अनुवाकः 11 TS 1.5.11

(A11)

(दिवा॒ स-स॑ह॒स्रिणं॒ ॅवैश्वा॑नरा-दित्य॒- तू नो ॑- ऽने॒हसꣳ॑ सु॒शर्मा॑ण॒-मेका॒न्नविꣳ॑श॒तिश्च॑ )

अनुवाकः 11 - Complete Audio

TS 1.5.11 - स्वरानुगामी

0:00 0:00
PS1.1 वै॒श्वा॒न॒रो न॑ ऊ॒त्याऽऽ प्र
PS1.2 या॑तु परा॒वतः॑
PS1.3 अ॒ग्निरु॒क्थेन॒ वाह॑सा
PS1.4 ऋ॒तावा॑नं ॅवैश्वान॒रमृ॒तस्य॒ ज्योति॑ष॒स्पतिं᳚
PS1.5 अज॑स्रं घ॒र्ममी॑महे
PS1.6 वै॒श्वा॒न॒रस्य॑ दꣳ॒॒सना᳚भ्यो बृ॒हदरि॑णा॒देकः॑ स्वप॒स्य॑या क॒विः
PS1.7 उ॒भा पि॒तरा॑ म॒हय॑न्नजायता॒ग्निर् द्यावा॑पृथि॒वी भूरि॑रेतसा
PS1.8 पृ॒ष्टो दि॒वि पृ॒ष्टो अ॒ग्निः
PS1.9 पृ॑थि॒व्यां पृ॒ष्टो विश्वा॒ ओष॑धी॒रा
PS1.10 वि॑वेश
PS1.11 वै॒श्वा॒न॒रः सह॑सा पृ॒ष्टो अ॒ग्निः
PS1.12 सनो॒ दिवा॒ स -
PS1.13 [ ]
PS2.1 रि॒षः पा॑तु॒ नक्तं᳚
PS2.2 जा॒तो यद॑ग्ने॒ भुव॑ना॒ व्यख्यः॑
PS2.3 प॒शुं न गो॒पा इर्यः॒
PS2.4 परि॑ज्मा
PS2.5 वैश्वा॑नर॒ ब्रह्म॑णे विन्द गा॒तुं
PS2.6 ॅयू॒यं पा॑त स्व॒स्तिभिः॒ सदा॑
PS2.7 नः
PS2.8 त्वम॑ग्ने शो॒चिषा॒ शोशु॑चान॒ आ
PS2.9 रोद॑सी अपृणा॒ जाय॑मानः
PS2.10 त्वं दे॒वाꣳ अ॒भिश॑स्तेरमुञ्चो॒ वैश्वा॑नर
PS2.11 जातवेदो महि॒त्वा
PS2.12 अ॒स्माक॑मग्ने म॒घव॑थ्सु धार॒याना॑मि क्ष॒त्रम॒जरꣳ॑ सु॒वीर्यं᳚
PS2.13 व॒यं ज॑येम श॒तिनꣳ॑ सह॒स्रिणं॒
PS2.14 ॅवैश्वा॑नर॒ - [ ]
PS3.1 वाज॑मग्ने॒ तवो॒तिभिः॑
PS3.2 वै॒श्वा॒न॒रस्य॑ सुम॒तौ स्या॑म॒ राजा॒
PS3.3 हिकं॒ भुव॑नाना-मभि॒श्रीः
PS3.4 इ॒तो जा॒तो विश्व॑मि॒दं ॅवि
PS3.5 च॑ष्टे वैश्वान॒रो य॑तते॒ सूर्ये॑ण
PS3.6 अव॑ ते॒ हेडो॑ वरुण॒
PS3.7 नमो॑भि॒रव॑ य॒ज्ञेभि॑रीमहे ह॒विर्भिः॑
PS3.8 क्षय॑न्न॒स्मभ्य॑मसुर प्रचेतो॒ राज॒न्नेनाꣳ॑सि शिश्रथः कृ॒तानि॑
PS3.9 उदु॑त्त॒मं ॅव॑रुण॒ पाश॑म॒स्मदवा॑ऽध॒मं ॅविम॑द्ध्य॒मꣳ श्र॑थाय
PS3.10 अथा॑ व॒यमा॑दित्य - [ ]
PS4.1 व्र॒ते तवाऽना॑गसो॒ अदि॑तये स्याम
PS4.2 द॒धि॒क्राव्.ण्णो॑ अकारिषं जि॒ष्णोरश्व॑स्य वा॒जिनः॑
PS4.3 सु॒र॒भिनो॒ मुखा॑ कर॒त् प्रण॒
PS4.4 आयूꣳ॑षि तारिषत्
PS4.5 आ द॑धि॒क्राः शव॑स॒॑ पञ्च॑
PS4.6 कृ॒ष्टीः सूर्य॑ इव॒ ज्योति॑षा॒ऽपस्त॑तान
PS4.7 स॒ह॒स्र॒साः श॑त॒सा वा॒ज्यर्वा॑ पृ॒णक्तु॒
PS4.8 मद्ध्वा॒ समि॒मा वचाꣳ॑सि
PS4.9 अ॒ग्निर् मू॒र्द्धाभुवः॑
PS4.10 मरु॑तो॒ यद्ध॑वो दि॒वः सु॑म्ना॒यन्तो॒ हवा॑महे
PS4.11 आ तू न॒ -
PS4.12 [ ]
PS5.1 उप॑ गन्तन
PS5.2 या वः॒ शर्म॑ शशमा॒नाय॒
PS5.3 सन्ति॑ त्रि॒धातू॑नि दा॒शुषे॑ यच्छ॒ताधि॑
PS5.4 अ॒स्मभ्यं॒ तानि॑ मरुतो॒ वि
PS5.5 य॑न्त र॒यिं नो॑ धत्त
PS5.6 वृषणः सु॒वीरं᳚
PS5.7 अदि॑तिर् न उरुष्य॒त्वदि॑तिः॒ शर्म॑ यच्छतु
PS5.8 अदि॑तिः पा॒त्वꣳह॑सः
PS5.9 म॒हीमू॒षु मा॒तरꣳ॑ सुव्र॒ताना॑मृ॒तस्य॒ पत्नी॒मव॑से हुवेम
PS5.10 तु॒वि॒क्ष॒त्रा-म॒जर॑न्ती-मुरू॒चीꣳ सु॒शर्मा॑ण॒मदि॑तिꣳ सु॒प्रणी॑तिं
PS5.11 सु॒त्रामा॑णं पृथि॒वीं द्याम॑ने॒हसꣳ॑ सु॒शर्मा॑ण॒
PS5.12 ( ) मदि॑तिꣳ सु॒प्रणी॑तिं
PS5.13 दैवीं॒ नावꣳ॑ स्वरि॒त्रा-मना॑गस॒-मस्र॑वन्ती॒मा रु॑हेमा स्व॒स्तये᳚
PS5.14 इ॒माꣳ सु नाव॒माऽरु॑हꣳ श॒तारि॑त्राꣳ श॒तस्फ्यां᳚
PS5.15 अच्छि॑द्रां पारयि॒ष्णुं

Report Timing Issue

Report timing issue for this location?

पञ्चशत् 1 #
TS 1.5.11.1 TS 1.5.11.1
वै॒श्वा॒न॒रो न॑ ऊ॒त्याऽऽ प्र या॑तु परा॒वतः॑ । अ॒ग्निरु॒क्थेन॒ वाह॑सा ॥ ऋ॒तावा॑नं ॅवैश्वान॒रमृ॒तस्य॒ ज्योति॑ष॒स्पतिं᳚ । अज॑स्रं घ॒र्ममी॑महे ॥ वै॒श्वा॒न॒रस्य॑ दꣳ॒॒सना᳚भ्यो बृ॒हदरि॑णा॒देकः॑ स्वप॒स्य॑या क॒विः । उ॒भा पि॒तरा॑ म॒हय॑न्नजायता॒ग्निर् द्यावा॑पृथि॒वी भूरि॑रेतसा ॥ पृ॒ष्टो दि॒वि पृ॒ष्टो अ॒ग्निः पृ॑थि॒व्यां पृ॒ष्टो विश्वा॒ ओष॑धी॒रा वि॑वेश । वै॒श्वा॒न॒रः सह॑सा पृ॒ष्टो अ॒ग्निः सनो॒ दिवा॒ स - [ ]
पदपाठः (Word-by-word)
वै॒श्वा॒न॒रः । नः॒ । ऊ॒त्या । आ । प्रेति॑ । या॒तु॒ । प॒रा॒वत॒ इति॑ परा - वतः॑ ॥ अ॒ग्निः । उ॒क्थेन॑ । वाह॑सा ॥ ऋ॒तावा॑न॒मित्यृ॒त-वा॒न॒म् । वै॒श्वा॒न॒रम् । ऋ॒तस्य॑ । ज्योति॑षः । पति᳚म् ॥ अज॑स्रम् । घ॒र्मम् । ई॒म॒हे॒ ॥ वै॒श्वा॒न॒रस्य॑ । दꣳ॒॒सना᳚भ्यः । बृ॒हत् । अरि॑णात् । एकः॑ । स्व॒प॒स्य॑येति॑ सु - अ॒प॒स्य॑या । क॒विः ॥ उ॒भा । पि॒तरा᳚ । म॒हयन्न्॑ । अ॒जा॒य॒त॒ । अ॒ग्निः । द्यावा॑पृथि॒वी इति॒ द्यावा᳚-पृ॒थि॒वी । भूरि॑रेत॒सेति॒ भूरि॑ - रे॒त॒सा॒ ॥ पृ॒ष्टः । दि॒वि । पृ॒ष्टः । अ॒ग्निः । पृ॒थि॒व्याम् । पृ॒ष्टः । विश्वाः᳚ । ओष॑धीः । एति॑ । वि॒वे॒श॒ ॥ वै॒श्वा॒न॒रः । सह॑सा । पृ॒ष्टः । अ॒ग्निः । सः । नः॒ । दिवा᳚ । सः ।
पदसंख्या: 50
सायणभाष्यम् (Sayana Commentary)

(अथ प्रथमकाण्डे पञ्चमप्रपाठके एकादशोऽनुवाकः)।

अथान्तिम एकादशानुवाके काम्या याज्या (पुरोनुवाक्या) उच्यन्ते। इष्टि-काण्डे त्रिहविष्का काचिदिष्टिराम्नायते -

“वैश्वानरं द्वादशकपालं निर्वेपेद्वारुणं चरुं दधिक्राव्णे चरुमभिशस्यमानो यद्वैश्वानरो द्वादशकपालो भवति संवत्सरो वा अग्निर्वैश्वानरः संवत्सरेणैवैन स्वदयत्यप पापं वर्ण हते वारुणेनैवैनं वरुणपाशान्मुञ्चति दधिक्राव्णा पुनाति” (सं॰ का॰ २ प्र॰ २ अ॰ ५) इति।

