अनुवाकः 6 TS 1.5.6

(A6)

(भू॒या॒स्त॒-स्व॒स्तयेऽग्ने॑-पुष्यासं-धृ॒षद्व॑र्ण॒-मेका॒न्नत्रिꣳ॒॒शच्च॑ )

अनुवाकः 6 - Complete Audio

TS 1.5.6 - स्वरानुगामी

0:00 0:00
PS1.1 सं प॑श्यामि प्र॒जा अ॒ह-मिड॑प्रजसो मान॒वीः
PS1.2 सर्वा॑ भवन्तु नो गृ॒हे
PS1.3 अंभः॒ स्थांभो॑ वो भक्षीय॒
PS1.4 महः॑ स्थ॒ महो॑ वो
PS1.5 भक्षीय॒ सहः॑ स्थ॒ सहो॑
PS1.6 वो भक्षी॒योर्जः॒ स्थोर्जं॑ ॅवो
PS1.7 भक्षीय॒ रेव॑ती॒ रम॑द्ध्व-म॒स्मिन् ॅलो॒के᳚ऽस्मिन्
PS1.8 गो॒ष्ठे᳚ऽस्मिन् क्षये॒ऽस्मिन् योना॑वि॒हैव स्ते॒तो
PS1.9 माऽप॑ गात ब॒ह्वीर्मे॑ भूयास्त
PS1.10 - [ ]
PS2.1 सꣳहि॒ताऽसि॑ विश्वरू॒पीरा मो॒र्जा वि॒शा
PS2.2 ऽऽ*गौ॑प॒त्येना ऽऽ*रा॒यस्पोषे॑ण सहस्रपो॒षं ॅवः॑
PS2.3 पुष्यासं॒ मयि॑ वो॒ रायः॑
PS2.4 श्रयन्तां
PS2.5 उप॑ त्वाऽग्ने दि॒वेदि॑वे॒ दोषा॑वस्तर्द्धि॒या व॒यं
PS2.6 नमो॒ भर॑न्त॒ एम॑सि
PS2.7 राज॑न्तमद्ध्व॒राणां᳚ गो॒पामृ॒तस्य॒ दीदि॑विं
PS2.8 वर्द्ध॑मानꣳ॒॒ स्वे दमे᳚
PS2.9 स नः॑ पि॒तेव॑ सू॒नवेऽग्ने॑
PS2.10 सूपाय॒नो भ॑व
PS2.11 सच॑स्वा नः स्व॒स्तये᳚
PS2.12 अग्ने॒- [ ]
PS3.1 त्वं नो॒ अन्त॑मः
PS3.2 उ॒त त्रा॒ता शि॒वो भ॑व वरू॒त्थ्यः॑
PS3.3 तं त्वा॑ शोचिष्ठ दीदिवः
PS3.4 सु॒म्नाय॑ नू॒नमी॑महे॒ सखि॑भ्यः
PS3.5 वसु॑र॒ग्निर् वसु॑श्रवाः
PS3.6 अच्छा॑ नक्षि द्यु॒मत्त॑मो र॒यिं दाः᳚
PS3.7 ऊ॒र्जा वः॑ पश्याम्यू॒र्जा मा॑
PS3.8 पश्यत रा॒यस्पोषे॑ण वः पश्यामि
PS3.9 रा॒यस्पोषे॑ण मा पश्य॒तेडाः᳚ स्थ
PS3.10 मधु॒कृतः॑ स्यो॒ना मा ऽऽवि॑श॒तेरा॒
PS3.11 मदः॑
PS3.12 स॒ह॒स्र॒पो॒षं ॅवः॑ पुष्यासं॒ -
PS3.13 [ ]
PS4.1 मयि॑ वो॒ रायः॑ श्रयन्तां
PS4.2 तथ्स॑वि॒तुर् वरे᳚ण्यं॒ भर्गो॑ दे॒वस्य॑ धीमहि
PS4.3 धियो॒ योनः॑ प्रचो॒दया᳚त्
PS4.4 सो॒मानꣳ॒॒ स्वर॑णं कृणु॒हि ब्र॑ह्मणस्पते
PS4.5 क॒क्षीव॑न्तं॒ ॅय औ॑शि॒जं
PS4.6 क॒दा च॒न स्त॒रीर॑सि॒ नेन्द्र॑
PS4.7 सश्चसि दा॒शुषे᳚
PS4.8 उपो॒पेन्नु म॑घव॒न् भुय॒ इन्नु
PS4.9 ते॒ दानं॑ दे॒वस्य॑ पृच्यते
PS4.10 परि॑ त्वाऽग्ने॒ पुरं॑ ॅव॒यं
PS4.11 ॅविप्रꣳ॑ सहस्य धीमहि
PS4.12 धृ॒षद्व॑र्णं ( ) दि॒वेदि॑वे
PS4.13 भे॒त्तारं॑ भङ्गु॒राव॑तः
PS4.14 अग्ने॑ गृहपते सुगृहप॒तिर॒हं त्वया॑
PS4.15 गृ॒हप॑तिना भूयासꣳ सुगृहप॒तिर्मया॒ त्वं
PS4.16 गृ॒हप॑तिना भूयाः श॒तꣳ हिमा॒स्तामा॒शिष॒मा
PS4.17 शा॑से॒ तन्त॑वे॒ ज्योति॑ष्मतीं॒ तामा॒शिष॒मा
PS4.18 शा॑से॒ऽमुष्मै॒ ज्योति॑ष्मतीं

Report Timing Issue

Report timing issue for this location?

