणादिना प्रतेः कर्मप्रवचनीयत्वम् । यथेति । यथा वामं वसु विविदानः अन्विष्य लब्धवान् तत्प्रकाशं विवृतं जिगमिषति ख्यापयितुमिच्छति । अहो इदं दृष्टं पश्यतेति तादृक् तदुच्चैर्वचनम् । परोक्षे लिटः कानजादेशः । विभक्तिमिति । ये यजामह इत्यस्यानन्तरं विभक्तिमुक्त्वा ततः प्रयाजमन्त्रेण वषट्करोति हविर्ददाति । अनेन कर्मणा स्वस्मादायतनान्नैति न गच्छति । अनुष्ठेयवचनः स्व आयतने निवसति ॥
9 यजमानो वा इत्यादि ॥ प्राधान्यात्ताद्धर्म्येण ताच्छब्द्यम् । पशव इति । तद्धेत्वात्ताच्छब्द्यम् । स्वयं पशव एव पुनरूर्जा निवर्तस्व सह रय्या निवर्तस्वेत्येते आहुती । यदभित इति । अभितः पुरस्तादुपरिष्टाच्च पुरोडाशहोमस्य । 'अभितःपरितः' इति द्वितीया । गतमन्यत् ॥
10 कृतयजुरिति ॥ कृतस्तम्बयजुरग्न्याधेयेन सम्भृताश्च सम्भाराः । तस्मादत्र न सम्भृत्याः न सम्भरणीयास्सम्भाराः न यजुः कर्तव्यमित्याहुरेके आचार्याः । 'बृञोसंज्ञायाम्' इति क्यप् ॥
11 एतद्दूष्यति - अथो खलु वयं ब्रूमः सम्भृत्या एवेति ॥ गतम् ।
12 पुनर्निष्कृत इत्यादि ॥ पुनर्निष्कृतः पुनस्संस्कृतः । पुनरुत्स्यूतं पुनस्संस्कृतमेव संहितच्छिद्रम् । षिवेर्निष्ठायां 'च्छ्वोश्शूडनुनासिके च' इत्यूठ् । पुनरुत्सृष्टः अवशीर्णगवः । एते पात्रे सम्मितादयो द्रष्टव्याः, उपपदसमासो वा । कृदुत्तरपदप्रकृतिस्वरत्वम् । पुनश्चनसौ छन्दसि' इति गतित्वात् गतिसमासो वा । प्रवृद्धादेराकृतिगणत्वादुत्तरपदान्तोदात्तत्वम् ॥
13 सप्त ते अग्ने इति ॥ न्यक्तिः [न्यक्तं न्यक्तिः] नियता अक्तिरनुगतिः ॥
14 वीरहेत्यादि ॥ पुनर्वचनं हविरन्तरविधानार्थम् । वरुण एव देवानां ये ऋणयात् ऋणेन यातयिता ऋणिनमिव तममुञ्चन् पीडयति । ण्यन्तात्क्विप् । ऋणमिच्छतीति क्यचि वा पूर्ववदीत्वाभावः, शतरि छान्दसो नुमभावः पररूपाभावश्च ॥

पञ्चमे द्वितीयोनुवाकः ॥

पञ्चशत् 2 #
TS 1.5.2.2 TS 1.5.2.2
ध॑त्ते श॒ताक्ष॑रा भवन्ति श॒तायुः॒ पुरु॑षः श॒तेन्द्रि॑य॒ आयु॑ष्ये॒वेन्द्रि॒ये प्रति॑ तिष्ठति॒ यद्वा अ॒ग्निराहि॑तो॒ नर्द्ध्यते॒ ज्यायो॑ भाग॒धेयं॑ निका॒मय॑मानो॒ यदा᳚ग्ने॒यꣳ सर्वं॒ भव॑ति॒ सैवास्यर्द्धिः॒ सं ॅवा ए॒तस्य॑ गृ॒हे वाक् सृ॑ज्यते॒ यो᳚ऽग्निमु॑द्वा॒सय॑ते॒ स वाचꣳ॒॒ सꣳसृ॑ष्टां॒ ॅयज॑मान ईश्व॒रोऽनु॒ परा॑भवितो॒र् विभ॑क्तयो भवन्ति वा॒चो विधृ॑त्यै॒ यज॑मान॒स्याप॑राभावाय॒ - [ ]