अभिशस्यमानः पातकारोपेण दूष्यमाणः। वैश्वानरशब्देन संवत्सराभिमानी कश्चिदग्निरुच्यते। तेनैव संवत्सराभिमानिनैनमभिशस्तं स्वात्मानं स्वदयति बन्धुभ्यो रोचयति। वर्णं वर्ण्यमानमारोप्यामाणं पापमपहते विनाशयति। पापिनं बद्ध्वा नेतुं प्रसारितो यो वरुणपाशस्तस्मादेनं स्वात्मानं पूतं करोति।

चोदकप्राप्तां दक्षिणान्तरं विधत्ते - “हिरण्यं दक्षिणा पवित्रं वै हिरण्यं पुनात्येवैनमाद्यमस्यान्नं भवति” (सं॰ का॰ २ प्र॰ २ अ॰ ५) इति।

आद्यमत्तुं योग्यं मृद्वन्नम्।

अस्यामिष्टौ प्रथमहविषो याज्यापुरोनुवाक्यायुग्मानि चत्वारि विकल्पितानि। तत्र प्रथमयुग्मे पुरोनुवाक्यामाह - वैश्वानर इति विश्वेषां नराणामुपकारी वैश्वानरोऽग्निरूत्या रक्षणनिमित्तं परावतो दूरादपि देशाद्वाहसा प्रापणसमर्थेनोक्थेनोक्थेनोत्थानपूर्वकेणाऽ-ऽगमनेन नोऽस्मान्प्रायातु प्रागच्छतु।

याज्यामाह - ऋतावानमिति। वैश्वानरमीमहे वयं प्राप्नुमः। कीदृशम्। ऋतावानं सत्यवन्तम्। ऋतस्य यज्ञस्य ज्योतिषोऽभीष्टफलप्रकाशकस्य पतिं पालकम्। अजस्रं घर्मं निरन्तरं दीप्यमानम्।

द्वितीययुग्मे पुरोनुवाक्यामाह - वैश्वानरस्येति। कविर्बुद्धिमानेको यजमानो वैश्वानरसंबन्धिनीभ्यो दंसनाभ्यः क्रियाभ्यो बृहन्महाफलमीरणात्प्राप्नोत्। अपःशब्दः कर्मवाची। शोभनमपः स्वपः। स्वपसो भावः स्वपस्यम्। तेन स्वपस्येन वैश्वानरयागस्य शोभनकर्मत्वेनेत्यर्थः। छान्दसो लिङ्गव्यत्ययः। अयमग्निर्द्युभूमिरूपौ प्रभूतरेतस्कौ स्वकीयमातापितरावुभौ महयँल्लोकपूज्यौ कुर्वन्स्वयमजायत। तस्मादेतदीयकर्मणो महाफलं युक्तमित्यर्थः।

याज्यामाह - पृष्टो दिवीति। पृष्ट इत्यत्र सकारलोपश्छान्दसः। अयमग्निर्दिवि स्पृष्ट आदित्यरूपेणावस्थितः पृथिव्यां दाहपाकप्रकाशकारित्वेनावस्थितस्तथा फलपाककारी सन्स्पृष्टः संबद्धः सर्वा अप्यौषधीराविवेश। वैश्वानरोऽग्निः सहसा बलेन स्पृष्टः संबद्धः। स तादृशो नोऽस्मान्दिवा रिषो हिंसकात्पा-पान्नक्तं रात्रावपि सोऽस्मान्पातु।

तृतीययुग्मे पुरोनुवाक्यामाह - जातो यदग्न इति। हेऽग्ने त्वं जातमात्र एव भुवनानि व्यख्यः स्वतेजसा विशेषेण ख्यापितवानसि। गोपाः पशु न पशुमिव। यथा गोपालकोऽनायासे नैव पशुरेतदीय इति ख्यापयति तद्वत्। कीदृशस्त्वम्। इर्य इरामन्नमर्हसि। परिज्मा परितो गन्ता। यद्यस्मादेवंविधस्त्वं ततो हे वैश्वानर ब्रह्मणे परिवृढायास्मै कर्मणे गातुं मार्गं विन्द लभस्व। यूयं स्वास्तिभिः श्रेयोभिः सदा नोऽस्मान्पात रक्षत। यूयमिति बहुवचनं पूजार्थम्।

याज्यामाह - त्वमग्न इति। हेऽग्ने त्वं शोशुचानो भृशं दीप्यमानो जायमान एव रोदसी द्यावापृथिव्यौ शोचिषा दीप्त्याऽऽपृणाः सर्वतः पूरितवानसि। हे जातवेद उत्पन्नजगद्वेदिन्वैश्वानर त्वं महित्वा स्वमहिम्ना देवानृत्विजोऽभिशस्तेः पापादमुञ्चे मोचितवानसि।

चतुर्थयुग्मे पुरोनुवाक्यामाह - अस्माकमिति। हेऽग्नेऽस्माकं क्षत्त्रं पालकं पुरुषं मघवत्सु धारयेन्द्रेषु स्थापयेन्द्रसमानं कुरु। कीदृशं क्षत्त्रम्। अनाम्यनमनशीलं कस्यचिदपि नमस्कारं न करोतीत्यर्थः। अजरं जरारहितम्। सुवीर्यमभग्नसामर्थ्यम्। हे वैश्वानर तवोतिभिस्त्वदीयैः पालनैर्वयमपि शतसहस्रसंख्योपेतं वाजमन्नं जयेम।

याज्यामाह - वैश्वानरस्येति। वयं वैश्वानरस्य सुमतावनुग्रहबुद्धौ स्याम तिष्ठेम। अभि-प्राप्तश्रीरयं वैश्वनरः सर्वेषां भुवनानां राजा हिकं प्रकाशकः खलु। इत एव कारणाज्जातमात्र एवेदं विश्वं विचष्टे विशेषेण प्रख्यापयति। अयं वैश्वानरः सूर्यरूपेण यतते दिवा प्रवर्तते। अत एवान्यत्राऽऽम्नातम् — “उद्यन्तं वावाऽदित्यमग्निरनु समारोहति” इति। तान्येतानि चत्वारि युग्मानि श्रूयमाणेषु सर्वेष्वपि वैश्वानरयागेषु इच्छया विकल्प्यन्ते। वैश्वानरलिङ्गस्य साधारणत्वाद्विशेषलिङ्गानां च स्पष्टानामदर्शनात्। यदि कश्चित्स्वबुद्ध्या विशेषलिङ्गं सूक्ष्ममुत्प्रेक्षेत तदा तदनुसारेण व्यावस्थाऽस्तु।

द्वितीयहविषः पुरोऽनुवाक्यामाह - अव ते हेड इति। हे वरुण ते हेडस्तव क्रोधं नमस्कारैरवेमहे शमयामः। यज्ञेभिर्यज्ञविशेषैर्हविर्भिश्च पुरोडाशादिभिरवेमहे शमयामः। हेऽसुर शुत्रुनिरसनक्षम

हे प्रचेतः प्रकृष्टचित्त हे राजन्दीप्यमानास्मभ्यमस्मदनुग्रहार्थं क्षयन्निह निवसन्नस्माभिः कृतान्येनांसि शिश्रथः श्लथय।

याज्यामाह - उदुत्तममिति। हे वरुणोत्तममुत्तमाङ्गे शिरसि स्थापितं त्वदीयं पाशमुत्कृष्य श्रथय विनाशय। अधममधमाङ्गे पादप्रदेशे स्थापितं पाशमवकृष्य विनाशय। मध्यमं मध्यप्रदेशे स्थापितं पाशं विच्छेदय। अथ पाशत्रयविनाशानन्तरं हे आदित्य सूर्यसदृश वरुण वयमनागसः पापरहिताः सन्तस्तव व्रते स्वकीयकर्मणि अदितयेऽखण्डितत्वाय स्याम योग्या भवेम।

तृतीयस्य हविषः पुरोनुवाक्यामाह - दधि क्राव्ण इति। दधि क्रामति प्राप्नोतीति दधिक्रावा, एतन्नामको दधिप्रियः कश्चिद्देवविशेषः। अग्निरित्यान्ये। तस्य देवस्याकारिषमहं कर्म कृतवानस्मि। कीदृशस्य। जिष्णोर्जयशीलस्याश्वस्य व्यापिनो वाजिनोऽन्नवतः। स देवो नोऽस्माकं मुखं सुरभि करत्कर्पूरादिद्रव्यसमृद्धिप्रदानेन सुगन्धोपेतं करोतु। अस्माकमायूंषि च प्रतारिषत्प्रवर्धयतु।

याज्यामाह - आ दधिक्रा इति। अयं दधिक्राः पञ्च कृष्टीर्निषादपञ्चमैश्चतुर्भिर्वर्णैः पञ्चविधान्मनुष्यानाततान सर्वतो विस्तारयति। किं कृत्वा। शवसाऽन्नेन संयोज्य। यथा सूर्यो ज्योतिषा रश्मिना भूरसमादाय वर्षर्तावपो विस्तारयति तद्वत्। कीदृशो दधिक्राः। सहस्रसंख्याकं धनं सनोति ददातीति सहस्रसाः। तथा शतसाः। वाज्यन्नवान्। अर्वा कर्मभूमौ गमनवान्। तादृशो देवो मध्वा मधुराणि मदीयानीमानी स्तुतिरूपाणि वचांसि संपृणक्त्वङ्गी करोतु।

पूर्वोक्तामेव त्रिहविष्कामिष्टिं फलान्तराय विधत्ते -

“एतामेव निर्वपेत्प्रजाकामः संवत्सरो वा एतस्याशान्तो योनिं प्रजायै पशूनां निर्दहति योऽलं प्रजायै सन्प्रजां न विन्दते यद्वैश्वानरो द्वादशकपालो भवति संवत्सरो वा अग्निर्वैश्वानरः संवत्सरमेव भागधेयेन शमयति सोऽस्मै शान्तः स्वाद्योनेः प्रजां प्र जनयति वारुणेनैवैनं वरुणपाशान्मुञ्चति दधिक्राव्णा पुनाति हिरण्यं दक्षिणा पवित्रं वै हिरण्यं पुनात्येवैनं विन्दते प्रजाम्” (सं॰ का॰ २ प्र॰ २ अ॰ ५) इति।

यौवनादिसंपत्त्या प्रजामुत्पादयितं योग्यो यः प्रजां न लभत एतस्य प्रजार्थं प्रवृत्तं योनिं गर्भधारणस्थानमशान्तः संवत्सरो देवो वैश्वानरो निःशेषेण दहति एवं पशुष्वपि योज्यम्। द्वादशकपालेन तु शान्तो योनिं समाधाय प्रजामुत्पादयति।

तस्य पूतत्वादिफलार्थमेकहविष्कामिष्टिं विधत्ते - “वैश्वानरं द्वादशकपालं निर्वपेत्पुत्रे जाते यदष्टाकपालो भवति गायत्रियैवैनं ब्रह्मवर्चसेन पुनाति यन्नवकपालस्त्रिवृतैवास्मिन्तेजो दधाति यद्दशकपालो विराजैवास्मिन्नन्नाद्यं दधाति यद्दशकपालस्त्रिष्टुभैवास्मिन्निन्द्रियं दधाति यद्द्वादशकपालो जगत्यैवास्मिन्पशून्दधाति यस्मिञ्जात एतामिष्टिं निर्वपति पूत एव तेजस्व्यन्नाद इन्द्रियावी पशुमान्भवति” (सं॰ का॰ २ प्र॰ २ अ॰ ५) इति।