पञ्चशत् 1 #
TS 1.5.6.1 TS 1.5.6.1
सं प॑श्यामि प्र॒जा अ॒ह-मिड॑प्रजसो मान॒वीः । सर्वा॑ भवन्तु नो गृ॒हे । अंभः॒ स्थांभो॑ वो भक्षीय॒ महः॑ स्थ॒ महो॑ वो भक्षीय॒ सहः॑ स्थ॒ सहो॑ वो भक्षी॒योर्जः॒ स्थोर्जं॑ ॅवो भक्षीय॒ रेव॑ती॒ रम॑द्ध्व-म॒स्मिन् ॅलो॒के᳚ऽस्मिन् गो॒ष्ठे᳚ऽस्मिन् क्षये॒ऽस्मिन् योना॑वि॒हैव स्ते॒तो माऽप॑ गात ब॒ह्वीर्मे॑ भूयास्त - [ ]
पदपाठः (Word-by-word)
समिति॑ । प॒श्या॒मि॒ । प्र॒जा इति॑ प्र - जाः । अ॒हम् । इड॑प्रजस॒ इतीड॑ - प्र॒ज॒सः॒ । मा॒न॒वीः ॥ सर्वाः᳚ । भ॒व॒न्तु॒ । नः॒ । गृ॒हे ॥ अभंः॑ । स्थ॒ । अम्भः॑ । वः॒ । भ॒क्षी॒य॒ । महः॑ । स्थ॒ । महः॑ । वः॒ । भ॒क्षी॒य॒ । सहः॑ । स्थ॒ । सहः॑ । वः॒ । भ॒क्षी॒य॒ । ऊर्जः॑ । स्थ॒ । ऊर्ज᳚म् । वः॒ । भ॒क्षी॒य॒ । रेव॑तीः । रम॑द्ध्वम् । अ॒स्मिन्न् । लो॒के । अ॒स्मिन्न् । गो॒ष्ठ इति॑ गो-स्थे । अ॒स्मिन्न् । क्षये᳚ । अ॒स्मिन्न् । योनौ᳚ । इ॒ह । ए॒व । स्त॒ । इ॒तः । मा । अपेति॑ । गा॒त॒ । ब॒ह्वीः । मे॒ । भू॒या॒स्त॒ ।
पदसंख्या: 50
सायणभाष्यम् (Sayana Commentary)

(अथ प्रथमकाण्डे पञ्चमप्रपाठके षष्ठोऽनुवाकः)।

षष्ठेऽनुवाके गार्हपत्यस्य पुनरप्याहवनीयस्य चोपस्थानं सपरिकरमभिधीयते।

कल्पः - ‘सं पश्यामि प्रजा अहमिति गृहान्प्रेक्षते’ इति।

पाठस्तु - सं पश्यामीति। अहं मनुष्यप्रजा इडप्रजसश्च सम्यक्पश्यामि। इडा धेनु-स्तस्याः प्रजा अपत्यानीडप्रजसो मनुष्यरूपश्च सर्वाः प्रजा अस्माकं गृहे तिष्ठन्तु।

कल्पः - “अम्भः स्थाम्भो वो भक्षीयेति गोष्ठमुपतिष्ठते” इति।

पाठस्तु - अम्भः स्थेति। अम्भः पीतोदकसारं महः पूज्यं सर्वैरादरणीयं सहो बलकरमूर्जं स्वादुतमरसरूपं यत्क्षीरादि तत्कारणत्वेन हे पशवस्तद्रूपाः स्थ ततो युष्मदीयं तत्क्षीरादिकमस्माकं भक्ष्यमस्तु।

कल्पः - “रेवती रमध्वमित्यन्तराऽग्नी तिष्ठञ्जपति” इति।

पाठस्तु - रेवतीरिति। हे रेवतीः पशवोऽस्मिन्भूलोके गोष्ठे व्रजविशेषे क्षये गृहविशेषे योनौ स्थानविशेषे रमध्वं क्रीडध्वम्। इहैव योनौ स्त सर्वदा तिष्ठत। इतः स्थानान्माऽपगात माऽपगच्छत। मे मदर्थपत्यपरम्परया बहवो भूयास।

कल्पः - “स हिताऽसि विश्वरूपीरिति वत्समभिमृशति” इति।

पाठस्तु - स हिताऽसीति। हे वत्स त्वं संहिताऽसि मात्रा संयुक्तोऽसि। विश्वरूपीरा-दरेण स्तनं पातुं वामतो दक्षिणतश्च पुनः पुनर्धावन्बहुरूपवदवभाससे। तादृक्त्वमूर्जा क्षीरादिरसनिमित्तेन मामाविश मत्समीपमागच्छ गौपत्येन मदीयं बहुपशुस्वामित्वं निमित्तीकृत्य मामाविश रायस्पोषेण धनपुष्टिनिमित्तेनापि मामाविश। सहस्रसंख्यया पुष्टिर्यथा भवति तथा युष्मान्पुष्यासम्। मयि युष्मदीयानि क्षीरादिधनान्याश्रयन्ताम्।

कल्पः - “उप त्वाऽऽग्ने दिवेदिव इति तिसृभिर्गायत्रीभिर्गार्हपत्यमुपतिष्ठतेऽग्ने त्वं अन्तम इति चतसृभिश्च द्विपदीभिः स नो बोधि श्रुधी हवमुरुष्याणो अघायतः समस्मादित्येषा चतुर्थी भवति” इति।

तत्र प्रथमा गायत्री - उप त्वेति। हेऽग्ने प्रतिदिनं वयं त्वामुपेमसि उपगच्छामः। किं कुर्वन्तः दोषावस्तः सायं प्रातश्च धिया नमो भरन्तो नमस्कारं संपादयन्तः।

अथ द्वितीया - राजन्तमिति। कीदृशं त्वाम्। अध्वराणां राजन्तं यज्ञराजं, गोपां गवां पालकम्, ऋतस्य दीदिविं सत्येन द्योतमानं, स्वे दमे स्वकीयेऽग्निहोत्रगृहे हविर्भिर्वर्धमानम्।

अथ तृतीया - स न इति। हेऽग्ने स तादृशस्त्वं नोऽस्मादर्थं सूपायनः प्राप्तुं शक्यो भव। यथा पुत्रार्थं पिता सूपायनस्तद्वदस्माकं स्वस्तये क्षेमाय सचस्व समवेतो भव।

अथ प्रथमा द्विपदा – अग्ने त्वमिति। हेऽग्ने त्वं नोऽस्माकमन्तमोऽन्तिमोऽन्तिकतमो भव। उतापि च त्राता शिवश्च सन्वरूथ्यो वरूथे गृहे नित्यं संनिहितो भव।

