पदपाठः (Word-by-word)
सायणभाष्यम् (Sayana Commentary)
(अथ प्रथमकाण्डे पञ्चमप्रपाठके एकादशोऽनुवाकः)।
अथान्तिम एकादशानुवाके काम्या याज्या (पुरोनुवाक्या) उच्यन्ते। इष्टि-काण्डे त्रिहविष्का काचिदिष्टिराम्नायते -
“वैश्वानरं द्वादशकपालं निर्वेपेद्वारुणं चरुं दधिक्राव्णे चरुमभिशस्यमानो यद्वैश्वानरो द्वादशकपालो भवति संवत्सरो वा अग्निर्वैश्वानरः संवत्सरेणैवैन स्वदयत्यप पापं वर्ण हते वारुणेनैवैनं वरुणपाशान्मुञ्चति दधिक्राव्णा पुनाति” (सं॰ का॰ २ प्र॰ २ अ॰ ५) इति।
अभिशस्यमानः पातकारोपेण दूष्यमाणः। वैश्वानरशब्देन संवत्सराभिमानी कश्चिदग्निरुच्यते। तेनैव संवत्सराभिमानिनैनमभिशस्तं स्वात्मानं स्वदयति बन्धुभ्यो रोचयति। वर्णं वर्ण्यमानमारोप्यामाणं पापमपहते विनाशयति। पापिनं बद्ध्वा नेतुं प्रसारितो यो वरुणपाशस्तस्मादेनं स्वात्मानं पूतं करोति।
चोदकप्राप्तां दक्षिणान्तरं विधत्ते - “हिरण्यं दक्षिणा पवित्रं वै हिरण्यं पुनात्येवैनमाद्यमस्यान्नं भवति” (सं॰ का॰ २ प्र॰ २ अ॰ ५) इति।
आद्यमत्तुं योग्यं मृद्वन्नम्।
अस्यामिष्टौ प्रथमहविषो याज्यापुरोनुवाक्यायुग्मानि चत्वारि विकल्पितानि। तत्र प्रथमयुग्मे पुरोनुवाक्यामाह - वैश्वानर इति विश्वेषां नराणामुपकारी वैश्वानरोऽग्निरूत्या रक्षणनिमित्तं परावतो दूरादपि देशाद्वाहसा प्रापणसमर्थेनोक्थेनोक्थेनोत्थानपूर्वकेणाऽ-ऽगमनेन नोऽस्मान्प्रायातु प्रागच्छतु।
याज्यामाह - ऋतावानमिति। वैश्वानरमीमहे वयं प्राप्नुमः। कीदृशम्। ऋतावानं सत्यवन्तम्। ऋतस्य यज्ञस्य ज्योतिषोऽभीष्टफलप्रकाशकस्य पतिं पालकम्। अजस्रं घर्मं निरन्तरं दीप्यमानम्।
द्वितीययुग्मे पुरोनुवाक्यामाह - वैश्वानरस्येति। कविर्बुद्धिमानेको यजमानो वैश्वानरसंबन्धिनीभ्यो दंसनाभ्यः क्रियाभ्यो बृहन्महाफलमीरणात्प्राप्नोत्। अपःशब्दः कर्मवाची। शोभनमपः स्वपः। स्वपसो भावः स्वपस्यम्। तेन स्वपस्येन वैश्वानरयागस्य शोभनकर्मत्वेनेत्यर्थः। छान्दसो लिङ्गव्यत्ययः। अयमग्निर्द्युभूमिरूपौ प्रभूतरेतस्कौ स्वकीयमातापितरावुभौ महयँल्लोकपूज्यौ कुर्वन्स्वयमजायत। तस्मादेतदीयकर्मणो महाफलं युक्तमित्यर्थः।
याज्यामाह - पृष्टो दिवीति। पृष्ट इत्यत्र सकारलोपश्छान्दसः। अयमग्निर्दिवि स्पृष्ट आदित्यरूपेणावस्थितः पृथिव्यां दाहपाकप्रकाशकारित्वेनावस्थितस्तथा फलपाककारी सन्स्पृष्टः संबद्धः सर्वा अप्यौषधीराविवेश। वैश्वानरोऽग्निः सहसा बलेन स्पृष्टः संबद्धः। स तादृशो नोऽस्मान्दिवा रिषो हिंसकात्पा-पान्नक्तं रात्रावपि सोऽस्मान्पातु।
तृतीययुग्मे पुरोनुवाक्यामाह - जातो यदग्न इति। हेऽग्ने त्वं जातमात्र एव भुवनानि व्यख्यः स्वतेजसा विशेषेण ख्यापितवानसि। गोपाः पशु न पशुमिव। यथा गोपालकोऽनायासे नैव पशुरेतदीय इति ख्यापयति तद्वत्। कीदृशस्त्वम्। इर्य इरामन्नमर्हसि। परिज्मा परितो गन्ता। यद्यस्मादेवंविधस्त्वं ततो हे वैश्वानर ब्रह्मणे परिवृढायास्मै कर्मणे गातुं मार्गं विन्द लभस्व। यूयं स्वास्तिभिः श्रेयोभिः सदा नोऽस्मान्पात रक्षत। यूयमिति बहुवचनं पूजार्थम्।