पदपाठः (Word-by-word)
ध॒त्ते॒ । श॒ताक्ष॑रा॒ इति॑ श॒त - अ॒क्ष॒राः॒ । भ॒व॒न्ति॒ । श॒तायु॒रिति॑ श॒त - आ॒युः॒ । पुरु॑षः । श॒तेन्द्रि॑य॒ इति॑ श॒त - इ॒न्द्रि॒यः॒ । आयु॑षि । ए॒व । इ॒न्द्रि॒ये । प्रतीति॑ । ति॒ष्ठ॒ति॒ । यत् । वै । अ॒ग्निः । आहि॑त॒ इत्या - हि॒तः॒ । न । ऋ॒द्ध्यते᳚ । ज्यायः॑ । भा॒ग॒धेय॒मिति॑ भाग - धेय᳚म् । नि॒का॒मय॑मान॒ इति॑ नि - का॒मय॑मानः । यत् । आ॒ग्ने॒यम् । सर्व᳚म् । भव॑ति । सा । ए॒व । अ॒स्य॒ । ऋद्धिः॑ । समिति॑ । वै । ए॒तस्य॑ । गृ॒हे । वाक् । सृ॒ज्य॒ते॒ । यः । अ॒ग्निम् । उ॒द्वा॒सय॑त॒ इत्यु॑त् - वा॒सय॑ते । सः । वाच᳚म् । सꣳसृ॑ष्टा॒मिति॒ सं - सृ॒ष्टा॒म् । यज॑मानः । ई॒श्व॒रः । अन्विति॑ । परा॑भवितो॒रिति॒ परा᳚ - भ॒वि॒तोः॒ । विभ॑क्तय॒ इति॒ वि - भ॒क्त॒यः॒ । भ॒व॒न्ति॒ । वा॒चः । विधृ॑त्या॒ इति॒ वि - धृ॒त्यै॒ । यज॑मानस्य । अप॑राभावा॒येत्यप॑रा - भा॒वा॒य॒ ।
पदसंख्या: 50
पञ्चशत् 3 #
TS 1.5.2.3 TS 1.5.2.3
विभ॑क्तिं करोति॒ ब्रह्मै॒व तद॑करुपाꣳ॒॒शु य॑जति॒ यथा॑ वा॒मं ॅवसु॑ विविदा॒नो गूह॑ति ता॒दृगे॒व तद॒ग्निं प्रति॑ स्विष्ट॒कृतं॒ निरा॑ह॒ यथा॑ वा॒मं ॅवसु॑ विविदा॒नः प्र॑का॒शं जिग॑मिषति ता॒दृगे॒व तद्विभ॑क्तिमु॒क्त्वा प्र॑या॒जेन॒ वष॑ट्करोत्या॒यत॑नादे॒व नैति॒ यज॑मानो॒ वै पु॑रो॒डाशः॑ प॒शव॑ ए॒ते आहु॑ती॒ यद॒भितः॑ पुरो॒डाश॑मे॒ते आहु॑ती - [ ]
पदपाठः (Word-by-word)
विभ॑क्ति॒मिति॒ वि - भ॒क्ति॒म् । क॒रो॒ति॒ । ब्रह्म॑ । ए॒व । तत् । अ॒कः॒ । उ॒पाꣳ॒॒श्वित्यु॑प-अꣳ॒॒शु । य॒ज॒ति॒ । यथा᳚ । वा॒मम् । वसु॑ । वि॒वि॒दा॒नः । गूह॑ति । ता॒दृक् । ए॒व । तत् । अ॒ग्निम् । प्रतीति॑ । स्वि॒ष्ट॒कृत॒मिति॑ स्विष्ट- कृत᳚म् । निरिति॑ । आ॒ह॒ । यथा᳚ । वा॒मम् । वसु॑ । वि॒वि॒दा॒नः । प्र॒का॒शमिति॑ प्र - का॒शम् । जिग॑मिषति । ता॒दृक् । ए॒व । तत् । विभ॑क्ति॒मिति॒ वि - भ॒क्ति॒म् । उ॒क्त्वा । प्र॒या॒जेनेति॑ प्र - या॒जेन॑ । वष॑ट् । क॒रो॒ति॒ । आ॒यत॑ना॒दित्या᳚ - यत॑नात् । ए॒व । न । ए॒ति॒ । यज॑मानः । वै । पु॒रो॒डाशः॑ । प॒शवः॑ । ए॒ते इति॑ । आहु॑ती॒ इत्या - हु॒ती॒ । यत् । अ॒भितः॑ । पु॒रो॒डाश᳚म् । ए॒ते इति॑ । आहु॑ती॒ इत्या - हु॒ती॒ ।
पदसंख्या: 50
पञ्चशत् 4 #
TS 1.5.2.4 TS 1.5.2.4