अथ द्वितीया - तं त्वेति। हे वह्ने शोचिष्ठ दीदिवः शुद्धतम दीप्यमान सखिभ्यः सखीनाम-स्माकं सुम्नाय सुखाय नूनं तं पूर्वाक्तगुणयुक्तं त्वामीमहे प्राप्नुमः।

अथ तृतीया - वसुरग्निरिति। वसुर्वसुमानयमग्निर्वसुरुद्रादिदेवैरादरेणैव श्रूयत इति वसुश्रवाः। हे तादृगग्नेऽच्छास्मदभिमुखो नक्षि प्राप्नुहो। द्युमत्तमोऽतिशयेन दीप्यमानो रयिं दा धनं देहि। चतुर्थी तु शाखान्तरगता।

कल्पः - ‘ऊर्जा वः पश्याम्यूर्जा मा पश्यतेति गृहान्प्रेक्षते पशून्वा’ इति।

पाठस्तु - ऊर्जा व इति। हे गृहगताः पशवः क्षीरादिरसनिमित्तेन धनपुष्टिनिमित्तेन (च) युष्मानहं पश्यामि। यूयमपि तथा मां पश्यत। हे इडा गावो यूयं मधुकृतो मधुरघृतकारिण्यः स्थ। स्योनाः सुखकरा इरा अन्नवत्यो मदो मादयित्र्यो मामाविशत। सहस्रसंख्यया पुष्टिर्यथा भवति तथा युष्मन्पुष्यासम्। युष्माकं धनानि क्षीरादीनि मयि श्रयन्ताम्।

कल्पः - “तत्सवितुर्वरेण्य सोमान स्वरणं मित्रस्य चर्षणीधृतः प्र स मित्र कदा चन स्तरीरसि कदा चन प्रयुच्छसि परि त्वाऽग्ने पुरं वयमित्युपस्थाय” इति। आहवनीयमिति लभ्यते।

तत्र प्रथमैवमाम्नाता - तत्सवितुरिति। यः सविताऽस्माकं बुद्धीः प्रेरयति तस्य सवितुर्देवस्य वरणीयं तद्भर्गस्तेजो ध्यायेम।

अथ द्वितीया - सोमानमिति। ब्रह्मणः परिवृढस्य कर्मणः पते स्वामिन्नग्ने यस्त्वामौशिज-मुशिजः पुत्रं कक्षीवन्तमृषिं कर्मप्रवर्तकं कृतवानसीत्यध्याहारः। तादृशस्त्वं मामपि सोमानं सोमयागानां स्वरणमुपदेष्टारं कुरु। मित्रस्य प्र स मित्रेति द्वयं नात्राऽऽम्नातम्।

अथ पञ्चमी - कदा चनेति। हे इन्द्र परमैश्वर्ययुक्ताग्ने कदाचिदपि स्तरीर्हिंसको नासि। किंतु दाशुषे हविर्दत्तवते यजमानार्थमुपोपेन्नु अत्यन्तसमीप एव सश्चसि समवेतोऽसि। हे मघवन्निन्द्रसदृशाग्ने भूय इन्नु पुनरपि देवस्य ते तव दानं पृच्यते फलदानार्थमस्माभिः संयुज्यते। कदा चन प्रयुच्छसीत्येषाऽन्यत्राऽऽ-म्नाता।

अथ सप्तमी- परि त्वेति। सहसि बले भवः सहस्यः। हे सहस्य बलवन्नग्ने वयं त्वां प्रतिदिनं परिधीमहि परितो धारयाम। कीदृशं त्वाम्। पुरमभिमतानां पूरक, विप्रं ब्राह्मणाभिमानिनं, धृषद्वर्णं वैरिणम्। धृषन्नभिभवन्वर्ण आकारो यस्य तादृशम्। भङ्गुरावतो भञ्जनशीलव्यापारोपेतस्य रक्षसो भेत्तारम्।

कल्पः - “अग्न आयूंषि पवस इत्याग्निपावमानीभ्यां गार्हपत्यमुपतिष्ठतेऽग्ने गृहपत इति च पुत्रस्य नाम गृह्णाति तामाशिषमाशासे तन्तव इत्यजातस्यामुष्मा इति जातस्य” इति।

आग्निपावमान्यौ त्वन्यत्राऽऽम्नाते।

मन्त्रान्तरपाठस्तु - अग्न इति। हे गृहपालकाग्ने गृहपतिना त्वयाऽनुगृहीतोऽहं शोभनो गृहपतिर्भूयासम्। तथा गृहपतिना मया पूजितस्त्वं गृहस्वामी भूयाः। कियन्तं कालम्। शतं हिमाः। हिमशब्दोपलक्षितहेमन्तर्तुसहिताञ्शतसंवत्सरान्। अहं तन्तव उत्पत्स्यमानपुत्रसंतानाय ज्योतिष्मतीं ब्रह्मवर्चसयुक्तां तामाशि-षमायुरारोग्यैश्वर्याभिवृद्धिरूपामाशासे। एवममुष्मै जाताय देवदत्तादिनाम्ने।