याज्यामाह - त्वमग्न इति। हेऽग्ने त्वं शोशुचानो भृशं दीप्यमानो जायमान एव रोदसी द्यावापृथिव्यौ शोचिषा दीप्त्याऽऽपृणाः सर्वतः पूरितवानसि। हे जातवेद उत्पन्नजगद्वेदिन्वैश्वानर त्वं महित्वा स्वमहिम्ना देवानृत्विजोऽभिशस्तेः पापादमुञ्चे मोचितवानसि।
चतुर्थयुग्मे पुरोनुवाक्यामाह - अस्माकमिति। हेऽग्नेऽस्माकं क्षत्त्रं पालकं पुरुषं मघवत्सु धारयेन्द्रेषु स्थापयेन्द्रसमानं कुरु। कीदृशं क्षत्त्रम्। अनाम्यनमनशीलं कस्यचिदपि नमस्कारं न करोतीत्यर्थः। अजरं जरारहितम्। सुवीर्यमभग्नसामर्थ्यम्। हे वैश्वानर तवोतिभिस्त्वदीयैः पालनैर्वयमपि शतसहस्रसंख्योपेतं वाजमन्नं जयेम।
याज्यामाह - वैश्वानरस्येति। वयं वैश्वानरस्य सुमतावनुग्रहबुद्धौ स्याम तिष्ठेम। अभि-प्राप्तश्रीरयं वैश्वनरः सर्वेषां भुवनानां राजा हिकं प्रकाशकः खलु। इत एव कारणाज्जातमात्र एवेदं विश्वं विचष्टे विशेषेण प्रख्यापयति। अयं वैश्वानरः सूर्यरूपेण यतते दिवा प्रवर्तते। अत एवान्यत्राऽऽम्नातम् — “उद्यन्तं वावाऽदित्यमग्निरनु समारोहति” इति। तान्येतानि चत्वारि युग्मानि श्रूयमाणेषु सर्वेष्वपि वैश्वानरयागेषु इच्छया विकल्प्यन्ते। वैश्वानरलिङ्गस्य साधारणत्वाद्विशेषलिङ्गानां च स्पष्टानामदर्शनात्। यदि कश्चित्स्वबुद्ध्या विशेषलिङ्गं सूक्ष्ममुत्प्रेक्षेत तदा तदनुसारेण व्यावस्थाऽस्तु।
द्वितीयहविषः पुरोऽनुवाक्यामाह - अव ते हेड इति। हे वरुण ते हेडस्तव क्रोधं नमस्कारैरवेमहे शमयामः। यज्ञेभिर्यज्ञविशेषैर्हविर्भिश्च पुरोडाशादिभिरवेमहे शमयामः। हेऽसुर शुत्रुनिरसनक्षम
हे प्रचेतः प्रकृष्टचित्त हे राजन्दीप्यमानास्मभ्यमस्मदनुग्रहार्थं क्षयन्निह निवसन्नस्माभिः कृतान्येनांसि शिश्रथः श्लथय।
याज्यामाह - उदुत्तममिति। हे वरुणोत्तममुत्तमाङ्गे शिरसि स्थापितं त्वदीयं पाशमुत्कृष्य श्रथय विनाशय। अधममधमाङ्गे पादप्रदेशे स्थापितं पाशमवकृष्य विनाशय। मध्यमं मध्यप्रदेशे स्थापितं पाशं विच्छेदय। अथ पाशत्रयविनाशानन्तरं हे आदित्य सूर्यसदृश वरुण वयमनागसः पापरहिताः सन्तस्तव व्रते स्वकीयकर्मणि अदितयेऽखण्डितत्वाय स्याम योग्या भवेम।
तृतीयस्य हविषः पुरोनुवाक्यामाह - दधि क्राव्ण इति। दधि क्रामति प्राप्नोतीति दधिक्रावा, एतन्नामको दधिप्रियः कश्चिद्देवविशेषः। अग्निरित्यान्ये। तस्य देवस्याकारिषमहं कर्म कृतवानस्मि। कीदृशस्य। जिष्णोर्जयशीलस्याश्वस्य व्यापिनो वाजिनोऽन्नवतः। स देवो नोऽस्माकं मुखं सुरभि करत्कर्पूरादिद्रव्यसमृद्धिप्रदानेन सुगन्धोपेतं करोतु। अस्माकमायूंषि च प्रतारिषत्प्रवर्धयतु।
याज्यामाह - आ दधिक्रा इति। अयं दधिक्राः पञ्च कृष्टीर्निषादपञ्चमैश्चतुर्भिर्वर्णैः पञ्चविधान्मनुष्यानाततान सर्वतो विस्तारयति। किं कृत्वा। शवसाऽन्नेन संयोज्य। यथा सूर्यो ज्योतिषा रश्मिना भूरसमादाय वर्षर्तावपो विस्तारयति तद्वत्। कीदृशो दधिक्राः। सहस्रसंख्याकं धनं सनोति ददातीति सहस्रसाः। तथा शतसाः। वाज्यन्नवान्। अर्वा कर्मभूमौ गमनवान्। तादृशो देवो मध्वा मधुराणि मदीयानीमानी स्तुतिरूपाणि वचांसि संपृणक्त्वङ्गी करोतु।
पूर्वोक्तामेव त्रिहविष्कामिष्टिं फलान्तराय विधत्ते -