द्वादशत्वसंख्यान्तर्गताभिरष्टत्वादिसंख्याभिर्गायत्र्यादिसाम्यमापाद्य प्रशंसति।

एतामेवेष्टिं दर्शाद्यत्ययप्रायश्चितार्थं विधत्ते - “अव वा एष सुवर्गाल्लोकाच्छिद्यते यो दर्शपूर्णमासयाजी सन्नमावास्यां वा पौर्णमासी वाऽतिपादयति सुवर्गाय हि लोकाय दर्शपूर्णमासाविज्येते वैश्वानरं द्वादशकपालं निर्वपेदमावास्यां वा पौर्णमासीं वाऽतिपाद्य संवत्सरो वा अग्निर्वैश्वानरः संवत्सरमेव प्रीणात्यथो संवत्सरमेवास्मा उपदधाति सुवर्गस्य लोकस्य समष्ट्या अथो देवता एवान्वारभ्य सुवर्गं लोकमेति” (सं॰ का॰ २ प्र॰ २ अ॰ ५) इति।

यदा संवत्सरमेवोपदधाति विच्छेदरहितं करोति तदा संवत्सरस्यावयव-योर्दर्शपूर्णिमादिनयोरनुष्ठानस्य कुतोऽत्ययः। किंच संवत्सरे प्रीते सर्वदेवतानां प्रीतत्वात्ता देवता आश्रित्य तदनुग्रहेण स्वर्गं प्राप्नोति।

आधानेन समृद्धिरहितो योऽग्निमुद्वासयिष्यति तस्य द्विहविष्कामिष्टिं विधत्ते - “वीरहा वा एष देवानां योऽग्निमुद्वासयते न वा एतस्य ब्राह्मणा ऋतायवः पुराऽन्नमक्षन्नाग्नेयमष्टाकपालं निर्वपेद्वैश्वानरं द्वादशकपालमग्निमुद्वासयिष्यन्यद-ष्टाकपालो भवत्यष्टाक्षरा गायत्री गायत्रोऽग्निर्यावानेवाग्तिस्तस्मा आतिथ्यं करोत्यथो यथा जनं यतेऽवसं करोति तादृगेव तद्द्वादशकपालो वैश्वानरो भवति द्वादश मासाः संवत्सरः संवत्सरः खलु वा अग्नेर्योनिः स्वामेवैनं योनिं गमयत्यद्यमस्यान्नं भवति” (सं॰ का॰ २ प्र॰ २ अ॰ ५) इति।

अष्टत्वसंख्यया गायत्रीद्वारा तत्सहोदरस्याग्नेः सर्वस्याप्यातिथ्यं कृतं भवति। किंच यथा लोके दूरदेशवर्तिनं पितृभ्रात्रादिरूपं जनं प्रति यते गच्छते पुरुषायावसं रक्षकं पाथेयं करोति तादृशमिदमुद्वासयिष्यमाणायाग्नये पुरो-डाशप्रदानम्। द्वादशसंख्यया मासद्वारा संवत्सररूपां स्वयोनिमेवाग्निं गमयति। अग्नेरनुग्रहेणास्य समीचीनमन्नं भवति।

अत्राऽऽग्नेये हविषि याज्यापुरोनुवाक्ययोः प्रतीकद्वयमाह - अग्निर्मूर्धा भुव इति। अनयोरग्निर्मूर्धेत्यसौ पुरोनुवाक्या। सा चोपप्रयन्त इत्यानुवाके व्याख्याता। भुवो यज्ञस्येत्यसौ याज्या। सा तु चतुर्थकाण्ड आम्नातत्वात्तत्रैव व्याख्यास्यते।

प्रजाभिः समृद्धं ग्रामं कामयमानस्य द्विहविष्कामिष्टिं विधत्ते - “वैश्वानरं द्वादशकपालं निर्वपेन्मारुत सप्तकपालं ग्रामकामः” (सं॰ का॰ २ प्र॰ २ अ॰ ५) इति।

प्रकृतावष्टाकपालैकादशकपालयोर्हविषोरेकस्मिन्नेवाग्नावधिश्रितत्वादत्रापि तत्प्राप्तावपवदति - “आहवनीये वैश्वानरमधि श्रयति गार्हपत्ये मारुतं पापवस्यसस्य विधृत्यै” (सं॰ का॰ २ प्र॰ २ अ॰ ५) इति।

वसीयोऽत्यधिकं यत्पापं तत्पापवस्यसं तस्य ग्रामप्राप्तिप्रतिबन्धकपापस्य विधृत्यै वियोजनायेत्यर्थः।

द्वादशत्वसंख्यां प्रशंसति - “द्वादशकपालो वैश्वानरो भवति द्वादश मासाः संवत्सरः संवत्सरेणैवास्मै सजाताश्च्यवयति” (सं॰ का॰ २ प्र॰ २ अ॰ ५) इति।

अस्मै यजमानार्थं सजातान्समानकुले समुत्पन्नान्मनुष्यांश्च्यावयति प्रह्वीभूतान्करोति।

मरुद्देवतां प्रशंसति - “मारुतो भवति मारुतो वै देवानां विशो देवविशेनैवास्मै मनुष्यविशमव रुन्धे” (सं॰ का॰ २ प्र॰ २ अ॰ ५) इति।

विशः करप्रदाः प्रजाः। वैदिकप्रजानुग्रहेण मानुषप्रजासमृद्धिं संपादयति।

सप्तसख्यां प्रशंसति - “सप्तकपालो भवति सप्तगणा वै मरुतो गणश एवास्मै सजातानव रुन्धे” (सं॰ का॰ २ प्र॰ २ अ॰ ५) इति।

ईदृङ्चान्यादृङ्चेत्यादिनामधारिणां सप्तानां समूहः प्रथमो गणः। शुक्रज्योतिश्चेत्यादिको द्वितीयः। ऋतजिच्चेत्यादिकस्तृतीयः ऋतश्चेत्यादि-कश्चतुर्थः। ईदृक्षास इत्यादिकः पञ्चमः। मितासश्चेत्यादिकः षष्ठः। गणान्तरं शाखान्तरे द्रष्टव्यम्। वैदिकगणानुग्रहेणैव ज्ञातिगणान्बहून्संपादयति।

प्रकृतौ हविःष्वासादितेषु पश्चात्सामिधेनीप्रेषणे कृते ताः सामिधेन्योऽनू-च्यन्ते तद्वदत्रापि सामिधेनीभ्यः प्रागेवाऽऽसादनं वैश्वानरस्य क्रियते। मारुतासादनस्य तु सामिधेन्यनुवचनकालीनत्वं विधत्ते - “अनूच्यमान आ सादयति विशमेवास्मा अनुवर्त्मानं करोति” (सं॰ का॰ २ प्र॰ २ अ॰ ५) इति।

प्रजां यजमानानुगामिनीं करोतीत्यर्थः।

अथ मारुतयागे पुरोनुवाक्यामाह - मरुत इति। हे मरुतो यद्यस्मात्कारणाद्वयं सुम्नायन्तः सुखमिच्छन्तो दिवे। द्युलोकाद्वो युष्मान्हवामह आह्वयामस्तस्मादाहूता यूयं नोऽस्मानुपगन्तन प्राप्नुत।

याज्यामाह - या वः शर्मेति। हे मरुतो वो युष्माञ्शशामानाय यजमानाय दातुं या शर्म यानि सुखानि सन्ति संपादितानि विद्यन्ते, त्रिधातूनि त्रिस्थानानि लोक-त्रयवर्तीनि यानि सुखानि दाशुषे हविर्दत्तवतेऽधियच्छताधिकं यथा भवति तथा भवन्तः प्रयच्छन्ति तानि सर्वाण्यस्मभ्यं वियन्त प्रयच्छत। किंच वृषणोऽभिमतफलस्य वर्षितारो रयिं धनं नोऽस्मभ्यं धत्त संपादयत। सुवीरं शोभनपुत्रं च संपादयत।

इष्ट्यन्तरं विधत्ते - “आदित्यं चरुं निर्वपेत्संग्राममुपप्रयास्यन्नियं वा अदितिरस्यामेव पूर्वे प्रतितिष्ठन्ति” (सं॰ का॰ २ प्र॰ २ अ॰ ५) इति।

“उपप्रयास्यञ्जिगमिषुः। अनयेष्ट्या जितसंग्रामाः पूर्वे पुरुषा भूमावेव प्रतितिष्ठन्ति तद्वदयमपीत्यर्थः।”

अत्र युग्मद्वयमाम्नातम्। तत्र प्रथमयुग्मे पुरोनुवाक्यामाह — अदितिर्नेति। उरुष्यतु शत्रुभ्यो रक्षतु। स्पष्टमन्यत्।

याज्यामाह — महीमू ष्विति। अदितिमु अदितिदेवतामेवावसेऽस्मद्रक्षार्थं सुहुवेम सुष्ठु आह्वयामः। कीदृशीम्। महीं महनीयां सुव्रतानां मातरं शोभनकर्मणां पुरुषाणां मातृवद्धितकारिणीम्, ऋतस्य पत्नीं सत्वस्य पालयित्रीं, तुविक्षत्त्रां बहुराजपालिताम्, अजरन्तीं सदा जरारहिताम्, उरूचीं विस्तीर्णगतिं, सुशर्माणं समीचीनसुखोपेतां सुप्रणीतिं सुखेन कर्मणां प्रणेत्रीम्।

द्वितीययुग्मे पुरोनुवाक्यामाह - सुत्रामाणमिति। स्वस्तये क्षेमायादितिमारुहेम प्राप्नुयाम। कीदृशीम्। सुत्रामाणं सुष्ठुत्रात्रीम्। पृथिवीं विस्तीर्णाम्। द्यां द्योतमानाम्। अनेहसं कालात्मिकां चिरकालस्थायिनीमित्यर्थः। दैवीं नावम्। यथा मनुष्यानिर्मिता नौः समुद्रस्योपरि तिष्ठति तथा देवनिर्मिता भूमिर्महाजलस्योपरि वर्तत इत्यर्थः। स्वरित्रां सुप्ठु शत्रुभ्यः पालयित्रीम्। अनागसं पापरहिताम्। अस्रवन्तीं छिद्ररहिताम्।

याज्यामाह - इमास्विति। इमां भूमिं नावं नौसदृशीं सुष्ठ्वारुहं प्राप्तवानस्मि। कीदृशीम्। शतसंख्याकान्यरित्राणि चोरेभ्यो रक्षकाण्यायुधानि यस्यां ता शतारित्रा तां दिक्पालकैः पालितामित्यर्थः। शतसंख्याकाः स्फ्यसदृशास्तरणदण्डा यस्यां सा शतस्फ्या ताम्। मण्डूककूर्मादिभिर्जलस्योपरि धारितामित्यर्थः। अच्छिद्रामधोभागे जलस्य प्रवेशच्छिद्ररहितात्। पारयिष्णुमभीष्टफलस्य पारं नेतुं समर्थाम्।