अत्र विनियोगसंग्रहः -

“सं प प्रेक्ष्य गृहानम्भः स्थ गोष्ठमुपतिष्ठते।

रेवान्तराऽग्नी जपति संहिता वत्सकं स्पृशेत्॥१॥

उप त्वा पश्चिमं वह्निं षण्मन्त्रैरुपतिष्ठते।

ऊर्जा प्रेक्ष्य गृहांस्तत्सचतुर्भिः पूर्वपावकम्।

उपस्थायाग्न इत्यस्मात्पश्चिमं चोपतिष्ठते॥२॥” इति।

इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीय-तैत्तिरीयसंहिताभाष्ये प्रथमकाण्डे पञ्चमप्रपाठके षष्ठोऽनुवाकः॥६॥
भट्टभास्करभाष्यम् (Bhatta Bhaskara Commentary)
1 गृहांश्च पशूंश्चोपतिष्ठते - सं पश्यामीति । तत्र प्रथमा गायत्री । शेषाणि यजूंषि 'मयि वो रायश्श्रयन्ताम्' इत्यन्तानि ॥ सं पश्यामि सम्यक् वः पश्यामि अहं प्रजाः गृहनिवासिनः पशून्; 'यावन्त एव ग्राम्याः पशवस्तानेवाव रुन्धे' इति च ब्राह्मणम् । प्रजाशब्देन पशव उच्यन्ते । इडप्रजसः इडा गौः मनोः पुत्री वा । तस्याः प्रजा इडप्रजसः । सा वा यासां तथा ते सं पश्यामीति । यथोक्तम् - 'इडा वै मानवी' 'साब्रवीदिडा मनुम्' इत्यादि । 'ङ्यापोस्संज्ञाछन्दसोः' इति ह्रस्वत्वम्, 'नित्यमसिच्प्रजामेधयोः' इत्यत्र 'नित्यग्रहणमन्यत्रापि यथा स्यात्' इत्युक्तत्वादसिच् समासान्तः, दासीभारादित्वात्पूर्वपदप्रकृतिस्वरत्वम् । यद्वा - इडायाः प्रजायन्त इति 'गतिकारकयोरिति पूर्वपदप्रकृतिस्वरत्वं च' इत्यसुन्प्रत्ययान्ताद्धातोः अन्तलोपश्छान्दसः । डिद्वा प्रत्ययः कर्तव्यः । मानवीर्मनोरपत्यभूताः । जातिविशेषस्याविवक्षितत्वात् 'मनोर्जातौ' इति न प्रवर्तते । सर्वास्ताः सर्वा अपि गवादयः प्रजाः नः अस्माकं गृहे एतस्मिन् स्थाने भवन्तु पशुपुत्रमित्रकलत्रादिसर्वसम्पदः सदा प्रभूतास्सन्तु । 'अस्मदो द्वयोश्च' इति द्वितीये वाक्ये एकस्मिन्बहुवचनम् । यद्वा - पुत्रपौत्रादिसहितानामस्माकमिति वेदितव्यम् ॥
2 अम्भस्स्थेत्यादि ॥ अम्भः अदनीयमुच्यते । 'अदेर्नुम्भश्च' इत्यसुन् । अन्नमुच्यते । वाजसनेयिनां तु 'अन्धस्स्थ' इति वा [इत्येव] पाठः । हे पशवः अन्धः स्थ भवथ । तद्धेतु त्वात्ताच्छब्द्यम् । अन्नस्य हेतवस्स्थ । तस्माद्वा युष्माकमम्भः क्षीराज्यादिरूपमदनीयं भक्षीय भजेयम् । भजेराशिषि लिङ् । महः पूजा ब्रह्म वा महः तद्धेतवः स्थ यागादिद्वारेण । वः युष्माकं अदनीयं क्षीरादि भक्षीय । सहो बलं तद्धेतवः स्थ युष्माकं बलकरं घृतादि भक्षीय । ऊर्जः रसः क्षीरादि तद्धेतवः स्थ युष्माकमूर्जं बलकररसं भक्षीय । मह्यादिभ्योऽसुन् । ऊर्जयतेः क्विप् सम्पदादिलक्षणः । हे रेवतीः रेवत्यः क्षीरादिना धनेन तद्वत्यः । 'रयेर्मतौ बहुलम्' इति सम्प्रसारणम्, 'वाच्छन्दसि' इति पूर्वसवर्णदीर्घत्वम् । रमध्वं प्रीयमाणा वर्तध्वम् । 'पशवो वै रेवतीः पशूनेवात्मन्रमयते' इति ब्राह्मणम् । अस्मिन्लोके पृथिव्याम् । 'ऊडिदम्' इति विभक्तिरुदात्ता । अस्मिन् गोष्ठे गवां स्थाने व्रजे । गावस्तिष्ठन्त्यस्मिन्निति 'सुपि स्थः' इति कः, 'अम्बाम्ब' इति मूर्धन्यः । अस्मिन् क्षये अस्मदीये । 'क्षयो निवासे' इत्या द्युदात्तत्वम् । अस्मिन् योनौ रमध्वमिति सर्वत्र । इहैवास्मदीये लोकादौ स्त भूयास्त । इतोस्मत्सकाशान्मापगात अपरक्ता मापगात न निर्गच्छत । अपि तु बह्वीः बह्व्यः पुत्रपुत्रादिमत्यो मम भूयास्त ॥