“एतामेव निर्वपेत्प्रजाकामः संवत्सरो वा एतस्याशान्तो योनिं प्रजायै पशूनां निर्दहति योऽलं प्रजायै सन्प्रजां न विन्दते यद्वैश्वानरो द्वादशकपालो भवति संवत्सरो वा अग्निर्वैश्वानरः संवत्सरमेव भागधेयेन शमयति सोऽस्मै शान्तः स्वाद्योनेः प्रजां प्र जनयति वारुणेनैवैनं वरुणपाशान्मुञ्चति दधिक्राव्णा पुनाति हिरण्यं दक्षिणा पवित्रं वै हिरण्यं पुनात्येवैनं विन्दते प्रजाम्” (सं॰ का॰ २ प्र॰ २ अ॰ ५) इति।
यौवनादिसंपत्त्या प्रजामुत्पादयितं योग्यो यः प्रजां न लभत एतस्य प्रजार्थं प्रवृत्तं योनिं गर्भधारणस्थानमशान्तः संवत्सरो देवो वैश्वानरो निःशेषेण दहति एवं पशुष्वपि योज्यम्। द्वादशकपालेन तु शान्तो योनिं समाधाय प्रजामुत्पादयति।
तस्य पूतत्वादिफलार्थमेकहविष्कामिष्टिं विधत्ते - “वैश्वानरं द्वादशकपालं निर्वपेत्पुत्रे जाते यदष्टाकपालो भवति गायत्रियैवैनं ब्रह्मवर्चसेन पुनाति यन्नवकपालस्त्रिवृतैवास्मिन्तेजो दधाति यद्दशकपालो विराजैवास्मिन्नन्नाद्यं दधाति यद्दशकपालस्त्रिष्टुभैवास्मिन्निन्द्रियं दधाति यद्द्वादशकपालो जगत्यैवास्मिन्पशून्दधाति यस्मिञ्जात एतामिष्टिं निर्वपति पूत एव तेजस्व्यन्नाद इन्द्रियावी पशुमान्भवति” (सं॰ का॰ २ प्र॰ २ अ॰ ५) इति।
द्वादशत्वसंख्यान्तर्गताभिरष्टत्वादिसंख्याभिर्गायत्र्यादिसाम्यमापाद्य प्रशंसति।
एतामेवेष्टिं दर्शाद्यत्ययप्रायश्चितार्थं विधत्ते - “अव वा एष सुवर्गाल्लोकाच्छिद्यते यो दर्शपूर्णमासयाजी सन्नमावास्यां वा पौर्णमासी वाऽतिपादयति सुवर्गाय हि लोकाय दर्शपूर्णमासाविज्येते वैश्वानरं द्वादशकपालं निर्वपेदमावास्यां वा पौर्णमासीं वाऽतिपाद्य संवत्सरो वा अग्निर्वैश्वानरः संवत्सरमेव प्रीणात्यथो संवत्सरमेवास्मा उपदधाति सुवर्गस्य लोकस्य समष्ट्या अथो देवता एवान्वारभ्य सुवर्गं लोकमेति” (सं॰ का॰ २ प्र॰ २ अ॰ ५) इति।
यदा संवत्सरमेवोपदधाति विच्छेदरहितं करोति तदा संवत्सरस्यावयव-योर्दर्शपूर्णिमादिनयोरनुष्ठानस्य कुतोऽत्ययः। किंच संवत्सरे प्रीते सर्वदेवतानां प्रीतत्वात्ता देवता आश्रित्य तदनुग्रहेण स्वर्गं प्राप्नोति।
आधानेन समृद्धिरहितो योऽग्निमुद्वासयिष्यति तस्य द्विहविष्कामिष्टिं विधत्ते - “वीरहा वा एष देवानां योऽग्निमुद्वासयते न वा एतस्य ब्राह्मणा ऋतायवः पुराऽन्नमक्षन्नाग्नेयमष्टाकपालं निर्वपेद्वैश्वानरं द्वादशकपालमग्निमुद्वासयिष्यन्यद-ष्टाकपालो भवत्यष्टाक्षरा गायत्री गायत्रोऽग्निर्यावानेवाग्तिस्तस्मा आतिथ्यं करोत्यथो यथा जनं यतेऽवसं करोति तादृगेव तद्द्वादशकपालो वैश्वानरो भवति द्वादश मासाः संवत्सरः संवत्सरः खलु वा अग्नेर्योनिः स्वामेवैनं योनिं गमयत्यद्यमस्यान्नं भवति” (सं॰ का॰ २ प्र॰ २ अ॰ ५) इति।
अष्टत्वसंख्यया गायत्रीद्वारा तत्सहोदरस्याग्नेः सर्वस्याप्यातिथ्यं कृतं भवति। किंच यथा लोके दूरदेशवर्तिनं पितृभ्रात्रादिरूपं जनं प्रति यते गच्छते पुरुषायावसं रक्षकं पाथेयं करोति तादृशमिदमुद्वासयिष्यमाणायाग्नये पुरो-डाशप्रदानम्। द्वादशसंख्यया मासद्वारा संवत्सररूपां स्वयोनिमेवाग्निं गमयति। अग्नेरनुग्रहेणास्य समीचीनमन्नं भवति।
अत्राऽऽग्नेये हविषि याज्यापुरोनुवाक्ययोः प्रतीकद्वयमाह - अग्निर्मूर्धा भुव इति। अनयोरग्निर्मूर्धेत्यसौ पुरोनुवाक्या। सा चोपप्रयन्त इत्यानुवाके व्याख्याता। भुवो यज्ञस्येत्यसौ याज्या। सा तु चतुर्थकाण्ड आम्नातत्वात्तत्रैव व्याख्यास्यते।
