पदपाठः (Word-by-word)
सायणभाष्यम् (Sayana Commentary)
(अथ प्रथमकाण्डे पञ्चमप्रपाठके षष्ठोऽनुवाकः)।
षष्ठेऽनुवाके गार्हपत्यस्य पुनरप्याहवनीयस्य चोपस्थानं सपरिकरमभिधीयते।
कल्पः - ‘सं पश्यामि प्रजा अहमिति गृहान्प्रेक्षते’ इति।
पाठस्तु - सं पश्यामीति। अहं मनुष्यप्रजा इडप्रजसश्च सम्यक्पश्यामि। इडा धेनु-स्तस्याः प्रजा अपत्यानीडप्रजसो मनुष्यरूपश्च सर्वाः प्रजा अस्माकं गृहे तिष्ठन्तु।
कल्पः - “अम्भः स्थाम्भो वो भक्षीयेति गोष्ठमुपतिष्ठते” इति।
पाठस्तु - अम्भः स्थेति। अम्भः पीतोदकसारं महः पूज्यं सर्वैरादरणीयं सहो बलकरमूर्जं स्वादुतमरसरूपं यत्क्षीरादि तत्कारणत्वेन हे पशवस्तद्रूपाः स्थ ततो युष्मदीयं तत्क्षीरादिकमस्माकं भक्ष्यमस्तु।
कल्पः - “रेवती रमध्वमित्यन्तराऽग्नी तिष्ठञ्जपति” इति।
पाठस्तु - रेवतीरिति। हे रेवतीः पशवोऽस्मिन्भूलोके गोष्ठे व्रजविशेषे क्षये गृहविशेषे योनौ स्थानविशेषे रमध्वं क्रीडध्वम्। इहैव योनौ स्त सर्वदा तिष्ठत। इतः स्थानान्माऽपगात माऽपगच्छत। मे मदर्थपत्यपरम्परया बहवो भूयास।
कल्पः - “स हिताऽसि विश्वरूपीरिति वत्समभिमृशति” इति।
पाठस्तु - स हिताऽसीति। हे वत्स त्वं संहिताऽसि मात्रा संयुक्तोऽसि। विश्वरूपीरा-दरेण स्तनं पातुं वामतो दक्षिणतश्च पुनः पुनर्धावन्बहुरूपवदवभाससे। तादृक्त्वमूर्जा क्षीरादिरसनिमित्तेन मामाविश मत्समीपमागच्छ गौपत्येन मदीयं बहुपशुस्वामित्वं निमित्तीकृत्य मामाविश रायस्पोषेण धनपुष्टिनिमित्तेनापि मामाविश। सहस्रसंख्यया पुष्टिर्यथा भवति तथा युष्मान्पुष्यासम्। मयि युष्मदीयानि क्षीरादिधनान्याश्रयन्ताम्।
कल्पः - “उप त्वाऽऽग्ने दिवेदिव इति तिसृभिर्गायत्रीभिर्गार्हपत्यमुपतिष्ठतेऽग्ने त्वं अन्तम इति चतसृभिश्च द्विपदीभिः स नो बोधि श्रुधी हवमुरुष्याणो अघायतः समस्मादित्येषा चतुर्थी भवति” इति।
तत्र प्रथमा गायत्री - उप त्वेति। हेऽग्ने प्रतिदिनं वयं त्वामुपेमसि उपगच्छामः। किं कुर्वन्तः दोषावस्तः सायं प्रातश्च धिया नमो भरन्तो नमस्कारं संपादयन्तः।
अथ द्वितीया - राजन्तमिति। कीदृशं त्वाम्। अध्वराणां राजन्तं यज्ञराजं, गोपां गवां पालकम्, ऋतस्य दीदिविं सत्येन द्योतमानं, स्वे दमे स्वकीयेऽग्निहोत्रगृहे हविर्भिर्वर्धमानम्।
अथ तृतीया - स न इति। हेऽग्ने स तादृशस्त्वं नोऽस्मादर्थं सूपायनः प्राप्तुं शक्यो भव। यथा पुत्रार्थं पिता सूपायनस्तद्वदस्माकं स्वस्तये क्षेमाय सचस्व समवेतो भव।
अथ प्रथमा द्विपदा – अग्ने त्वमिति। हेऽग्ने त्वं नोऽस्माकमन्तमोऽन्तिमोऽन्तिकतमो भव। उतापि च त्राता शिवश्च सन्वरूथ्यो वरूथे गृहे नित्यं संनिहितो भव।
अथ द्वितीया - तं त्वेति। हे वह्ने शोचिष्ठ दीदिवः शुद्धतम दीप्यमान सखिभ्यः सखीनाम-स्माकं सुम्नाय सुखाय नूनं तं पूर्वाक्तगुणयुक्तं त्वामीमहे प्राप्नुमः।
अथ तृतीया - वसुरग्निरिति। वसुर्वसुमानयमग्निर्वसुरुद्रादिदेवैरादरेणैव श्रूयत इति वसुश्रवाः। हे तादृगग्नेऽच्छास्मदभिमुखो नक्षि प्राप्नुहो। द्युमत्तमोऽतिशयेन दीप्यमानो रयिं दा धनं देहि। चतुर्थी तु शाखान्तरगता।