3 अग्निहोत्रीवत्समभिमृशति - संहितेति ॥ संहिता संयुक्ता मात्रा असि भव । मात्रा वियुक्ता मा भूः । विश्वरूपीः नानारूपवती मत्वर्थीय ईकारः । सा त्वं मामूर्जा क्षीरादिना रसेन आविश । क्षीरादेर्दातृत्वेन मत्सम्बन्धिनी भव । 'सावेकाचः' इत्यूर्जो विभक्तिरुदात्ता । गौपत्येन च मामाविशेत्येव । गवां पतिः स्वामी तद्भावो गोपत्यम् । पत्यन्तलक्षणो यत् । यथाहं गोपतिर्भवानि तथा मयि वर्तस्व । रायो धनस्य पोषेण पुष्ट्या च मामाविश मदीयानि धनानि पोषयन्ती स्वजन इव मम भव । 'ऊडिदम्' इति रायो विभक्तिरुदात्ता । 'षष्ठ्याः पतिपुत्र' इति सत्वम् । किं बहुना, वः युष्माकं सहस्रपोषं बहुप्रकारमहं पुष्यासं पौष्कल्येनोद्भावयिषीय बह्वीनां युष्माकं सम्बन्धी भूयासम् । गोपोषं पुष्णातीतिवत् सामान्यवचनोन्यतरो द्रष्टव्यः । वः युष्माकं रायो धनानि क्षीरादीनि मयि श्रयन्तां अविच्छेदेन सन्ततं वर्धन्ताम् ॥
4 गार्हपत्यमुपतिष्ठते - उप त्वाग्न इति तिसृभिर्गायत्रीभिः । अग्ने त्वं न इति चतसृभिर्द्विपदाभिर्विराड्गायत्रीभिश्च । 'जागतगायत्राभ्यां विराड्गायत्री' इति । 'गायत्रीभिरुपतिष्ठते' इत्यादि ब्राह्मणम् । उप त्वेति प्रथमा ॥ हे अग्ने वयं दिवेदिवे यत् दिनेदिने धिया प्रज्ञया कर्मणा वा त्वामुपेमसि उपेम उपगच्छामः 'इदन्तो मसि' । किं कुर्वन्त इत्याह - दोषवस्तः रात्रावह्नि च सायं प्रातश्च नमो भरन्तः नमस्कारमाभरन्तः आहरन्तः नमस्कुर्वन्तः त्वामुपेम इति । त्वं चास्माकमुपकुर्विति शेषः । 'हृग्रहोर्भः' । भरतिर्वा भौवादिकः भृञ भरणे इति । 'सुपाम् सुलुक्' इति दिवसवाचिनो दिव्‌शब्दात्परस्य सप्तम्येकवचनस्य शे आदेशः । प्रगृह्यत्वं तु स्यात् । व्यत्ययेन वा चतुर्थी । 'ऊडिदम्' इति विभक्तेरुदात्तत्वम् । 'अनुदात्तं च' इति द्वितीयं निहन्यते । दोषावस्तरिति कार्तकौजपादिषु द्रष्टव्यः । 'सावेकाचः' इति धियो विभक्तिरुदात्ता ॥
5 राजन्तमिति द्वितीया - राजन्तं दीप्यमानं अध्वराणां यज्ञानां गोपां गोप्तारम् । गोपायतेः क्विप् अतोलोपवलिलोपापृक्तलोपाश्च । ऋतस्य यज्ञस्य सत्यस्य च गोप्तारम् । यद्वा - अध्वराणां राजन्तं गोपां रक्षितारं स्वयं सर्वदा दीदिविं दीप्यमानम् । अथवा - अध्वराणां यज्ञानां राजानम् । ऋतस्य ऋतेन यज्ञेन सत्येन वा दीदिविं प्रकाशयितारं गोपां गवां पातारम् । अस्मिन्पक्षे अवग्रह उपपद्यते । 'दीर्घश्चाभ्यासस्य' इति क्विन्प्रत्ययः । वर्धमानं समिद्भिर्हविर्भिश्र स्वे दमे नः गृहे अग्निहोत्रवेश्मनि । तं त्वामुपेमसीति ॥
6 स न इति ॥ हे अग्ने स त्वं नः अस्मभ्यं पितेव सूनवे तात इव पुत्राय सूपायनः सूपचरणः सुखेनोपचरणीयः परिचरणीयो वा भव । 'छन्दसि गत्यर्थेभ्यः' इति युच् । शोभनोपायनो वा । ञ्च - नः अस्मान् स्वस्तये अविनाशाय सचस्व सङ्गच्छस्व मा कदाचिदपि मुचः । 'अन्येषामपि दृश्येत' इति संहितायां दीर्घत्वम् । स्वस्तय इति विभक्त्यन्तप्रतिरूपोव्ययः ॥
7 अग्ने त्वं न इति ॥ हे अग्ने त्वं नः अस्माकमन्तमः अन्तिकतमः सन्निकृष्टतमः । 'तमे तादेश्च' इति तादिलोपः । उत अपिच त्राता रक्षकः भयेष्विति गम्यते । शिवः सुखकरः सर्वदा भव अस्माकं वरूथ्यः गृहे भवः नित्यसन्निहितः । दिगादित्वाद्यत् । वरूथाय गृहाय वा हितः वरूथ्यः । उगवादिर्द्रष्टव्यः ॥
8 तं त्वेति ॥ शोचिष्ठ दीपयितृतम 'तुश्छन्दसि' इतीष्ठन् । 'तुरिष्ठेमेयस्सु' इति टिलोपः । यद्वा - शोचस्वितम । 'विन्मतोर्लुक्' । हे दीदिवः दीप्यमान जिगीषन्वा । दिवेर्लिटः क्वसुरादेशः, 'तुजादीनाम्' इत्यभ्यासस्य दीर्घत्वम् । तं त्वां तादृशमन्तिकतमत्वादिगुणविशिष्टं त्वां सुम्नाय धनाय सुखाय वा ईमहे याचामहे । नूनमिति पादपूरणे निश्चये वा । यद्वा - नूनं नूतनं अभूतपूवं तं त्वां सखिभ्यः समानख्यानेभ्यः सुहृदयसुहृद्भ्यः । 'क्रियाग्रहणं कर्तव्यम्' इति कर्मणस्सम्प्रदानत्वात्सुम्नायेति चतुर्थी ॥