प्रजाभिः समृद्धं ग्रामं कामयमानस्य द्विहविष्कामिष्टिं विधत्ते - “वैश्वानरं द्वादशकपालं निर्वपेन्मारुत सप्तकपालं ग्रामकामः” (सं॰ का॰ २ प्र॰ २ अ॰ ५) इति।
प्रकृतावष्टाकपालैकादशकपालयोर्हविषोरेकस्मिन्नेवाग्नावधिश्रितत्वादत्रापि तत्प्राप्तावपवदति - “आहवनीये वैश्वानरमधि श्रयति गार्हपत्ये मारुतं पापवस्यसस्य विधृत्यै” (सं॰ का॰ २ प्र॰ २ अ॰ ५) इति।
वसीयोऽत्यधिकं यत्पापं तत्पापवस्यसं तस्य ग्रामप्राप्तिप्रतिबन्धकपापस्य विधृत्यै वियोजनायेत्यर्थः।
द्वादशत्वसंख्यां प्रशंसति - “द्वादशकपालो वैश्वानरो भवति द्वादश मासाः संवत्सरः संवत्सरेणैवास्मै सजाताश्च्यवयति” (सं॰ का॰ २ प्र॰ २ अ॰ ५) इति।
अस्मै यजमानार्थं सजातान्समानकुले समुत्पन्नान्मनुष्यांश्च्यावयति प्रह्वीभूतान्करोति।
मरुद्देवतां प्रशंसति - “मारुतो भवति मारुतो वै देवानां विशो देवविशेनैवास्मै मनुष्यविशमव रुन्धे” (सं॰ का॰ २ प्र॰ २ अ॰ ५) इति।
विशः करप्रदाः प्रजाः। वैदिकप्रजानुग्रहेण मानुषप्रजासमृद्धिं संपादयति।
सप्तसख्यां प्रशंसति - “सप्तकपालो भवति सप्तगणा वै मरुतो गणश एवास्मै सजातानव रुन्धे” (सं॰ का॰ २ प्र॰ २ अ॰ ५) इति।
ईदृङ्चान्यादृङ्चेत्यादिनामधारिणां सप्तानां समूहः प्रथमो गणः। शुक्रज्योतिश्चेत्यादिको द्वितीयः। ऋतजिच्चेत्यादिकस्तृतीयः ऋतश्चेत्यादि-कश्चतुर्थः। ईदृक्षास इत्यादिकः पञ्चमः। मितासश्चेत्यादिकः षष्ठः। गणान्तरं शाखान्तरे द्रष्टव्यम्। वैदिकगणानुग्रहेणैव ज्ञातिगणान्बहून्संपादयति।
प्रकृतौ हविःष्वासादितेषु पश्चात्सामिधेनीप्रेषणे कृते ताः सामिधेन्योऽनू-च्यन्ते तद्वदत्रापि सामिधेनीभ्यः प्रागेवाऽऽसादनं वैश्वानरस्य क्रियते। मारुतासादनस्य तु सामिधेन्यनुवचनकालीनत्वं विधत्ते - “अनूच्यमान आ सादयति विशमेवास्मा अनुवर्त्मानं करोति” (सं॰ का॰ २ प्र॰ २ अ॰ ५) इति।
प्रजां यजमानानुगामिनीं करोतीत्यर्थः।
अथ मारुतयागे पुरोनुवाक्यामाह - मरुत इति। हे मरुतो यद्यस्मात्कारणाद्वयं सुम्नायन्तः सुखमिच्छन्तो दिवे। द्युलोकाद्वो युष्मान्हवामह आह्वयामस्तस्मादाहूता यूयं नोऽस्मानुपगन्तन प्राप्नुत।
याज्यामाह - या वः शर्मेति। हे मरुतो वो युष्माञ्शशामानाय यजमानाय दातुं या शर्म यानि सुखानि सन्ति संपादितानि विद्यन्ते, त्रिधातूनि त्रिस्थानानि लोक-त्रयवर्तीनि यानि सुखानि दाशुषे हविर्दत्तवतेऽधियच्छताधिकं यथा भवति तथा भवन्तः प्रयच्छन्ति तानि सर्वाण्यस्मभ्यं वियन्त प्रयच्छत। किंच वृषणोऽभिमतफलस्य वर्षितारो रयिं धनं नोऽस्मभ्यं धत्त संपादयत। सुवीरं शोभनपुत्रं च संपादयत।
इष्ट्यन्तरं विधत्ते - “आदित्यं चरुं निर्वपेत्संग्राममुपप्रयास्यन्नियं वा अदितिरस्यामेव पूर्वे प्रतितिष्ठन्ति” (सं॰ का॰ २ प्र॰ २ अ॰ ५) इति।
“उपप्रयास्यञ्जिगमिषुः। अनयेष्ट्या जितसंग्रामाः पूर्वे पुरुषा भूमावेव प्रतितिष्ठन्ति तद्वदयमपीत्यर्थः।”
अत्र युग्मद्वयमाम्नातम्। तत्र प्रथमयुग्मे पुरोनुवाक्यामाह — अदितिर्नेति। उरुष्यतु शत्रुभ्यो रक्षतु। स्पष्टमन्यत्।