युद्धभूमिं प्राप्तस्य जयार्थिन इष्टिं विधत्ते- “वैश्वानरं द्वादशकपालं निर्वपेदायतनं गत्वा संवत्सरो वा अग्निर्वैश्वानरः द्वादशकपालं निर्वपति देवानामेवाऽऽयतने यतते जयति त संग्रामम्” (सं॰ का॰ २ प्र॰ २ अ॰ ६) इति।

यस्मिन्नायतने युद्धं भविष्यति तत्प्राप्य तस्मिन्प्रदेशे निर्वपेत्। संवत्सरदेवताया भूबलस्य स्वामित्वात्तया पालिते देशे देवानां जयस्तद्वदयमपि प्रयतते तस्माज्जयति।

मारणादिपापार्थं प्रवृत्तयोः परस्परवैरिणोरन्नं यो भुङ्क्ते तस्य प्रायश्चित्तरू-पामिष्टिं विधत्ते - “एतस्मिन्वा एतौ मृजाते यो विद्विषाणयोरन्नमत्ति वैश्वानरं द्वादशकपालं निर्वपेद्विद्विषाणयोरन्नं जग्ध्वा संवत्सरो वा अग्निर्वैश्वानरः संवत्सरस्वदित-मेवात्ति नास्मिन्मृजाते” (सं॰ का॰ २ प्र॰ २ अ॰ ६) इति।

अविचारादिना परस्परमारणोद्युक्तौ विद्विषाणौ तावेतौ स्वकीयान्नभुजि स्वकीयं पापं मृजाते लेपयतः। संवत्सरदेवेन स्वदितं निर्दोषीकृतमेवान्नम-सावत्ति। अतस्तौ नास्मिँल्लेपयतः।

यावुभौ परस्परमद्रोहाय शपथं कुरुतस्तयोर्मध्ये प्रथमं द्रुह्यतः प्रायश्चित्तायेष्टिं विधत्ते-

“संवत्सराय वा एतौ सममाते यौ सममाते तयोर्यः पूर्वोऽभिद्रुह्यति तं वरुणो गृह्णाति वैश्वानरं द्वादशकपालं निर्वपेत्सममानयोः पूर्वोऽभिद्रुह्य संवत्सरो वा अग्निर्वैश्वानरः संवत्सरमेवाऽऽप्त्वा निर्वरुणं परस्तादभिद्रुह्यति नैनं वरुणो गृह्णाति” (सं॰ का॰ २ प्र॰ २ अ॰ ६) इति।

संवत्सराय संवत्सरदेवं साक्षिणं कृत्वेत्यर्थः। सममाते सम्यक्शपथं कुरुतः। वरुणग्रहणं नाम रोगोत्पत्तिः। निर्वरुणं रोगनिवारकं संवत्सरदेवमेव प्रथमतः। प्राप्य पश्चात्तद्बलेन युक्तो द्रोहं कृतवान्भवति। ततो नास्य वरुणग्रहणं भवति।

अविं प्रतिगृहीतवतः पापपरिहारायोष्टिं विधत्ते- “आव्यं वा एष प्रतिगृह्णाति योऽविं प्रतिगृह्णाति वैश्वानरः द्वादशकपालं निर्वपेदविं प्रतिगृह्य संवत्सरो वा अग्निर्वैश्वानरः संवत्सरस्वदितामेव प्रतिगृह्णाति नाऽऽव्यं प्रतिगृह्णाति” (सं॰ का॰ २ प्र॰ २ अ॰ ६) इति।

अवत्यस्मादित्याव्यं पापम्। श्लेष्मरोग इति केचित्। संवत्सरेण स्वदितां निर्दोषीकृतम्।

अधस्तादुपरिष्टाच्चोभयतो दन्तैर्युक्तं प्राणिस्वरूपं प्रतिगृहीतवतः पापपरिहारायेष्टिं विधत्ते- “आत्मनो वा एष मात्रामाप्नोति य उभयादत्प्रतिगृह्णात्यश्वं वा पुरुषं वा वैश्वानरं द्वादशकपालं निर्वपेदुभयादत्प्रतिगृह्य संवत्सरो वा अग्निर्वैश्वानरः संवत्सरस्वदितमेव प्रतिगृह्णाति नाऽऽत्मनो मात्रामाप्नोति” (सं॰ का॰ २ प्र॰ २ अ॰ ६) इति। मात्रां हिंसाम्। उभयतो दन्ता यस्य तत्स्वरूपमुभयादत्।

धनलाभमुद्दिश्य दातृसमीपं गमिष्यत इष्टिं विधत्ते- “वैश्वानरं द्वादशकपालं निर्वपेत्सनिमेष्यन्त्संवत्सरो वा अग्निर्वैश्वानरो यदा खलु वै संवत्सरं जनतायां चरत्यथ स धनार्घो भवति यद्वैश्वानरं द्वादशक-पालं निर्वपति संवत्सरसातामेव सनिमभि प्रच्यवते दानकामा अस्मै प्रजा भवन्ति” (सं॰ का॰ २ प्र॰ २ अ॰ ६) इति।

सनिं धनलाभम्। लोके यो याचको दातृजनसमूहे संवत्सरं चरति तदानीमसौ धनसमृद्धो भवति। संवत्सरदेवेन सातां दत्तामेव सनिं धनलब्धिमभिप्राप्नोति। अस्य प्रजाश्च दानशीला भवन्ति।

तयेष्ट्या दातृसमीपे धनं लब्ध्वा गृहे समागतस्य नैमित्तिकीमिष्टिं विधत्ते- “यो वै संवत्सरं प्रयुज्य न विमुञ्चत्यप्रतिष्ठानो वै स भवत्येमेव वैश्वानरं पुनरागत्य निर्वपेद्यमेव प्रयुङ्क्ते तं भागधेयेन विमुञ्चति प्रतिष्ठित्यै” (सं॰ का॰ २ प्र॰ २ अ॰ ६) इति।

संवत्सररूपं वैश्वानरं प्रयुज्य धनलाभार्थमिष्ट्या निर्बध्य यो न मुञ्चेत्सोऽप्रतिष्ठितो भवति। पुनरिष्ट्या तदीयभागं दत्त्वा तं विमुञ्चति विसर्जितवान्भवति।

तत्रेतिकर्तव्यतां कांचिद्विधत्ते- “यया रज्ज्वोत्तमां गामाजेत्तां भ्रातृव्याय प्रहिणुयान्नितिमेवास्मै प्रहिणोति” (सं॰ का॰ २ प्र॰ २ अ॰ ६) इति।

दातृभ्यो लब्धासु गोषूत्तमां गां यया रज्ज्वा बद्ध्वा समानयति तां रज्जुं भ्रातृव्यविनाशार्थं तदीयगोष्ठे प्रक्षिपेत्। तथा सति नितिं दारिद्र्यरूपां राक्षसीमेव भ्रातृव्यार्थं प्रेषयति।

अत्र विनियोगसंग्रहः -

“अन्त्यानुवाकगा याज्या यागे वैश्वानराभिधे।

वैश्वेत्यष्टौ विकल्पः स्युरवद्वे वारुणे चरौ॥१॥

दधीति दध्यादिचरावग्न्युद्वासनयागके।

अग्निर्भुव इति द्वे स्तः प्रतीके ते उभे मते॥२॥

मरुत्सप्तकपालेष्टावदीत्यादित्यके चरौ।

चतस्रः स्युर्विकल्पार्थ इति प्रश्नोऽत्र पञ्चमः॥३॥” इति।

अथ मीमांसा।

प्रथमाध्यायस्य चतुर्थपादे चिन्तितम्।

“यद्द्वादशकपालेष्टेर्वैश्वानर्या अनन्तरम्।

श्रुतमष्टाकपालादि तद्गुणो नाम वा स्तुतिः॥

अन्तर्भावादष्टतादेर्नाम स्यादग्निहोत्रवत्।

द्रव्यं द्रव्यान्तरे नो चेद्गुणस्तर्हि फलत्यसौ॥

वाक्यैक्यमुपसंहाराद्विस्पष्टं तत्तु बाध्यते।

नानागुणविधौ तस्मादंशद्वारांऽशिसंस्तुतिः”॥ इति।

काम्येष्टिकाण्डे श्रूयते - “वैश्वानरं द्वादशकपालं निर्वपेत्पुत्रे जाते यदष्टाकपालो भवति गायत्रियैवैनं ब्रह्मवर्चसेन पुनाति यन्नवकपालस्त्रि-वृतैवास्मिन्तेजो दधाति यद्दशकपालो विराजैवास्मिन्नन्नाद्यं दधाति यदेकादशकपालस्त्रिष्टुभैवास्मिन्निन्द्रियं दधाति यद्द्वादशकपालो जगत्यैवास्मिन्पशून्दधाति यस्मिञ्जात एतामिष्टिं निर्वपति पूत एव तेजस्व्यन्नाद इन्द्रियावी पशुमान्भवति” (सं॰ का॰ २ प्र॰ २ अ॰ ६) इति

अत्राष्टत्वादिसंख्यासामान्यात्पुरोडाशानां गायत्र्यादिरूपत्वकल्पना कृता। इष्टिविधायके वाक्ये येयं द्वादशसंख्या तस्यामष्टत्वादिसंख्यानामन्तर्भावात्ताः संख्या निमित्तीकृत्याग्निहोत्रशब्दवदष्टाकपालादिशब्दाः कर्मनामधेयानीत्येकः पक्षः। नात्र द्वादशकपालशब्दः संख्यापरः किंतु पुरोडाशद्रव्यपरः। द्वादशसु कपालेषु संस्कृत इति व्युत्पत्तेः। एवमष्टाकपालादिशब्दा अपि। तथा सति द्रव्यस्य द्रव्यान्तरेऽनन्तर्भावान्नामधेयस्य निमित्तं नास्तीति चेदेवं तर्हि पुरोडाशद्रव्यरूपो गुणो विधीयताम्। न चोत्पत्तिशिष्टद्वादशकपालपुरोडाशावरुद्धत्वादष्टाकपालादेरनवकाश इति वाच्यम्। ब्रह्मवर्चसादिफलाय तद्विध्युपपत्तेरित्यपरः पक्षः। अयमप्युपपन्नः। बहूनां गुणानां विधौ वाक्यभेदापत्तेः। न च भिन्नान्येवैतानि वाक्यानीति वाच्यम्। वैश्वानरं द्वादशकपालं निर्वपेदिति विहितस्य यस्मिञ्जात एतामित्युपसंहारेण वाक्यैकत्वावगमात्। तस्मादंशैरष्टाकपा-लादिभिरंशी द्वादशकपालः स्तूयते।