9 वसुरिति ॥ वसुः वसुमान् । मत्वर्थीयो लुप्यते । अग्निः अङ्गनादिगुणयुक्तः वसुश्रवाः वासयतीति वसुः तादृशं श्रवणं यस्य तादृशः । वसुभिर्वा श्रूयत इति वसुश्रवाः । 'गतिकारकयोरपि इति पूर्वपदप्रकृतिस्वरत्वञ्च' इत्यसुन् । स त्वमस्मानच्च्छ आभिमुख्येन नक्षि प्राप्नुहि । 'निपातस्य च' इति संहितायां दीर्घत्वम् । नशतिर्गतिकर्मा 'बहुळं छन्दसि' इति शपोलुक् । अस्मान् प्राप्य चास्मभ्यं द्युमत्तमः दीप्तिमत्तमः तं रयिं धनं दाः देहि । दधातेर्लिटि पूर्ववच्छपोलुक् । 'ह्रस्वनुङ्भ्याम्मतुप्' इति द्योर्मतुप उदात्तत्वम् ॥
10 पुनश्च गृहांश्च पशूंश्चोपतिष्ठते - ऊर्जा व इति । एतानि यजूंषि ॥ ऊर्जा क्षीरादिना रसेन समग्रास्सदा वः पश्यामि । यूयमपि ऊर्जा रसेन स्नेहेन बलेन वा सहितं मां पश्यत । किञ्च - रायो धनस्य पुत्रपश्वादिलक्षणस्य घासादिलक्षणस्य वा पोषेण वृद्ध्या वः पश्यामि । यूयमपि रायो धनस्य पशुहिरण्यलक्षणस्य पोषेण म्-आं पश्य त । पूर्ववत्सत्वस्वरौ ॥
11 इडास्स्थेत्यादि अनुष्टुप् ॥ इडाः अन्नं स्थ तद्धेतुवात्ताच्छब्द्यम् । मधुकृतः मधुसदृशस्य कृतः कर्त्र्यः उत्पादयित्र्यः । उक्तञ्च - 'एतद्वै देवानां मधु यद्घृतम्' इति 'एतद्वै मधु दैव्यं यदाज्यम्, इति च । ता यूयं स्योनाः सुखभूताः मामाविशत । इराः क्षीराद्यन्नाद्यात्मिकाः मदः मदयित्र्यः देवानां मनुष्याणां च हर्षयित्र्यः । मदेर्ण्यन्तात्क्विप् । 'बहुळं संज्ञाछन्दसोः' इति णिलुक् ॥ सहस्रपोषमिति व्याख्यातम् ॥
12 आहवनीयमुप्तिष्ठते - तत्सवितु्रिति गायत्र्या ॥ तत्तस्य 'सुपां सुलुक्' इति षष्ठ्या लुक् । तस्य सवितुः देवस्य दाना[देवना]दिगुणयुक्तस्य स्वभूतं तत्प्रसादलभ्यं वा अत एव वरेण्यं वरणीयं सर्वैः प्रार्थनीयं भर्गः तेजः अन्नं धनं वा वयं धीमहि धारयेम तस्यैव प्रसादात्तस्याधारभूता भवेम । धीङ् आधारे दैवादिकः । 'छन्दसि लुङ्लङ्लिटः' इति लङि 'बहुलं छन्दस्यमाङ्' इत्यडभावः । दधातेर्वा लिङ् । सर्वत्र 'बहुलं छन्दसि' इति शपोलुक् । कस्येत्याह - यो देवस्सवितास्माकं धियः कर्माणि प्रचोदयात् प्रचोदयेत् प्रवर्तयेत् । यद्वा - धियः धर्मादिगोचराः बुद्धीः प्रचोदयात् प्रेरयेत् । लेट्याडागमः । तस्य सवितुरिति । यद्वा - सवितुर्देवस्य तदन्नादि धीमहि । किमित्याह - य इति । लिङ्गव्यत्ययः । यदस्माकं धियः प्रचोदयात् प्रेरयति । यद्वा - यो देवस्सविता विश्वस्य प्रसवितास्माकं धर्मादिगोचराः धियः प्रेरयति तस्य स्वभूतं वरेण्यं सर्वैर्भजनीयं भर्गः पापानां तापनं तेजो मण्डलात्मकं धीमहि मनसा धारयामः । ध्यायतेरेव वा छान्दसं सम्प्रसारणम् । एवं बोधप्रकाशाभ्यां समस्तस्य प्रपञ्चस्य उपकुर्वाणं श्रेयोर्थिभिर्भजनीयं सूर्यात्मना स्थितं पारमेश्वरं तेज उपास्यत्वेन उपदिश्यते ॥
13 पुनरप्याहवनीयमुपतिष्ठते -सोमानमिति गायत्र्या ॥ सोमानं सोतारं सोमानामभिषोतारं मां कृणुहि । 'अन्येभ्योपि दृश्यते' इति मनिन् । उञ्छादित्वादन्तोदात्तत्वम् । औणादिको वा मनिन्प्रत्ययः । अन्यं आहुः - सोमानामिति वक्तव्ये छान्दसं ह्रस्वत्वम् । सोमानां सप्तविधानां सम्बन्धिनं मां कुर्विति । तत्राप्यन्तोदात्तर्त्वं मृग्यम्, सोमशब्दस्याद्युदात्तत्वात् स्वरणं शब्दितं सोमत्वेन प्रकाशितम् । स्वृ शब्दोपतापयोः कर्मणि लुट् ईदृशं च मां कुरु । हे ब्रह्मणः परिबृढस्यान्नस्य वा पते स्वामिन् । 'षष्ठ्याः पतिपुत्र' इति सत्वम् । 'सुबामन्त्रिते' इति पराङ्गवद्भावात् षष्ठ्यामन्त्रितसमुदायो निहन्यते । कक्षीवन्तं ताद्धर्म्यात्ताच्छब्द्यम् । कक्षीवान्नाम ऋषिः तमिव य औशिजम् । स्वार्थिकोण् वचनव्यत्ययः । यद्वा - कक्षीवन्तं हस्त्यादिकक्ष्यावन्तं ईश्वरं मा कुरु । 'आसन्दीवदष्टीवत्' इत्यादिना निपात्यते । य औशिज ईश्वर औशिजो भवति तम्मा कुरु । उशिक् कान्तः सर्वलोकप्रियः स औशिजः । स्वार्थिकोण् ॥