याज्यामाह — महीमू ष्विति। अदितिमु अदितिदेवतामेवावसेऽस्मद्रक्षार्थं सुहुवेम सुष्ठु आह्वयामः। कीदृशीम्। महीं महनीयां सुव्रतानां मातरं शोभनकर्मणां पुरुषाणां मातृवद्धितकारिणीम्, ऋतस्य पत्नीं सत्वस्य पालयित्रीं, तुविक्षत्त्रां बहुराजपालिताम्, अजरन्तीं सदा जरारहिताम्, उरूचीं विस्तीर्णगतिं, सुशर्माणं समीचीनसुखोपेतां सुप्रणीतिं सुखेन कर्मणां प्रणेत्रीम्।
द्वितीययुग्मे पुरोनुवाक्यामाह - सुत्रामाणमिति। स्वस्तये क्षेमायादितिमारुहेम प्राप्नुयाम। कीदृशीम्। सुत्रामाणं सुष्ठुत्रात्रीम्। पृथिवीं विस्तीर्णाम्। द्यां द्योतमानाम्। अनेहसं कालात्मिकां चिरकालस्थायिनीमित्यर्थः। दैवीं नावम्। यथा मनुष्यानिर्मिता नौः समुद्रस्योपरि तिष्ठति तथा देवनिर्मिता भूमिर्महाजलस्योपरि वर्तत इत्यर्थः। स्वरित्रां सुप्ठु शत्रुभ्यः पालयित्रीम्। अनागसं पापरहिताम्। अस्रवन्तीं छिद्ररहिताम्।
याज्यामाह - इमास्विति। इमां भूमिं नावं नौसदृशीं सुष्ठ्वारुहं प्राप्तवानस्मि। कीदृशीम्। शतसंख्याकान्यरित्राणि चोरेभ्यो रक्षकाण्यायुधानि यस्यां ता शतारित्रा तां दिक्पालकैः पालितामित्यर्थः। शतसंख्याकाः स्फ्यसदृशास्तरणदण्डा यस्यां सा शतस्फ्या ताम्। मण्डूककूर्मादिभिर्जलस्योपरि धारितामित्यर्थः। अच्छिद्रामधोभागे जलस्य प्रवेशच्छिद्ररहितात्। पारयिष्णुमभीष्टफलस्य पारं नेतुं समर्थाम्।
युद्धभूमिं प्राप्तस्य जयार्थिन इष्टिं विधत्ते- “वैश्वानरं द्वादशकपालं निर्वपेदायतनं गत्वा संवत्सरो वा अग्निर्वैश्वानरः द्वादशकपालं निर्वपति देवानामेवाऽऽयतने यतते जयति त संग्रामम्” (सं॰ का॰ २ प्र॰ २ अ॰ ६) इति।
यस्मिन्नायतने युद्धं भविष्यति तत्प्राप्य तस्मिन्प्रदेशे निर्वपेत्। संवत्सरदेवताया भूबलस्य स्वामित्वात्तया पालिते देशे देवानां जयस्तद्वदयमपि प्रयतते तस्माज्जयति।
मारणादिपापार्थं प्रवृत्तयोः परस्परवैरिणोरन्नं यो भुङ्क्ते तस्य प्रायश्चित्तरू-पामिष्टिं विधत्ते - “एतस्मिन्वा एतौ मृजाते यो विद्विषाणयोरन्नमत्ति वैश्वानरं द्वादशकपालं निर्वपेद्विद्विषाणयोरन्नं जग्ध्वा संवत्सरो वा अग्निर्वैश्वानरः संवत्सरस्वदित-मेवात्ति नास्मिन्मृजाते” (सं॰ का॰ २ प्र॰ २ अ॰ ६) इति।
अविचारादिना परस्परमारणोद्युक्तौ विद्विषाणौ तावेतौ स्वकीयान्नभुजि स्वकीयं पापं मृजाते लेपयतः। संवत्सरदेवेन स्वदितं निर्दोषीकृतमेवान्नम-सावत्ति। अतस्तौ नास्मिँल्लेपयतः।
यावुभौ परस्परमद्रोहाय शपथं कुरुतस्तयोर्मध्ये प्रथमं द्रुह्यतः प्रायश्चित्तायेष्टिं विधत्ते-
“संवत्सराय वा एतौ सममाते यौ सममाते तयोर्यः पूर्वोऽभिद्रुह्यति तं वरुणो गृह्णाति वैश्वानरं द्वादशकपालं निर्वपेत्सममानयोः पूर्वोऽभिद्रुह्य संवत्सरो वा अग्निर्वैश्वानरः संवत्सरमेवाऽऽप्त्वा निर्वरुणं परस्तादभिद्रुह्यति नैनं वरुणो गृह्णाति” (सं॰ का॰ २ प्र॰ २ अ॰ ६) इति।
संवत्सराय संवत्सरदेवं साक्षिणं कृत्वेत्यर्थः। सममाते सम्यक्शपथं कुरुतः। वरुणग्रहणं नाम रोगोत्पत्तिः। निर्वरुणं रोगनिवारकं संवत्सरदेवमेव प्रथमतः। प्राप्य पश्चात्तद्बलेन युक्तो द्रोहं कृतवान्भवति। ततो नास्य वरुणग्रहणं भवति।