चतुर्थाध्यायस्य तृतीयपादे चिन्तितम्-

“वैश्वानरेष्ट्या पूतत्वं पितुः पुत्रस्य वाऽग्रिमः।

कर्तुरेव फलं युक्तं कर्तृत्वं पितुरेव हि॥

जाते यस्मिन्निष्टिमेतां निर्वपेत्तस्य पूतता।

तच्चेप्सितं पितुस्तेन पिता तत्र प्रवर्तते” इति॥

काम्येष्टिकाण्डे वैश्वानरं द्वादशकपालं निर्वपेत्पुत्रे जात इति प्रकृत्य श्रूयते - “यस्मिञ्जात एतामिष्टिं निर्वपति पूत एव तेजस्व्यन्नाद इन्द्रियावी पशुमान्भवति” इति। तत्र पितुः प्रबुद्धस्य कर्तृत्वं न तु मुग्धस्य पुत्रस्य। ततोऽनुष्ठानफलयोर्वैयधिकरण्यपरिहाराय पितुरेव पूतत्वादिफलमिति चेत्, मेवम्। यस्मिञ्जाते निर्वपति स पूत इति वाक्येन फलस्य पुत्रसंबन्धा-वगमात्। न चात्र निष्फलस्य पितुः (तुर) प्रवृत्तिरिति वाच्यम्। पुत्रनिष्ठपूत-त्वादेरीप्सितत्वेन स्वफलबुद्ध्या प्रवृत्तिसंभवात्। तस्मात्पुत्रस्य पूतत्वादिकम्।

तत्रैवान्यच्चिन्तितम् -

“जन्मानन्तरमेवेष्टिर्जातकर्मणि वा कृते।

निमित्तानन्तरं कार्यं नैमित्तिकमतोऽग्रिमः॥

जातकर्मणि निर्वृत्ते स्तनप्राशनदर्शनात्।

प्रागेवेष्टौ कुमारस्य विपत्तेरूर्ध्वमस्तु सा” इति॥

पुत्रजन्मनो वैश्वानरेष्टिनिमित्तत्वान्नैमित्तिकस्य कालविलम्बायोगाज्जन्मान-न्तरमेवोष्टिरिति चेन्मैवम्। स्तनप्राशनं तावज्जातकर्मानन्तरं विहितम्। यदि जातकर्मणः प्रागेव वैश्वानरेष्टिर्निरुप्यते तदा स्तनप्राशनस्यात्यन्तविलम्बनात्पुत्रो विपद्येत। तथा सति पूतत्वादिकमिष्टिफलं कस्य स्यात्। तस्मान्न जन्मानन्तरं किंतु जातकर्मण ऊर्ध्वं सेष्टिः।

तत्रैवान्यच्चिन्तितम्-

“जातकर्मानन्तरं स्यादाशौचेऽपतेऽथवा।

निमित्तसंनिधेराद्यः कर्तृनिधेराद्यः कर्तृशुद्ध्यर्थ उत्तरः” इति॥

यद्यपि जातकर्मानन्तरमेव तदनुष्ठाने निमित्तभूतं जन्म संनिहितं भवति तथाऽप्यशुचिना पित्राऽनुष्ठीयमानमङ्गविकलं भवेत्। जातकर्मणि तु विपत्तिपरिहाराय तात्कालिकी शुद्धिः शास्त्रेण दर्शिता। ततो मुख्यसंनिधेर-वश्यंबाधितत्वाच्छुद्धिलक्षणाङ्गवैकल्यं वारयितुमाशौचादूर्ध्वमिष्टिं कुर्यात्।

“वैश्वानरे पाथिकृते साहित्यं वा विकल्पनम्।

साहित्यं स्याददृष्टाय विकल्पः स्यात्समाधये” इति॥

विहितयोर्दर्शपूर्णमासयोः कदाचिदननुष्ठाने प्रायश्चित्तं श्रूयते - “वैश्वानरं द्वादशकपालं निर्वपेदमावास्यां वा पौर्णमासीं वाऽतिपाद्य” इति। “अग्नये पथिकृते पुरोडाशमष्टाकपालं निर्वपेद्यो दर्शपूर्णमासयाजी सन्नमावास्यां वा पौर्णमासीं वाऽतिपादयेत्” इति च। अत्र पूर्वदृष्टप्रयोजनाभावाददृष्टार्थमुभयं समुच्चित्यानुष्ठेयमिति चेन्न। यज्ञवैगुण्यसमाधेर्दृष्टप्रयोजनत्वा-दन्योन्यनिरपेक्षयोर्द्वयोर्व्रीहियववद्विकल्पः। एवमृग्यजुःसामवेदेषु विहित-स्याननुष्ठानान्निषिद्धस्याऽऽचरणाद्वा यद्यज्ञवैगुण्यं तस्य वैगुण्यमात्रस्य सर्वस्य समाधानाय निरपेक्षाणि प्रायश्चित्तानि विहितानि - “भूः स्वाहेति गार्हपत्ये जहुयात्, भुवः स्वाहेति दक्षिणाग्नौ जुहुयात्’ भूर्भुवः सुवः स्वाहेत्याहवनीये जुहुयात्” इति। तान्येतानि विकल्प्यन्ते। प्रत्येकं वैगुण्यसमाधानक्षमत्वात्॥

इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वे-दीयतैत्तिरीयसंहिताभाष्ये प्रथमकाण्डे पञ्चमप्रपाठके एकादशोऽनुवाकः॥११॥