14 रात्रिमुपतिष्ठते - कदा चनेति पथ्याबृहत्या ॥ 'तृतीयश्चेद्द्वादशाक्षरः पथ्या' इति । व्याख्याता चेयमादित्यग्रहे इन्द्रात्मना रात्रिस्स्तूयते । कदाचिदपि स्तरीश्छादयिता अभिभविता न भवसि । अपि तु दाशुषे हवींषि दत्तवते यजमानाय सश्चसि समागच्छसि, न कदाचिदपि तत्सकाशं मुञ्चसि उपकर्तुम् । तथाहि - हे मघवन् तव देवस्य देवनशीलस्य दानं भूयोभूयोपि उपपृच्यत एव, अविच्छेदेन निर्वर्त्यत एव । यद्वा - भूयोभूयोपि उपपृच्यतां उत्पाद्यतामिति ॥
15 गार्हपत्यमुपतिष्ठते - परि त्वेत्यनुष्टुभा ॥ हे अग्ने सहस्व सहो बलं तत्र भवः । 'दिगादिभ्यो यत्' । पुरं अभिमतानां पूरयितारं विप्रं मेधाविनं धृषद्वर्णं वर्णमात्रेणैव शत्रूणां अभिभवितारं भेत्तारम् । कस्य? भङ्गुरावतः परभञ्जनशीलैर्व्यापारैः तद्वतो रक्षःप्रभृतेः । छान्दसं संहितायां दीर्घत्वम् । ईदृशं त्वां दिनेदिने परिधीमहि सर्वतो धारयेम । दधातेर्लिङि शपो लुक् ॥
16 गार्हपत्यमेवोपतिष्ठते - अग्ने गृहपत इति यजुर्भिः ॥ हे अग्ने गृहपते गृहकर्मणां पालयितः त्वया गृहपतिना स[गृ]हकर्मणां पालनं कुर्वता सुगृहपतिः शोभनेन तद्वान् भूयासम् । त्वमपि गृहपतिना मया सुगृहपतिर्भूयाः । कियन्तं कालमित्याह - शतं हिमाः शतं वर्षाणि हि मर्त्यानाम् । 'शतं त्वा हेमन्तानिन्धिषीय' इति ब्राह्मणम् । तावन्तं कालमिदमित्थं भवतु । किञ्च - तामाशिषं, अनागताभिप्रेतार्थप्रार्थनमाशीः, तामाशासे प्रार्थये । यद्वा - आशासनीया आयुरादिसर्वसम्पदाशीः, तामाशासे । 'आशासः क्वौ' इतीत्वम् । कीदृशीं? ज्योतिष्मतीं दीप्तिमतीं ब्रह्मवर्चसप्रधानाम् । कस्मै? तन्तवे अजातापत्यविषयमिदं; अमुष्मा इति वक्ष्यमाणस्य सन्निहितापत्यविषयत्वात् । अमुष्मा इति सन्निहितानामपत्यानां साधारणो निर्देशः । तस्मै सहस्रकिरणाय भास्कराय गोविन्दाय च तां ज्योतिष्मतीमाशिषमाशासे । 'पुत्रस्य नाम गृह्णाति' इत्यादि ब्राह्मणम् ॥
इति पञ्चमे षष्ठोनुवाकः ॥
पञ्चशत् 2 #
TS 1.5.6.2 TS 1.5.6.2
सꣳहि॒ताऽसि॑ विश्वरू॒पीरा मो॒र्जा वि॒शा ऽऽ*गौ॑प॒त्येना ऽऽ*रा॒यस्पोषे॑ण सहस्रपो॒षं ॅवः॑ पुष्यासं॒ मयि॑ वो॒ रायः॑ श्रयन्तां ॥ उप॑ त्वाऽग्ने दि॒वेदि॑वे॒ दोषा॑वस्तर्द्धि॒या व॒यं । नमो॒ भर॑न्त॒ एम॑सि ॥ राज॑न्तमद्ध्व॒राणां᳚ गो॒पामृ॒तस्य॒ दीदि॑विं । वर्द्ध॑मानꣳ॒॒ स्वे दमे᳚ ॥ स नः॑ पि॒तेव॑ सू॒नवेऽग्ने॑ सूपाय॒नो भ॑व । सच॑स्वा नः स्व॒स्तये᳚ ॥ अग्ने॒- [ ]
पदपाठः (Word-by-word)
सꣳ॒॒हि॒तेति॑ सं - हि॒ता । अ॒सि॒ । वि॒श्व॒रू॒पीरिति॑ विश्व - रू॒पीः । एति॑ । मा॒ । ऊ॒र्जा । वि॒श॒ । एति॑ । गौ॒प॒त्येन॑ । एति॑ । रा॒यः । पोषे॑ण । स॒ह॒स्र॒पो॒षमिति॑ सहस्र - पो॒षम् । वः॒ । पु॒ष्या॒स॒म् । मयि॑ । वः॒ । रायः॑ । श्र॒य॒न्ता॒म् ॥ उपेति॑ । त्वा॒ । अ॒ग्ने॒ । दि॒वेदि॑व॒ इति॑ दि॒वे-दि॒वे॒ । दोषा॑वस्त॒रिति॒ दोषा᳚-व॒स्तः॒ । धि॒या । व॒यम् ॥ नमः॑ । भर॑न्तः । एति॑ । इ॒म॒सि॒ ॥ राज॑न्तम् । अ॒द्ध्व॒राणा᳚म् । गो॒पामिति॑ गो - पाम् । ऋ॒तस्य॑ । दीदि॑विम् ॥ वर्ध॑मानम् । स्वे । दमे᳚ ॥ सः । नः॒ । पि॒ता । इ॒व॒ । सू॒नवे᳚ । अग्ने᳚ । सू॒पा॒य॒न इति॑ सु - उ॒पा॒य॒नः । भ॒व॒ ॥ सच॑स्व । नः॒ । स्व॒स्तये᳚ ॥ अग्ने᳚ ।