अविं प्रतिगृहीतवतः पापपरिहारायोष्टिं विधत्ते- “आव्यं वा एष प्रतिगृह्णाति योऽविं प्रतिगृह्णाति वैश्वानरः द्वादशकपालं निर्वपेदविं प्रतिगृह्य संवत्सरो वा अग्निर्वैश्वानरः संवत्सरस्वदितामेव प्रतिगृह्णाति नाऽऽव्यं प्रतिगृह्णाति” (सं॰ का॰ २ प्र॰ २ अ॰ ६) इति।
अवत्यस्मादित्याव्यं पापम्। श्लेष्मरोग इति केचित्। संवत्सरेण स्वदितां निर्दोषीकृतम्।
अधस्तादुपरिष्टाच्चोभयतो दन्तैर्युक्तं प्राणिस्वरूपं प्रतिगृहीतवतः पापपरिहारायेष्टिं विधत्ते- “आत्मनो वा एष मात्रामाप्नोति य उभयादत्प्रतिगृह्णात्यश्वं वा पुरुषं वा वैश्वानरं द्वादशकपालं निर्वपेदुभयादत्प्रतिगृह्य संवत्सरो वा अग्निर्वैश्वानरः संवत्सरस्वदितमेव प्रतिगृह्णाति नाऽऽत्मनो मात्रामाप्नोति” (सं॰ का॰ २ प्र॰ २ अ॰ ६) इति। मात्रां हिंसाम्। उभयतो दन्ता यस्य तत्स्वरूपमुभयादत्।
धनलाभमुद्दिश्य दातृसमीपं गमिष्यत इष्टिं विधत्ते- “वैश्वानरं द्वादशकपालं निर्वपेत्सनिमेष्यन्त्संवत्सरो वा अग्निर्वैश्वानरो यदा खलु वै संवत्सरं जनतायां चरत्यथ स धनार्घो भवति यद्वैश्वानरं द्वादशक-पालं निर्वपति संवत्सरसातामेव सनिमभि प्रच्यवते दानकामा अस्मै प्रजा भवन्ति” (सं॰ का॰ २ प्र॰ २ अ॰ ६) इति।
सनिं धनलाभम्। लोके यो याचको दातृजनसमूहे संवत्सरं चरति तदानीमसौ धनसमृद्धो भवति। संवत्सरदेवेन सातां दत्तामेव सनिं धनलब्धिमभिप्राप्नोति। अस्य प्रजाश्च दानशीला भवन्ति।
तयेष्ट्या दातृसमीपे धनं लब्ध्वा गृहे समागतस्य नैमित्तिकीमिष्टिं विधत्ते- “यो वै संवत्सरं प्रयुज्य न विमुञ्चत्यप्रतिष्ठानो वै स भवत्येमेव वैश्वानरं पुनरागत्य निर्वपेद्यमेव प्रयुङ्क्ते तं भागधेयेन विमुञ्चति प्रतिष्ठित्यै” (सं॰ का॰ २ प्र॰ २ अ॰ ६) इति।
संवत्सररूपं वैश्वानरं प्रयुज्य धनलाभार्थमिष्ट्या निर्बध्य यो न मुञ्चेत्सोऽप्रतिष्ठितो भवति। पुनरिष्ट्या तदीयभागं दत्त्वा तं विमुञ्चति विसर्जितवान्भवति।
तत्रेतिकर्तव्यतां कांचिद्विधत्ते- “यया रज्ज्वोत्तमां गामाजेत्तां भ्रातृव्याय प्रहिणुयान्नितिमेवास्मै प्रहिणोति” (सं॰ का॰ २ प्र॰ २ अ॰ ६) इति।
दातृभ्यो लब्धासु गोषूत्तमां गां यया रज्ज्वा बद्ध्वा समानयति तां रज्जुं भ्रातृव्यविनाशार्थं तदीयगोष्ठे प्रक्षिपेत्। तथा सति नितिं दारिद्र्यरूपां राक्षसीमेव भ्रातृव्यार्थं प्रेषयति।
अत्र विनियोगसंग्रहः -
“अन्त्यानुवाकगा याज्या यागे वैश्वानराभिधे।
वैश्वेत्यष्टौ विकल्पः स्युरवद्वे वारुणे चरौ॥१॥
दधीति दध्यादिचरावग्न्युद्वासनयागके।
अग्निर्भुव इति द्वे स्तः प्रतीके ते उभे मते॥२॥
मरुत्सप्तकपालेष्टावदीत्यादित्यके चरौ।
चतस्रः स्युर्विकल्पार्थ इति प्रश्नोऽत्र पञ्चमः॥३॥” इति।
प्रथमाध्यायस्य चतुर्थपादे चिन्तितम्।
“यद्द्वादशकपालेष्टेर्वैश्वानर्या अनन्तरम्।
श्रुतमष्टाकपालादि तद्गुणो नाम वा स्तुतिः॥
अन्तर्भावादष्टतादेर्नाम स्यादग्निहोत्रवत्।
द्रव्यं द्रव्यान्तरे नो चेद्गुणस्तर्हि फलत्यसौ॥
वाक्यैक्यमुपसंहाराद्विस्पष्टं तत्तु बाध्यते।
नानागुणविधौ तस्मादंशद्वारांऽशिसंस्तुतिः”॥ इति।