वेदार्थस्य प्रकाशेन तमो हार्दं निवारयन्।

पुमर्थांश्चतुरो देयाद्विद्यातीर्थमहेश्वरः॥१॥

इति श्रीमद्विद्यातीर्थमेहश्वरापरावतारस्य श्रीमद्राजाधिराज-

परमेश्वरस्य श्रीवीरबुक्कमहाराजस्याऽऽज्ञापरिपालकेन

माधवाचार्येण विरचिते वेदार्थप्रकाशे कृष्ण-

यजुर्वेदीयतैत्तिरीयसंहिताभाष्ये प्रथम-

काण्डे पञ्चमः प्रपाठकः॥५॥

—--------------------------------

भट्टभास्करभाष्यम् (Bhatta Bhaskara Commentary)
1 अथ प्राजापत्यकाण्डमध्ये याज्याकाण्डं वैश्वदेवम् । तत्र 'वैश्वानरं द्वादशकपालं निर्वपेद्वारुणं चरुं दधिक्राव्‌ण्णे चरुमभिशस्यमानः' इति त्रिहविष्को यो वैश्वानरो द्वादशकपालः तस्य पुरोनुवाक्या - वैश्वानरो न इति गायत्री ॥ प्रायेण पञ्चमषष्ठयोस्सर्ववैश्वानराणामियमेव पुरोनुवाक्या वेदितव्या । वैश्वानरः विश्वेषां नराणां स्वामित्वेन सम्बन्धी अग्निः । 'नरे संज्ञायाम्' इति पूर्वपदस्य दीर्घत्वम् । ऊत्या मार्गेण करणेन अस्मद्रक्षणेन वा हेतुना आत्मनो वा तर्पणेन प्रयोजनेन । 'ऊतियूति' इति क्तिन उदात्तत्वं निपात्यते, 'उदात्तयणः' इति विभक्तेरुदात्तत्वं, 'ज्वरत्वर' इत्यादिना ऊठ् । स नोस्मानाप्रयातु आभिमुख्येनान्येभ्यश्च प्रकर्षेणास्मान् प्राप्नोतु परावतः दूरादप्यायातु । 'उपसर्गाच्छन्दसि' इति वतिः । उक्थेन स्तोत्रेण वाहसा वहनसमर्थेन अभीष्टार्थवाहनसमर्थेनेत्यर्थः । यद्वा - प्रापणसमर्थेन मार्गेण । 'वहिहाधाञ्भ्यश्छन्दसि' इत्यसुन्, 'णित्' इति हि तत्रानुवर्तते । आगत्य चास्मानभिशस्तेर्मुञ्चन्पापं वर्णमपहन्त्विति शेषः ॥
2 'वैश्वानरं द्वादशकपालं निर्वपेद्विद्विषाणयोरन्नं जग्ध्वा' इत्यस्य याज्या - ऋतावानमिति गायत्री ॥ ऋतावानं सत्यवन्तं यज्ञवन्तं वा वैश्वानरम् । । छन्दसीवनिपौ' इति वनिप्, 'अन्येषामपि दृश्यते' इति दीर्घत्वम् । ऋतस्य सत्यस्य सूर्यादेः ज्योतिषः पतिं पातारमीमहे याचामहे । किं? अजस्रमविच्छिन्नं घर्मं यज्ञं, तेन अविच्छिन्नास्स्यामेति । तेन नास्मिन्मृजाते विद्विषाणौ इति ॥
3 'वैश्वानरं द्वादशकपालं निर्वपेत्पुत्रे जाते' इत्यस्य पुरोनुवाक्या - वैश्वानरस्य दंसनाभ्य इति जगती ॥ बृहदिति प्रथमपादान्तः । तेन अरिणादिति पादादित्वान्न निहन्यते । वैश्वानरस्य दंसनाभ्यः कर्मभ्यः बृहन्महत् एकः कविर्मेधावी किमरिणादधिगच्छति? किमिति सामर्थ्याल्लभ्यते, इतोन्यन्महदस्तीति कविर्मेधावी कश्चिदवबुध्यते किं? न कश्चिदित्यर्थः । यो मेधावी न भवति स कामं मिथ्यावबुध्यतां, मेधावी नैव बोद्धुमर्हतीति । री गतिरेषणयोः क्रैयादिकः, छान्दसो लुङ्, 'प्वादीनां ह्रस्वः' इति ह्रस्वत्वम् । कीदृशं महत्त्वमित्याह - स्वपस्यया शोभनकर्मतया महदाभ्योन्यन्नास्त्येवेत्यर्थः । वैस्वानरस्य कर्मसदृशमन्यच्छोभनत्वेन महत्कर्म कश्चिदपि मेधवी जनो न जानातीत्युक्तं भवति । अप इति कर्मनाम, शोभनकर्म स्वपः, तस्य भावस्स्वपस्यम् । छान्दसो यत्, 'सुपां सुलुक्' इति तृतीयाया यादेशः । तर्हि तेषामस्य कर्मणां मध्ये शोभनमेकं कर्मोदाह्रियतामित्याह - अयं खल्वग्निः उभा उभौ पितरा पितरौ, मातापितृस्थानीयौ वा । उभयत्रापि 'सुपां सुलुक्' इत्याकारः । द्यावापृथिवी द्यावापृथिव्यौ । द्विवचनस्य पूर्वसवर्ण ईकारः, 'दिवो द्यावा' इति द्यावादेशः, 'देवताद्वन्द्वे च' इति पूर्वोत्तरपदयोर्युगपत् प्रकृतिस्वरत्वम् । भूरिरेतसा भूरिरेतसौ स्थावरजङ्गमात्मकबहुविकारे महयन् पूजयन् प्रकाशयन् अजायत जायते । छान्दसो लङ् । यथा खलु कश्चित्सुजातः पुत्रः मातापितरौ भूरिरेतसौ युवानौ निजजन्मनालङ्कुर्वन् जायते एवमसौ जायते । इत्थं जन्मकाल एवास्य कुर्वाणस्य किन्नाम कर्म महच्छोभनं न भवतीति भावः । तस्मादीदृशोयमग्निरस्माकं जातं तमिमं पुत्रं पूतत्वतेजस्वित्वादिगुणं करोतु ॥
4 'वैश्वानरं द्वादशकपालं निर्वपेदमावास्यां वा पौर्णमासीं वातिपाद्य' इत्यस्य याज्या' - पृष्टो दिवीति त्रिष्टुप् ॥ अयं वैश्वानरोग्निः दिव्यादित्यात्मना पृष्टः स्पृष्टः । छान्दसो व्यञ्जनलोपः । यद्वा - पृष्टो निषिक्तः निहितः दिव्यादित्यात्मना । पृष सेचने । पृथिव्यां च पार्थिवेषु । 'उदात्तयणः' इति विभक्तेरुदात्तत्वमुक्तम् । पृष्ट एव भूत्वा विश्वा ओषधीराविवेश, पक्तिस्थितिहेतुत्वेन सर्वं व्याप्य स्थितः । स एवम्भूतो वैश्वानरोग्निस्सहसा बलेन पृष्टस्सम्बद्धो नोस्मान् रिषः रेष्टुर्हिंसितुः दिवा पातु रक्षतु । नोस्मान्नक्तं च पातु अतिपत्तिदोषात्पात्विति ॥
5 जातेष्ट्या याज्या - जातो यदग्न इति त्रिष्टुप् ॥ हे अग्ने वैश्वानर जातो जातमात्र एव भुवना भुवनानि भूतजातानि सर्वान् लोकान् व्यख्यः विशेषेण पश्यसि पशुं न पशुमिव गोपाः गवां पालयिता । चक्षेः छान्दसे लुङि 'अस्यतिवक्तिख्यातिभ्योङ्' इत्यङ् । इर्यः इराऽन्नं हविरात्मकं तत्र साधुस्तदर्हो वा । परिज्मा सर्वतो गन्ता । निपातोयं मनिन्प्रत्ययान्तः । यद्यस्मादेवं तस्मात् ब्रह्मणे हविरात्मनेन्नाय यागात्मने वा परिबृढाय कर्मणे गातुं मार्गं विन्द लभस्व हविः प्राप्तुं मार्गानाप्नुहि, पुनःपुनर्जातेष्टिं प्रवर्तयेति भावः । किञ्च - युष्माकमेवार्थे सदा नोस्मान्यूयं पात रक्षत स्वस्तिभिरविनाशैः, अविनाशान्प्रापय्यास्मान् पातेति । पूजार्थमेकस्मिन् बहुवचनम् ॥
6 त्रिहविष्याद्यस्य वैश्वानरस्य याज्या - त्वमग्न इति त्रिष्टुप् ॥ हे अग्ने वैश्वानर जातवेदः जातानां वेदितः त्वं शोचिषा दीप्त्या शोशुचानः भृशं दीप्यमानः अत एव रोदसी द्यावापृथिव्यौ जायमान एवापृणा आपूरयसि, शोचिषा आपालयसि वा । पॄ पालनपूर्णयोः, छान्दसे लङि प्वादित्याद्ध्रस्वः । शुचेर्यङ्लुगन्ताद्व्यत्ययेनात्मनेपदम्, 'अभ्यस्तानामादिः' इत्याद्युदात्तत्वम् । किञ्च - त्वमेव देवामृत्विजः अभिशस्तेः पापादमुञ्चः मुञ्चसि महित्वा महत्त्वेन माहात्म्येन । तृतीयाया आकारादेशः । यद्वा - महिम्नः मकारनकारयोः तकारवकारौ वादेशौ भवतः, उदात्तनिवृत्तिस्वरेण तृतीयाया उदात्तत्वम् । शंस स्तुतौ अभिपूर्वोऽवद्यवदने वर्तते, क्तिनि 'तादौ च' इति गतेः प्रकृतिस्वरत्वम्, स च 'उपसर्गाश्चाभिवर्जम्' इत्यन्तोदात्तः । स त्वमभिशस्तेर्मुञ्चेति ॥
7 'वैश्वानरं द्वादशकपालं निर्वपेदायतनं गत्वा' इत्यस्य याज्या - अस्माकमिति जगती ॥ हे अग्ने वैश्वानर अस्माकं पुत्रादीन् प्रथमं तावद्धनवतः कुरु, ततो मघवत्सु धनवत्सु कृतेषु धारय स्थापय क्षत्रं बलं अनामि अनमनशीलम् । ग्रह्यादिलक्षणो णिनिः । अजरमविनाशं सुवीर्यमनभिभवनीयपुत्रादिपुरुषकर्मकम् । 'नञो जरमरमित्रमृताः' 'वीरवीर्यौ च' इत्येतयोरुत्तरपदाद्युदात्तत्वम् । किञ्च - वयं जयेम शतिनं शतपोषवन्तं सहस्रिणं सहस्रपोषवन्तं च वाजमन्नं तवोतिभिः रक्षणैः रक्षाविशेषैः तृप्तिविशेषैर्वा । क्तिन उदात्तत्वमुक्तम् । हे अग्ने अञ्जनादिगुण ॥
8 'वैश्वानरं द्वादशकपालं निर्वपेत्सनिमेष्यन्' इत्यस्य याज्या - यैश्वानरस्य सुमताविति त्रिष्टुप् ॥ वैश्वानरस्य सुमतौ कल्याणगुनानुग्रहबुद्धौ स्याम भवेम । 'मन्क्तिन्व्याख्यान' इत्युत्तरपदान्तोदात्तत्वम् । यद्वा - शोभनमननके मनसि स्याम । 'नञ्सुभ्याम्' इत्युत्तरपदान्तोदात्तत्वम् । वैश्वानरो विशेष्यते - हिकमिति । हेरर्थे पादपूर्णार्थे वा । राजा यस्सर्वभुवनानां भूतजातानामभिश्रीराभिमुख्येनाश्रयणीयः, अभिमतश्रीर्वा । इतो हेतोर्जातमात्र एवायं विश्वं भुवनमिदं विचष्टे विशेषेण पश्यति । सूर्येण च यतते सूर्येण सङ्गतो वर्तते । 'उद्यन्तं वावादित्यमग्निरनु समारोहति' इति दिवादित्येन सङ्गच्छते । य इत्थं महात्मा तस्य सुमतौ यथास्मभ्यं दानकामाः प्रजास्स्युरिति ॥

अथ त्रिहविषि मध्यमस्य वारुणस्य पुरोनुवाक्या - अवते हेड इति त्रिष्टुप् ॥ हे वरुण ते तव हेडः क्रोधमभिशस्त्यादिहेतुं नमोभिर्नमस्कारैरवेमहे अपनयामः । ई गतौ, शपो लुक् । यज्ञैश्च पूजामन्त्रैश्च हविर्भिः पुरोडाशादिभिश्चावेमहे अपनयामः । ततस्त्वमस्मभ्यमस्मदर्थमेव हे क्षयन्निवसन् अस्मदुपकारायैव यतमान । क्षियतेर्व्यत्ययेन शप्, क्षयतिरेव वा निवासकर्मा, षाष्ठिकमामन्त्रिताद्युदात्तत्वम् । अस्मदीयानि कृतान्येनांसि पापानि शिश्रथः श्रथय हे असुर रक्षसां निरसितः प्रचेतः प्रकृष्टमते राजन् सदा दीप्यमान ॥