पदसंख्या: 50
पञ्चशत् 3 #
TS 1.5.6.3 TS 1.5.6.3
त्वं नो॒ अन्त॑मः । उ॒त त्रा॒ता शि॒वो भ॑व वरू॒त्थ्यः॑ ॥ तं त्वा॑ शोचिष्ठ दीदिवः । सु॒म्नाय॑ नू॒नमी॑महे॒ सखि॑भ्यः ॥ वसु॑र॒ग्निर् वसु॑श्रवाः । अच्छा॑ नक्षि द्यु॒मत्त॑मो र॒यिं दाः᳚ ॥ ऊ॒र्जा वः॑ पश्याम्यू॒र्जा मा॑ पश्यत रा॒यस्पोषे॑ण वः पश्यामि रा॒यस्पोषे॑ण मा पश्य॒तेडाः᳚ स्थ मधु॒कृतः॑ स्यो॒ना मा ऽऽवि॑श॒तेरा॒ मदः॑ । स॒ह॒स्र॒पो॒षं ॅवः॑ पुष्यासं॒ - [ ]
पदपाठः (Word-by-word)
त्वम् । नः॒ । अन्त॑मः ॥ उ॒त । त्रा॒ता । शि॒वः । भ॒व॒ । व॒रू॒थ्यः॑ ॥ तम् । त्वा॒ । शो॒चि॒ष्ठ॒ । दी॒दि॒वः॒ ॥ सु॒म्नाय॑ । नू॒नम् । ई॒म॒हे॒ । सखि॑भ्य॒ इति॒ सखि॑ - भ्यः॒ ॥ वसुः॑ । अ॒ग्निः । वसु॑श्रवा॒ इति॒ वसु॑ - श्र॒वाः॒ ॥ अच्छ॑ । न॒क्षि॒ । द्यु॒मत्त॑म॒ इति॑ द्यु॒मत् - त॒मः॒ । र॒यिम् । दाः॒ ॥ ऊ॒र्जा । वः॒ । प॒श्या॒मि॒ । ऊ॒र्जा । मा॒ । प॒श्य॒त॒ । रा॒यः । पोषे॑ण । वः॒ । प॒श्या॒मि॒ । रा॒यः । पोषे॑ण । मा॒ । प॒श्य॒त॒ । इडाः᳚ । स्थ॒ । म॒धु॒कृत॒ इति॑ मधु - कृतः॑ । स्यो॒नाः । मा॒ । एति॑ । वि॒श॒त॒ । इराः᳚ । मदः॑ ॥ स॒ह॒स्र॒पो॒षमिति॑ सहस्र - पो॒षम् । वः॒ । पु॒ष्या॒स॒म् ।
पदसंख्या: 50
पञ्चशत् 4 #
TS 1.5.6.4 TS 1.5.6.4
मयि॑ वो॒ रायः॑ श्रयन्तां ॥ तथ्स॑वि॒तुर् वरे᳚ण्यं॒ भर्गो॑ दे॒वस्य॑ धीमहि । धियो॒ योनः॑ प्रचो॒दया᳚त् ॥ सो॒मानꣳ॒॒ स्वर॑णं कृणु॒हि ब्र॑ह्मणस्पते । क॒क्षीव॑न्तं॒ ॅय औ॑शि॒जं ॥ क॒दा च॒न स्त॒रीर॑सि॒ नेन्द्र॑ सश्चसि दा॒शुषे᳚ ॥ उपो॒पेन्नु म॑घव॒न् भुय॒ इन्नु ते॒ दानं॑ दे॒वस्य॑ पृच्यते ॥ परि॑ त्वाऽग्ने॒ पुरं॑ ॅव॒यं ॅविप्रꣳ॑ सहस्य धीमहि ॥ धृ॒षद्व॑र्णं ( ) दि॒वेदि॑वे भे॒त्तारं॑ भङ्गु॒राव॑तः ॥ अग्ने॑ गृहपते सुगृहप॒तिर॒हं त्वया॑ गृ॒हप॑तिना भूयासꣳ सुगृहप॒तिर्मया॒ त्वं गृ॒हप॑तिना भूयाः श॒तꣳ हिमा॒स्तामा॒शिष॒मा शा॑से॒ तन्त॑वे॒ ज्योति॑ष्मतीं॒ तामा॒शिष॒मा शा॑से॒ऽमुष्मै॒ ज्योति॑ष्मतीं ॥
पदपाठः (Word-by-word)
मयि॑ । वः॒ । रायः॑ । श्र॒य॒न्ता॒म् ॥ तत् । स॒वि॒तुः । वरे᳚ण्यम् । भर्गः॑ । दे॒वस्य॑ । धी॒म॒हि॒ ॥ धियः॑ । यः । नः॒ । प्र॒चो॒दया॒दिति॑ प्र-चो॒दया᳚त् ॥ सो॒मान᳚म् । स्वर॑णम् । कृ॒णु॒हि । ब्र॒ह्म॒णः॒ । प॒ते॒ ॥ क॒क्षीव॑न्त॒मिति॑ क॒क्षी - व॒न्त॒म् । यः । औ॒शि॒जम् । क॒दा । च॒न । स्त॒रीः । अ॒सि॒ । न । इ॒न्द्र॒ । स॒श्च॒सि॒ । दा॒शुषे᳚ ॥ उपो॒पेत्युप॑ - उ॒प॒ । इत् । नु । म॒घ॒व॒न्निति॑ मघ - व॒न्न् । भूयः॑ । इत् । नु । ते॒ । दान᳚म् । दे॒वस्य॑ । पृ॒च्य॒ते॒ ॥ परीति॑ । त्वा॒ । अ॒ग्ने॒ । पुर᳚म् । व॒यम् । विप्र᳚म् । स॒ह॒स्य॒ । धी॒म॒हि॒ ॥ धृ॒षद्व॑र्ण॒मिति॑ धृ॒षत् - व॒र्ण॒म् ( ) । दि॒वेदि॑व॒ इति॑ दि॒वे - दि॒वे॒ । भे॒त्तार᳚म् । भ॒ङ्गु॒राव॑त॒ इति॑ भङ्गु॒र-व॒तः॒ ॥ अग्ने᳚ । गृ॒ह॒प॒त॒ इति॑ गृह - प॒ते॒ । सु॒गृ॒ह॒प॒तिरिति॑ सु - गृ॒ह॒प॒तिः । अ॒हम् । त्वया᳚ । गृ॒हप॑ति॒नेति॑ गृ॒ह - प॒ति॒ना॒ । भू॒या॒स॒म् । सु॒गृ॒ह॒प॒तिरिति॑ सु - गृ॒ह॒प॒तिः । मया᳚ । त्वम् । गृ॒हप॑ति॒नेति॑ गृ॒ह - प॒ति॒ना॒ । भू॒याः॒ । श॒तम् । हिमाः᳚ । ताम् । आ॒शिष॒मित्या᳚ - शिष᳚म् । एति॑ । शा॒से॒ । तन्त॑वे । ज्योति॑ष्मतीम् । ताम् । आ॒शिष॒मित्या᳚ - शिष᳚म् । एति॑ । शा॒से॒ । अ॒मुष्मै᳚ । ज्योति॑ष्मतीम् ॥
पदसंख्या: 79