काम्येष्टिकाण्डे श्रूयते - “वैश्वानरं द्वादशकपालं निर्वपेत्पुत्रे जाते यदष्टाकपालो भवति गायत्रियैवैनं ब्रह्मवर्चसेन पुनाति यन्नवकपालस्त्रि-वृतैवास्मिन्तेजो दधाति यद्दशकपालो विराजैवास्मिन्नन्नाद्यं दधाति यदेकादशकपालस्त्रिष्टुभैवास्मिन्निन्द्रियं दधाति यद्द्वादशकपालो जगत्यैवास्मिन्पशून्दधाति यस्मिञ्जात एतामिष्टिं निर्वपति पूत एव तेजस्व्यन्नाद इन्द्रियावी पशुमान्भवति” (सं॰ का॰ २ प्र॰ २ अ॰ ६) इति
अत्राष्टत्वादिसंख्यासामान्यात्पुरोडाशानां गायत्र्यादिरूपत्वकल्पना कृता। इष्टिविधायके वाक्ये येयं द्वादशसंख्या तस्यामष्टत्वादिसंख्यानामन्तर्भावात्ताः संख्या निमित्तीकृत्याग्निहोत्रशब्दवदष्टाकपालादिशब्दाः कर्मनामधेयानीत्येकः पक्षः। नात्र द्वादशकपालशब्दः संख्यापरः किंतु पुरोडाशद्रव्यपरः। द्वादशसु कपालेषु संस्कृत इति व्युत्पत्तेः। एवमष्टाकपालादिशब्दा अपि। तथा सति द्रव्यस्य द्रव्यान्तरेऽनन्तर्भावान्नामधेयस्य निमित्तं नास्तीति चेदेवं तर्हि पुरोडाशद्रव्यरूपो गुणो विधीयताम्। न चोत्पत्तिशिष्टद्वादशकपालपुरोडाशावरुद्धत्वादष्टाकपालादेरनवकाश इति वाच्यम्। ब्रह्मवर्चसादिफलाय तद्विध्युपपत्तेरित्यपरः पक्षः। अयमप्युपपन्नः। बहूनां गुणानां विधौ वाक्यभेदापत्तेः। न च भिन्नान्येवैतानि वाक्यानीति वाच्यम्। वैश्वानरं द्वादशकपालं निर्वपेदिति विहितस्य यस्मिञ्जात एतामित्युपसंहारेण वाक्यैकत्वावगमात्। तस्मादंशैरष्टाकपा-लादिभिरंशी द्वादशकपालः स्तूयते।
चतुर्थाध्यायस्य तृतीयपादे चिन्तितम्-
“वैश्वानरेष्ट्या पूतत्वं पितुः पुत्रस्य वाऽग्रिमः।
कर्तुरेव फलं युक्तं कर्तृत्वं पितुरेव हि॥
जाते यस्मिन्निष्टिमेतां निर्वपेत्तस्य पूतता।
तच्चेप्सितं पितुस्तेन पिता तत्र प्रवर्तते” इति॥
काम्येष्टिकाण्डे वैश्वानरं द्वादशकपालं निर्वपेत्पुत्रे जात इति प्रकृत्य श्रूयते - “यस्मिञ्जात एतामिष्टिं निर्वपति पूत एव तेजस्व्यन्नाद इन्द्रियावी पशुमान्भवति” इति। तत्र पितुः प्रबुद्धस्य कर्तृत्वं न तु मुग्धस्य पुत्रस्य। ततोऽनुष्ठानफलयोर्वैयधिकरण्यपरिहाराय पितुरेव पूतत्वादिफलमिति चेत्, मेवम्। यस्मिञ्जाते निर्वपति स पूत इति वाक्येन फलस्य पुत्रसंबन्धा-वगमात्। न चात्र निष्फलस्य पितुः (तुर) प्रवृत्तिरिति वाच्यम्। पुत्रनिष्ठपूत-त्वादेरीप्सितत्वेन स्वफलबुद्ध्या प्रवृत्तिसंभवात्। तस्मात्पुत्रस्य पूतत्वादिकम्।
तत्रैवान्यच्चिन्तितम् -
“जन्मानन्तरमेवेष्टिर्जातकर्मणि वा कृते।
निमित्तानन्तरं कार्यं नैमित्तिकमतोऽग्रिमः॥
जातकर्मणि निर्वृत्ते स्तनप्राशनदर्शनात्।
प्रागेवेष्टौ कुमारस्य विपत्तेरूर्ध्वमस्तु सा” इति॥
पुत्रजन्मनो वैश्वानरेष्टिनिमित्तत्वान्नैमित्तिकस्य कालविलम्बायोगाज्जन्मान-न्तरमेवोष्टिरिति चेन्मैवम्। स्तनप्राशनं तावज्जातकर्मानन्तरं विहितम्। यदि जातकर्मणः प्रागेव वैश्वानरेष्टिर्निरुप्यते तदा स्तनप्राशनस्यात्यन्तविलम्बनात्पुत्रो विपद्येत। तथा सति पूतत्वादिकमिष्टिफलं कस्य स्यात्। तस्मान्न जन्मानन्तरं किंतु जातकर्मण ऊर्ध्वं सेष्टिः।
तत्रैवान्यच्चिन्तितम्-
“जातकर्मानन्तरं स्यादाशौचेऽपतेऽथवा।
निमित्तसंनिधेराद्यः कर्तृनिधेराद्यः कर्तृशुद्ध्यर्थ उत्तरः” इति॥