कल्पः - ‘ऊर्जा वः पश्याम्यूर्जा मा पश्यतेति गृहान्प्रेक्षते पशून्वा’ इति।
पाठस्तु - ऊर्जा व इति। हे गृहगताः पशवः क्षीरादिरसनिमित्तेन धनपुष्टिनिमित्तेन (च) युष्मानहं पश्यामि। यूयमपि तथा मां पश्यत। हे इडा गावो यूयं मधुकृतो मधुरघृतकारिण्यः स्थ। स्योनाः सुखकरा इरा अन्नवत्यो मदो मादयित्र्यो मामाविशत। सहस्रसंख्यया पुष्टिर्यथा भवति तथा युष्मन्पुष्यासम्। युष्माकं धनानि क्षीरादीनि मयि श्रयन्ताम्।
कल्पः - “तत्सवितुर्वरेण्य सोमान स्वरणं मित्रस्य चर्षणीधृतः प्र स मित्र कदा चन स्तरीरसि कदा चन प्रयुच्छसि परि त्वाऽग्ने पुरं वयमित्युपस्थाय” इति। आहवनीयमिति लभ्यते।
तत्र प्रथमैवमाम्नाता - तत्सवितुरिति। यः सविताऽस्माकं बुद्धीः प्रेरयति तस्य सवितुर्देवस्य वरणीयं तद्भर्गस्तेजो ध्यायेम।
अथ द्वितीया - सोमानमिति। ब्रह्मणः परिवृढस्य कर्मणः पते स्वामिन्नग्ने यस्त्वामौशिज-मुशिजः पुत्रं कक्षीवन्तमृषिं कर्मप्रवर्तकं कृतवानसीत्यध्याहारः। तादृशस्त्वं मामपि सोमानं सोमयागानां स्वरणमुपदेष्टारं कुरु। मित्रस्य प्र स मित्रेति द्वयं नात्राऽऽम्नातम्।
अथ पञ्चमी - कदा चनेति। हे इन्द्र परमैश्वर्ययुक्ताग्ने कदाचिदपि स्तरीर्हिंसको नासि। किंतु दाशुषे हविर्दत्तवते यजमानार्थमुपोपेन्नु अत्यन्तसमीप एव सश्चसि समवेतोऽसि। हे मघवन्निन्द्रसदृशाग्ने भूय इन्नु पुनरपि देवस्य ते तव दानं पृच्यते फलदानार्थमस्माभिः संयुज्यते। कदा चन प्रयुच्छसीत्येषाऽन्यत्राऽऽ-म्नाता।
अथ सप्तमी- परि त्वेति। सहसि बले भवः सहस्यः। हे सहस्य बलवन्नग्ने वयं त्वां प्रतिदिनं परिधीमहि परितो धारयाम। कीदृशं त्वाम्। पुरमभिमतानां पूरक, विप्रं ब्राह्मणाभिमानिनं, धृषद्वर्णं वैरिणम्। धृषन्नभिभवन्वर्ण आकारो यस्य तादृशम्। भङ्गुरावतो भञ्जनशीलव्यापारोपेतस्य रक्षसो भेत्तारम्।
कल्पः - “अग्न आयूंषि पवस इत्याग्निपावमानीभ्यां गार्हपत्यमुपतिष्ठतेऽग्ने गृहपत इति च पुत्रस्य नाम गृह्णाति तामाशिषमाशासे तन्तव इत्यजातस्यामुष्मा इति जातस्य” इति।
आग्निपावमान्यौ त्वन्यत्राऽऽम्नाते।
मन्त्रान्तरपाठस्तु - अग्न इति। हे गृहपालकाग्ने गृहपतिना त्वयाऽनुगृहीतोऽहं शोभनो गृहपतिर्भूयासम्। तथा गृहपतिना मया पूजितस्त्वं गृहस्वामी भूयाः। कियन्तं कालम्। शतं हिमाः। हिमशब्दोपलक्षितहेमन्तर्तुसहिताञ्शतसंवत्सरान्। अहं तन्तव उत्पत्स्यमानपुत्रसंतानाय ज्योतिष्मतीं ब्रह्मवर्चसयुक्तां तामाशि-षमायुरारोग्यैश्वर्याभिवृद्धिरूपामाशासे। एवममुष्मै जाताय देवदत्तादिनाम्ने।
अत्र विनियोगसंग्रहः -
“सं प प्रेक्ष्य गृहानम्भः स्थ गोष्ठमुपतिष्ठते।
रेवान्तराऽग्नी जपति संहिता वत्सकं स्पृशेत्॥१॥
उप त्वा पश्चिमं वह्निं षण्मन्त्रैरुपतिष्ठते।
ऊर्जा प्रेक्ष्य गृहांस्तत्सचतुर्भिः पूर्वपावकम्।
उपस्थायाग्न इत्यस्मात्पश्चिमं चोपतिष्ठते॥२॥” इति।