10 तत्रैव याज्या - उदुत्तममिति त्रिष्टुप् ॥ हे वरुण उत्तमं पाशमस्मत्सकाशादुच्छ्रथाय ऊर्ध्वमुच्छ्रथय । अधममवश्रथय अधस्तादवकृष्य नाशय । मध्यमं विश्रथय विष्वक्कृत्य नाशय । श्रथ दौर्बल्ये चुरादिरदन्तः, वर्णव्यत्ययेनोपान्त्यस्य दीर्घत्वम् । अत्र केचित् - उद्भूतादिभूतमध्यस्थशक्तितया धर्मपाशानां त्रैविध्यमाहुः । उत्तमाधममध्यमदेहप्रभवतया त्वन्ये । ऊर्ध्वाधोमध्यमगतिहेतुत्वेनापरे । अथानन्तरं वयमनागसः विमुक्तसर्वपापाः तव व्रते कर्मणि स्याम योग्या भवेम । अदितये अखण्डितत्वाय अदीनत्वाय वा स्यामेति । हे आदित्य अदितेः पुत्र । यद्वा - इत्थमनागसस्सन्तो वयमदितये अनभिशस्तये स्याम । किमर्थं? तव व्रते कर्मणि कर्मार्थं योग्यतार्थमिति । अनागस इति बहुव्रीहौ व्यत्ययेन 'नञ्सुभ्याम्' इति न प्रवर्तते, लुप्तमत्वर्थीयो वा अनागस्विन इति ॥
11 अथ तत्रैव त्रिहविषः उत्तमस्य 'दधिक्राव्ण्णे चरुम्' इत्यस्य पुरोनुवाक्या - दधिकाव्ण्ण इत्यनुष्टुप् ॥ दधीनि धार्णसमर्थानि हवींषि काष्ठानि वा । दधातेः 'आदृगमहन' इति किन् प्रत्ययः । तानि क्रामति गच्छतीति दधिक्रावा अग्निः । 'अन्येभ्योपि दृश्यते' इति क्रमेर्वनिप्, 'विड्वनोरनुनासिकस्स्यात्' इत्यात्त्वं, कृदुत्तुरपदप्रकृतिस्वरत्वम् । जिष्णोर्जयशीलस्याश्वस्य व्यापकस्याश्वरूपस्य वा, 'अश्वो रूपं कृत्वा' इति दर्शनात् । वाजिनोन्नवतो वेगवतो वा । ईदृशस्याग्नेरहमकार्षं करोमि, कर्मकरस्स्यामिति यावत् । करोतेश्छान्दसो लुङ्, 'छान्दस इकारोपजनः । स च नोस्माकं मुखा मुखानि सुरभि सुरभीणि अस्मस्तुकृतसमृद्ध्या समासादितसौरभ्याणि करत्करोतु । करोतेर्लेटि व्यत्ययेन शप् । शपो वा लुकि लेटोडागमः । छान्दसे वा लिङि 'कृमृदृरुहिभ्यः 'इत्यङ् । 'ऋदृशोङि गुणः', 'अमाङ्योगेपि' इत्यडभावः । द्वितीयाबहुवचनस्य 'सुपां सुलुक्' इति लुगाकारौ । नोस्माकमायूंषि च प्रतारिषत् प्रवर्धयतु । तारयतेर्लेटि अडागमः; 'सिब्बहुळं लेटि' इति सिप् । 'उपसर्गाद्बहुलम्' इपि नसो णत्वम् ॥
12 तत्रैव याज्या - आ दधिक्रा इति त्रिष्टुप् ॥ दधीनि क्रामतीति 'जनसनखन' इति विट्, पूर्ववदात्वम् । ईदृशोग्निः पञ्च कृष्टीर्मनुष्यान् चतुरो वर्णान् निषादपञ्चमान् शवसा आततान अन्नवत्त्वेन बलवत्त्वेन वा सुखवतीः करोति । छान्दसो लिट् । किञ्च - सूर्य इव ज्योतिषा दीप्त्या अपः कर्माणि प्रजानामाततान व्यक्तीचकार । अप एव वा ज्योतिषा दीप्त्या ततान । 'ऊडिदम्' इत्यद्भ्यो विभक्तिरुदात्ता । किञ्च - सहस्रसाश्शतसाश्च बहुतरस्य बहुतमस्य प्रधानस्य संविभक्ता दाता वा भक्तेभ्यस्सहस्रं शतं वा सनोति ददातीति । तेनैव विट्, तेनैव चात्वम् । वाजी वेगवान् अन्नवान्वा । अर्वा अर्णशीलः । अर्तेः 'अन्येभ्योपि दृश्यते' इति वनिप् । एवं महाभागोग्निः इमा इमान्यस्मदीयानि वचांसि मध्वा मधुसदृशेन शवसा रसेन सम्पृणक्तु संसृजतु । ततो मधुराणि शवसा सुखानि स्वयमेव श्रोष्यतीति भावः । अस्माकं श्रोतव्यानि वचनानि श्रुत्वा वचनार्थान् करोतु । अयञ्चाभिशंसनादस्मान्मुञ्चत्वित्याशास्महे ॥
13 'आग्नेयमष्टाकपालं निर्वपेद्वैश्वानरं द्वादशकपालमग्निमुद्वासयिष्यन्' इति द्विहविष्कस्याग्नेयस्य याज्यानुवाक्ये - अग्निर्मूर्धा दिवः ककौत्, भुवो यज्ञस्येति गायत्रीत्रिष्टुभौ ॥ एतयोराद्या 'उपप्रयन्तः' इत्यत्र व्याख्याता । अन्या त्वग्निकाण्डे व्याख्यास्यते, यत्राम्नायते । 'अग्निर्मूर्धा' इत्यत्रानुवाके । इह तु प्रतीके अनयोर्गृह्येते । अयमग्निर्देवो दिवो मूर्धा प्रधानभूतः, पृथिव्याश्च ककुत् प्रधानः पतिः, अपां रेतांसि कार्यभूतानि भुवनानि जिन्वति प्रीणयतीति प्रथमा ॥
14 भुवो यज्ञस्य रजस उदकस्य च नेता प्रापयिता भवसि तदानीम् । कदा? यत्र शिवाभिः नियुद्भिरश्वैस्सचसे सम्बध्यसे । मरुतामश्वा नियुतस्तद्वन्तो वायव इह गृह्यन्ते । तदानीं यज्ञं च प्रवर्तयसि उदकं चावपातयसि । दिवि च मूर्धानं प्रधानभूतं यज्ञं च दधिषे स्थापयसि सुवर्षां स्वर्गीणां सम्भक्तारम् । स त्वं हे अग्ने तव जिह्वां हविषो वोध्रीं चकृषे कुरुष्वेति द्वितीया ॥
15 `वैश्वानरं द्वादशकपालं निर्वपेन्मारुतं सप्तकपालं ग्रामकामः' इति द्विहविषो मारुतस्य पुरोनुवाक्या - मरुतो यद्ध वो दिव इति गायत्री ॥ हे मरुतः यद्वो युष्मान् सुम्नायन्तस्सुखमिच्छन्तः । 'देवसुम्नयोः' इत्यात्वम् । दिवो द्युलोकात् हवामहे आह्वयामः । पूर्ववत्सम्प्रसारणम् । हूयमाना नोस्मानुपगन्तन आत्मनो विशेषवत्त्वं ख्यापयन्तु । तुशब्दो विनिवर्तकः, तिष्ठन्त्वन्ये अस्मांस्तूपागच्छतेति । 'अन्येभ्योपि दृश्यते' इति सांहितिको दीर्घः, गमेर्लेटि शपो लुक्, 'तप्तनप्तनधनाश्च' इति तनादेशः । ह इति पादपूरणे निश्चये वा ॥
16 तत्रैव याज्या - या व इति त्रिष्टुप् ॥ हे मरुतः वः युष्माकं या यानि शर्म शर्माणि सुखानि गृहाणि वा । पूर्वत्र 'शेश्छन्दसि' इति शेर्लोपः । उत्तरत्र 'सुपां सुलुक्' इति लुक् । त्रिधातूनि पृथिव्यादित्रिस्थानस्थितानि शशमानाय युष्मान् भजमानाय तदर्थं तस्मै दातुं सम्पादितानि यानि सन्ति । शश प्लुतगतौ, ताच्छीलिकश्चानश् । यानि च दाशुषे हविर्दत्तवते ददते वा यजमानायाधियच्छत अधिकं प्रयच्छत । यच्छतेश्छान्दसे लङि अडभावः । 'दाश्वान् साश्वान्' इति दाश्वान्निपात्यते । हे मरुतः तानि शर्माणि अस्मभ्यं वियन्त विशेषेण यच्छत विविधा वा दत्त । यच्छतेर्लेटि शपो लुक् । किञ्च - रयिं धनं च नोस्मभ्यं धत्त दत्त सुवीरं शोभनापत्या- दिकम् । 'वीरवीर्यौ च' इत्युत्तरपदाद्युदात्तत्वम् । हे वृषणः कामानां वर्षितारः । 'कनिन्युवृषि' इति निपात्यते, 'वा षपूर्वस्य निगमे' इति दीर्घाभावः ॥
17 आदित्यं चरुं निर्वपेत्सङ्ग्राममुपप्रयास्यन्' इत्यत्र पुरोनुवाक्या - अदितिर्न इति गायत्री ॥ अदितिरस्मानुरुष्यतु शर्म सुखं चादितिर्नो यच्छतु ददातु । अंहसः बुद्ध्यबुद्धिकृतात्पापाच्चास्मानदितिः पातु निवारयतु ॥
18 तत्रैव याज्या - महीमूष्विति त्रिष्टुप् ॥ महीं महतीं महनीयां वा मातरं मातृस्थानीयां वा सुव्रतानां शोभनकर्मणां पुरुषाणाम् । 'नञ्सुभ्याम्' इत्युत्तरपदान्तोदात्तत्वम् । ऋतस्य सत्यस्य यज्ञस्य वा पत्नीं पालयित्रीं तुविक्षत्रां बहुलां बहुधनां वा । त्रिचक्रादित्वादुत्तरपदान्तोदात्तत्वम् । अजरन्तीमविनाशां उरूचीमुरु महतोञ्चतीं बहुप्रकारगातिं वा । 'चौ' इति पूर्वपदस्य दीर्घत्वं उदात्तनिवृत्तिस्वरेण ङीप उदात्तत्वम् । सुशर्माणं सुसुखाम् । 'सोर्मनसी' इत्युत्तरपदाद्युदात्तत्वम् । अदितिमखण्डनीयां सुप्रणीतिं सुखेन शर्मणां प्रणेत्रीम् । कृदुत्तरपदप्रकृतिस्वरत्वम् । तत्र च 'तादौ च' इति गतेः प्रकृतिस्वरत्वम् । ईदृशीं महीं देवीमवसे रक्षणाय तस्यास्तर्पणाय वा हुवेम सुष्ठु आह्वयामः । व्यत्ययेन शः । पूर्ववत्सम्प्रसारणम्, 'सुञः' इति सोस्संहितायां षत्वम् । उ इति पादपूरणे । 'अन्येषामपि दृश्यते' इति तस्य संहितायां दीर्घत्वम् ॥
19 पुनरपि तत्रैव याज्याविकल्पः - सुत्रामाणमिति त्रिष्टुप् ॥

सुत्रामाणं सुष्ठु त्रत्रीं रक्षित्रीम् । 'आतो मनिन्' इति मनिन् । पृथिवीं विस्तीर्णाम् । प्रथेष्षिवन् सम्प्रसारणम् । द्यां द्युमतीमनेहसमपापाम् । पूर्ववदन्तोदात्तत्वम् । सुशर्माणमित्यादि गतम् । दैवीं देवानामियम् । 'देवाद्यञञौ' इत्यञ् । नावं नौसदृशीं स्वरित्रां शोभनारित्राम् । पूर्ववदन्तोदात्तत्वम् । अरित्रंनाम नौस्तम्भनदण्डः । अनागसमागो दोषः । पूर्ववत्प्रकृतिस्वरत्वम् । अस्रवन्तीमच्छिद्रां स्वस्तयेऽविनाशायारुहेमारुह्याम । 'लिङ्याशिष्यङ्' 'अन्येषामपि दृश्यते' इति संहितायां दीर्घत्वम् ॥

20 पुनरपि तत्रैव गायत्रीत्वात्पुरोनुवाक्याविकल्पः - इमामिति ॥ इमां पृथिवीं नावं नौस्थानीयां शतारित्रां शतस्फ्यां बहुतरणदण्डां अच्छिद्रामरन्ध्राम् । अछिद्रामिति तत्पुरुषः । अव्ययपूर्वपदप्रकृतिस्वरत्वम् । पारयिष्णुं पारप्रापणसमर्थाम् । पार तीर कर्मसमाप्तौ, 'णेश्छन्दसि' इतीष्णुच् । ईदृशीं पृथिवीं देवीं स्वारुहं सुष्ठु आरो-