यद्यपि जातकर्मानन्तरमेव तदनुष्ठाने निमित्तभूतं जन्म संनिहितं भवति तथाऽप्यशुचिना पित्राऽनुष्ठीयमानमङ्गविकलं भवेत्। जातकर्मणि तु विपत्तिपरिहाराय तात्कालिकी शुद्धिः शास्त्रेण दर्शिता। ततो मुख्यसंनिधेर-वश्यंबाधितत्वाच्छुद्धिलक्षणाङ्गवैकल्यं वारयितुमाशौचादूर्ध्वमिष्टिं कुर्यात्।
“वैश्वानरे पाथिकृते साहित्यं वा विकल्पनम्।
साहित्यं स्याददृष्टाय विकल्पः स्यात्समाधये” इति॥
विहितयोर्दर्शपूर्णमासयोः कदाचिदननुष्ठाने प्रायश्चित्तं श्रूयते - “वैश्वानरं द्वादशकपालं निर्वपेदमावास्यां वा पौर्णमासीं वाऽतिपाद्य” इति। “अग्नये पथिकृते पुरोडाशमष्टाकपालं निर्वपेद्यो दर्शपूर्णमासयाजी सन्नमावास्यां वा पौर्णमासीं वाऽतिपादयेत्” इति च। अत्र पूर्वदृष्टप्रयोजनाभावाददृष्टार्थमुभयं समुच्चित्यानुष्ठेयमिति चेन्न। यज्ञवैगुण्यसमाधेर्दृष्टप्रयोजनत्वा-दन्योन्यनिरपेक्षयोर्द्वयोर्व्रीहियववद्विकल्पः। एवमृग्यजुःसामवेदेषु विहित-स्याननुष्ठानान्निषिद्धस्याऽऽचरणाद्वा यद्यज्ञवैगुण्यं तस्य वैगुण्यमात्रस्य सर्वस्य समाधानाय निरपेक्षाणि प्रायश्चित्तानि विहितानि - “भूः स्वाहेति गार्हपत्ये जहुयात्, भुवः स्वाहेति दक्षिणाग्नौ जुहुयात्’ भूर्भुवः सुवः स्वाहेत्याहवनीये जुहुयात्” इति। तान्येतानि विकल्प्यन्ते। प्रत्येकं वैगुण्यसमाधानक्षमत्वात्॥
वेदार्थस्य प्रकाशेन तमो हार्दं निवारयन्।
पुमर्थांश्चतुरो देयाद्विद्यातीर्थमहेश्वरः॥१॥
इति श्रीमद्विद्यातीर्थमेहश्वरापरावतारस्य श्रीमद्राजाधिराज-
परमेश्वरस्य श्रीवीरबुक्कमहाराजस्याऽऽज्ञापरिपालकेन
माधवाचार्येण विरचिते वेदार्थप्रकाशे कृष्ण-
यजुर्वेदीयतैत्तिरीयसंहिताभाष्ये प्रथम-
काण्डे पञ्चमः प्रपाठकः॥५॥
—--------------------------------
भट्टभास्करभाष्यम् (Bhatta Bhaskara Commentary)
अथ त्रिहविषि मध्यमस्य वारुणस्य पुरोनुवाक्या - अवते हेड इति त्रिष्टुप् ॥ हे वरुण ते तव हेडः क्रोधमभिशस्त्यादिहेतुं नमोभिर्नमस्कारैरवेमहे अपनयामः । ई गतौ, शपो लुक् । यज्ञैश्च पूजामन्त्रैश्च हविर्भिः पुरोडाशादिभिश्चावेमहे अपनयामः । ततस्त्वमस्मभ्यमस्मदर्थमेव हे क्षयन्निवसन् अस्मदुपकारायैव यतमान । क्षियतेर्व्यत्ययेन शप्, क्षयतिरेव वा निवासकर्मा, षाष्ठिकमामन्त्रिताद्युदात्तत्वम् । अस्मदीयानि कृतान्येनांसि पापानि शिश्रथः श्रथय हे असुर रक्षसां निरसितः प्रचेतः प्रकृष्टमते राजन् सदा दीप्यमान ॥
सुत्रामाणं सुष्ठु त्रत्रीं रक्षित्रीम् । 'आतो मनिन्' इति मनिन् । पृथिवीं विस्तीर्णाम् । प्रथेष्षिवन् सम्प्रसारणम् । द्यां द्युमतीमनेहसमपापाम् । पूर्ववदन्तोदात्तत्वम् । सुशर्माणमित्यादि गतम् । दैवीं देवानामियम् । 'देवाद्यञञौ' इत्यञ् । नावं नौसदृशीं स्वरित्रां शोभनारित्राम् । पूर्ववदन्तोदात्तत्वम् । अरित्रंनाम नौस्तम्भनदण्डः । अनागसमागो दोषः । पूर्ववत्प्रकृतिस्वरत्वम् । अस्रवन्तीमच्छिद्रां स्वस्तयेऽविनाशायारुहेमारुह्याम । 'लिङ्याशिष्यङ्' 'अन्येषामपि दृश्यते' इति संहितायां दीर्घत्वम् ॥
हामि । छान्दसे लुङि 'कृमृदृरुहिभ्यः' इत्यङ् ॥
इति भट्टभास्करमिश्रविरचिते यजुर्वेदभाष्ये ज्ञानयज्ञाख्ये
प्रथमकाण्डे पञ्चमप्रपाठके एकादशोनुवाकः ॥
समाप्तश्च प्रपाठकः ॥
—-------------------------------------