जु॒होति॒ यज॑मानमे॒वोभ॒यतः॑ प॒शुभिः॒ परि॑ गृह्णाति कृ॒तय॑जुः॒ संभृ॑तसंभार॒ इत्या॑हु॒र्न सं॒भृत्याः᳚ संभा॒रा न यजुः॑ कर्त॒व्य॑मित्यथो॒ खलु॑ सं॒भृत्या॑ ए॒व सं॑भा॒राः क॑र्त॒व्यं॑ ॅयजु॑र् य॒ज्ञ्स्य॒ समृ॑द्ध्यै पुनर्निष्कृ॒तो रथो॒ दक्षि॑णा पुनरुथ्स्यू॒तं ॅवासः॑ पुनरुथ्सृ॒ष्टो॑ऽन॒ड्वान् पु॑नरा॒धेय॑स्य॒ समृ॑द्ध्यै स॒प्त ते॑ अग्ने स॒मिधः॑ स॒प्त जि॒ह्वा इत्य॑ग्निहो॒त्रं जु॑होति॒ यत्र॑यत्रै॒वास्य॒ न्य॑क्तं॒ तत॑ - [ ]
पदपाठः (Word-by-word)
जु॒होति॑ । यज॑मानम् । ए॒व । उ॒भ॒यतः॑ । प॒शुभि॒रिति॑ प॒शु - भिः॒ । परीति॑ । गृ॒ह्णा॒ति॒ । कृ॒तय॑जु॒रिति॑ कृ॒त - य॒जुः॒ । संभृ॑तसंभार॒ इति॒ संभृ॑त - स॒भां॒रः॒ । इति॑ । आ॒हुः॒ । न । स॒भृंत्या॒ इति॑ सं - भृत्याः᳚ । सं॒भा॒रा इति॑ सं-भा॒राः । न । यजुः॑ । क॒र्त॒व्य᳚म् । इति॑ । अथा॒ इति॑ । खलु॑ । स॒भृंत्या॒ इति॑ सं - भृत्याः᳚ । ए॒व । स॒भां॒रा इति॑ सं-भा॒राः । क॒र्त॒व्य᳚म् । यजुः॑ । य॒ज्ञ्स्य॑ । समृ॑द्ध्या॒ इति॒ सं - ऋ॒द्ध्यै॒ । पु॒न॒र्नि॒ष्कृ॒त इति ॑पुनः - नि॒ष्कृ॒तः । रथः॑ । दक्षि॑णा । पु॒न॒रु॒थ्स्यू॒तमिति॑ पुनः - उ॒थ्स्यू॒तम् । वासः॑ । पु॒न॒रु॒थ्सृ॒ष्ट इति॑ पुनः - उ॒थ्सृ॒ष्टः । अ॒न॒ड्वान् । पु॒न॒रा॒धेय॒स्येति॑ पुनः - आ॒धेय॑स्य । समृ॑द्ध्या॒ इति॒ सं - ऋ॒द्ध्यै॒ । स॒प्त । ते॒ । अ॒ग्ने॒ । स॒मिध॒ इति॑ सं - इधः॑ । स॒प्त । जि॒ह्वाः । इति॑ । अ॒ग्नि॒हो॒त्रमित्य॑ग्नि - हो॒त्रम् । जु॒हो॒ति॒ । यत्र॑य॒त्रेति॒ यत्र॑-य॒त्र॒ । ए॒व । अ॒स्य॒ । न्य॑क्त॒मिति॒ नि - अ॒क्त॒म् । ततः॑ ।
पदसंख्या: 50
पञ्चशत् 5 #
TS 1.5.2.5 TS 1.5.2.5
ए॒वैन॒मव॑ रुन्धे वीर॒हा वा ए॒ष दे॒वानां॒ ॅयो᳚ऽग्निमु॑द्वा॒सय॑ते॒ तस्य॒ वरु॑ण ए॒वर्ण॒यादा᳚ग्निवारु॒ण-मेका॑दशकपाल॒मनु॒ निर्व॑पे॒द्यं चै॒व हन्ति॒ यश्चा᳚स्यर्ण॒यात्तौ भा॑ग॒धेये॑न प्रीणाति॒ नाऽऽर्ति॒मार्च्छ॑ति॒ यज॑मानः ॥
पदपाठः (Word-by-word)
ए॒व । ए॒न॒म् । अवेति॑ । रु॒न्धे॒ । वी॒र॒हेति॑ वीर - हा । वै । ए॒षः । दे॒वाना᳚म् । यः । अ॒ग्निम् । उ॒द्वा॒सय॑त॒ इत्यु॑त् - वा॒सय॑ते । तस्य॑ । वरु॑णः । ए॒व । ऋ॒ण॒यादित्यृ॑ण - यात् । आ॒ग्नि॒वा॒रु॒णमित्या᳚ग्नि - वा॒रु॒णम् । एका॑दशकपाल॒मित्येका॑दश - क॒पा॒ल॒म् । अनु॑ । निरिति॑ । व॒पे॒त् । यम् । च॒ । ए॒व । हन्ति॑ । यः । च॒ । अ॒स्य॒ । ऋ॒ण॒यादित्यृ॑ण - यात् । तौ । भा॒ग॒धेये॒नेति॑ भाग - धेये॑न । प्री॒णा॒ति॒ । न । आर्ति᳚म् । एति॑ । ऋ॒च्छ॒ति॒ । यज॑मानः ॥
पदसंख्या: 36