हामि । छान्दसे लुङि 'कृमृदृरुहिभ्यः' इत्यङ् ॥

इति भट्टभास्करमिश्रविरचिते यजुर्वेदभाष्ये ज्ञानयज्ञाख्ये

प्रथमकाण्डे पञ्चमप्रपाठके एकादशोनुवाकः ॥

समाप्तश्च प्रपाठकः ॥

—-------------------------------------

पञ्चशत् 2 #
TS 1.5.11.2 TS 1.5.11.2
रि॒षः पा॑तु॒ नक्तं᳚ ॥ जा॒तो यद॑ग्ने॒ भुव॑ना॒ व्यख्यः॑ प॒शुं न गो॒पा इर्यः॒ परि॑ज्मा । वैश्वा॑नर॒ ब्रह्म॑णे विन्द गा॒तुं ॅयू॒यं पा॑त स्व॒स्तिभिः॒ सदा॑ नः ॥ त्वम॑ग्ने शो॒चिषा॒ शोशु॑चान॒ आ रोद॑सी अपृणा॒ जाय॑मानः । त्वं दे॒वाꣳ अ॒भिश॑स्तेरमुञ्चो॒ वैश्वा॑नर जातवेदो महि॒त्वा ॥ अ॒स्माक॑मग्ने म॒घव॑थ्सु धार॒याना॑मि क्ष॒त्रम॒जरꣳ॑ सु॒वीर्यं᳚ । व॒यं ज॑येम श॒तिनꣳ॑ सह॒स्रिणं॒ ॅवैश्वा॑नर॒ - [ ]
पदपाठः (Word-by-word)
रि॒षः । पा॒तु॒ । नक्त᳚म् ॥ जा॒तः । यत् । अ॒ग्ने॒ । भुव॑ना । व्यख्य॒ इति॑ वि - अख्यः॑ । प॒शुम् । न । गो॒पा इति॑ गो - पाः । इर्यः॑ । परि॒ज्मेति॒ परि॑ - ज्मा॒ ॥ वैश्वा॑नर । ब्रह्म॑णे । वि॒न्द॒ । गा॒तुम् । यू॒यम् । पा॒त॒ । स्व॒स्तिभि॒रिति॑ स्व॒स्ति - भिः॒ । सदा᳚ । नः॒ ॥ त्वम् । अ॒ग्ने॒ । शो॒चिषा᳚ । शोशु॑चानः । एति॑ । रोद॑सी॒ इति॑ । अ॒पृ॒णाः॒ । जाय॑मानः ॥ त्वम् । दे॒वान् । अ॒भिश॑स्ते॒रित्य॒भि - श॒स्तेः॒ । अ॒मु॒ञ्चः॒ । वैश्वा॑नर । जा॒त॒वे॒द॒ इति॑ जात - वे॒दः॒ । म॒हि॒त्वेति॑ महि - त्वा ॥ अ॒स्माक᳚म् । अ॒ग्ने॒ । म॒घव॒थ्स्विति॑ म॒घव॑त् - सु॒ । धा॒र॒य॒ । अना॑मि । क्ष॒त्रम् । अ॒जर᳚म् । सु॒वीर्य॒मिति॑ सु - वीर्य᳚म् ॥ व॒यम् । ज॒ये॒म॒ । श॒तिन᳚म् । स॒ह॒स्रिण᳚म् । वैश्वा॑नर ।
पदसंख्या: 50
पञ्चशत् 3 #
TS 1.5.11.3 TS 1.5.11.3
वाज॑मग्ने॒ तवो॒तिभिः॑ ॥ वै॒श्वा॒न॒रस्य॑ सुम॒तौ स्या॑म॒ राजा॒ हिकं॒ भुव॑नाना-मभि॒श्रीः । इ॒तो जा॒तो विश्व॑मि॒दं ॅवि च॑ष्टे वैश्वान॒रो य॑तते॒ सूर्ये॑ण ॥ अव॑ ते॒ हेडो॑ वरुण॒ नमो॑भि॒रव॑ य॒ज्ञेभि॑रीमहे ह॒विर्भिः॑ । क्षय॑न्न॒स्मभ्य॑मसुर प्रचेतो॒ राज॒न्नेनाꣳ॑सि शिश्रथः कृ॒तानि॑ ॥ उदु॑त्त॒मं ॅव॑रुण॒ पाश॑म॒स्मदवा॑ऽध॒मं ॅविम॑द्ध्य॒मꣳ श्र॑थाय । अथा॑ व॒यमा॑दित्य - [ ]
पदपाठः (Word-by-word)
वाज᳚म् । अ॒ग्ने॒ । तव॑ । ऊ॒तिभि॒रित्यू॒ति - भिः॒ ॥ वै॒श्वा॒न॒रस्य॑ । सु॒म॒ताविति॑ सु - म॒तौ । स्या॒म॒ । राजा᳚ । हिक᳚म् । भुव॑नानाम् । अ॒भि॒श्रीरित्य॑भि - श्रीः ॥ इ॒तः । जा॒तः । विश्व᳚म् । इ॒दम् । वीति॑ । च॒ष्टे॒ । वै॒श्वा॒न॒रः । य॒त॒ते॒ । सूर्ये॑ण ॥ अवेति॑ । ते॒ । हेडः॑ । व॒रु॒ण॒ । नमो॑भि॒रिति॒ नमः॑ - भिः॒ । अवेति॑ । य॒ज्ञेभिः॑ । ई॒म॒हे॒ । ह॒विर्भि॒रिति॑ ह॒विः - भिः॒ ॥ क्षयन्न॑ । अ॒स्मभ्य॒मित्य॒स्म - भ्य॒म् । अ॒सु॒र॒ । प्र॒चे॒त॒ इति॑ प्र - चे॒तः॒ । राजन्न्॑ । ए॒नाꣳ॑सि । शि॒श्र॒थः॒ । कृ॒तानि॑ ॥ उदिति॑ । उ॒त्त॒ममित्यु॑त् - त॒मम् । व॒रु॒ण॒ । पाश᳚म् । अ॒स्मत् । अवेति॑ । अ॒ध॒मम् । वीति॑ । म॒द्ध्य॒मम् । श्र॒था॒य॒ ॥ अथ॑ । व॒यम् । आ॒दि॒त्य॒ ।
पदसंख्या: 50
पञ्चशत् 4 #
TS 1.5.11.4 TS 1.5.11.4
व्र॒ते तवाऽना॑गसो॒ अदि॑तये स्याम ॥ द॒धि॒क्राव्.ण्णो॑ अकारिषं जि॒ष्णोरश्व॑स्य वा॒जिनः॑ ॥ सु॒र॒भिनो॒ मुखा॑ कर॒त् प्रण॒ आयूꣳ॑षि तारिषत् ॥ आ द॑धि॒क्राः शव॑स॒॑ पञ्च॑ कृ॒ष्टीः सूर्य॑ इव॒ ज्योति॑षा॒ऽपस्त॑तान । स॒ह॒स्र॒साः श॑त॒सा वा॒ज्यर्वा॑ पृ॒णक्तु॒ मद्ध्वा॒ समि॒मा वचाꣳ॑सि । अ॒ग्निर् मू॒र्द्धाभुवः॑। मरु॑तो॒ यद्ध॑वो दि॒वः सु॑म्ना॒यन्तो॒ हवा॑महे । आ तू न॒ - [ ]
पदपाठः (Word-by-word)
व्र॒ते । तव॑ । अना॑गसः । अदि॑तये । स्या॒म॒ ॥ द॒धि॒क्राव्‌ण्ण॒ इति॑ दधि - क्राव्‌ण्णः॑ । अ॒का॒रि॒ष॒म् । जि॒ष्णोः । अश्व॑स्य । वा॒जिनः॑ ॥ सु॒र॒भि । नः॒ । मुखा᳚ । क॒र॒त् । प्रेति॑ । नः॒ । आयूꣳ॑षि । ता॒रि॒ष॒त् ॥ एति॑ । द॒धि॒क्रा इति॑ दधि - क्राः । शव॑सा । पञ्च॑ । कृ॒ष्टीः । सूर्य॑ । इ॒व॒ । ज्योति॑षा । अ॒पः । त॒ता॒न॒ ॥ स॒ह॒स्र॒सा इति॑ स॒ह॒स्र - साः । श॒त॒सा इति॑ शत - साः । वा॒जी । अर्वा᳚ । पृ॒णक्तु॑ । मद्ध्वा᳚ । समिति॑ । इ॒मा । वचाꣳ॑सि ॥ अ॒ग्निः । मू॒र्धा । भुवः॑ ॥ मरु॑तः । यत् । ह॒ । वः॒ । दि॒वः । सु॒म्ना॒यन्त॒ इति॑ सुम्न - यन्तः॑ । हवा॑महे ॥ एति॑ । तु । नः॒ ।
पदसंख्या: 50
पञ्चशत् 5 #
TS 1.5.11.5 TS 1.5.11.5
उप॑ गन्तन ॥ या वः॒ शर्म॑ शशमा॒नाय॒ सन्ति॑ त्रि॒धातू॑नि दा॒शुषे॑ यच्छ॒ताधि॑ । अ॒स्मभ्यं॒ तानि॑ मरुतो॒ वि य॑न्त र॒यिं नो॑ धत्त वृषणः सु॒वीरं᳚ ॥ अदि॑तिर् न उरुष्य॒त्वदि॑तिः॒ शर्म॑ यच्छतु । अदि॑तिः पा॒त्वꣳह॑सः ॥ म॒हीमू॒षु मा॒तरꣳ॑ सुव्र॒ताना॑मृ॒तस्य॒ पत्नी॒मव॑से हुवेम । तु॒वि॒क्ष॒त्रा-म॒जर॑न्ती-मुरू॒चीꣳ सु॒शर्मा॑ण॒मदि॑तिꣳ सु॒प्रणी॑तिं ॥ सु॒त्रामा॑णं पृथि॒वीं द्याम॑ने॒हसꣳ॑ सु॒शर्मा॑ण॒ ( ) मदि॑तिꣳ सु॒प्रणी॑तिं । दैवीं॒ नावꣳ॑ स्वरि॒त्रा-मना॑गस॒-मस्र॑वन्ती॒मा रु॑हेमा स्व॒स्तये᳚ ॥ इ॒माꣳ सु नाव॒माऽरु॑हꣳ श॒तारि॑त्राꣳ श॒तस्फ्यां᳚ । अच्छि॑द्रां पारयि॒ष्णुं ॥
पदपाठः (Word-by-word)
उपेति॑ । ग॒न्त॒न॒ ॥ या । वः॒ । शर्म॑ । श॒श॒मा॒नाय॑ । सन्ति॑ । त्रि॒धातू॒नीति॑ त्रि - धातू॑नि । दा॒शुषे᳚ । य॒च्छ॒त॒ । अधि॑ ॥ अ॒स्मभ्य॒मित्य॒स्म-भ्य॒म् । तानि॑ । म॒रु॒तः॒ । वीति॑ । य॒न्त॒ । र॒यिम् । नः॒ । ध॒त्त॒ । वृ॒ष॒णः॒ । सु॒वीर॒मिति॑ सु-वीर᳚म् ॥ अदि॑तिः । नः॒ । उ॒रु॒ष्य॒तु॒ । अदि॑तिः । शर्म॑ । य॒च्छ॒तु॒ ॥ अदि॑तिः । पा॒तु॒ । अꣳह॑सः ॥ म॒हीम् । उ॒ । स्विति॑ । मा॒तर᳚म् । सु॒व्र॒ताना॒मिति॑ सु - व्र॒ताना᳚म् । ऋ॒तस्य॑ । पत्नी᳚म् । अव॑से । हु॒वे॒म॒ ॥ तु॒वि॒क्ष॒त्रामिति॑ तुवि - क्ष॒त्राम् । अ॒जर॑न्तीम् । उ॒रू॒चीम् । सु॒शर्मा॑ण॒मिति॑ सु - शर्मा॑णम् । अदि॑तिम् । सु॒प्रणी॑ति॒मिति॑ सु - प्रणी॑तिम् ॥ सु॒त्रामा॑ण॒मिति॑ सु - त्रामा॑णम् । पृ॒थि॒वीम् । द्याम् । अ॒ने॒हस᳚म् । सु॒शर्मा॑ण॒मिति॑ सु - शर्मा॑णम् ( ) । अदि॑तिम् । सु॒प्रणी॑ति॒मिति॑ सु - प्रणी॑तिम् ॥ दैवी᳚म् । नाव᳚म् । स्व॒रि॒त्रामिति॑ सु - अ॒रि॒त्राम् । अना॑गसम् । अस्र॑वन्तीम् । एति॑ । रु॒हे॒म॒ । स्व॒स्तये᳚ ॥ इ॒माम् । स्विति॑ । नाव᳚म् । एति॑ । अ॒रु॒ह॒म् । श॒तारि॑त्रा॒मिति॑ श॒त - अ॒रि॒त्रा॒म् । श॒तस्फ्या॒मिति॑ श॒त - स्फ्या॒म् ॥ अच्छि॑द्राम् । पा॒र॒यि॒ष्णुम् ॥
पदसंख्या: 69