अनुवाकः 8 TS 1.5.8

(A8)

(ऊर्जं॑ ॅवो भक्षी॒येति॒ - प्र -गार्.ह॑पत्यमुप॒तिष्ठ॑ते -वसति॒-ज्योति॑ष्मती॒ - मेका॒न्नत्रिꣳ॒॒शच्च॑)

अनुवाकः 8 - Complete Audio

TS 1.5.8 - स्वरानुगामी

0:00 0:00
PS1.1 सं प॑श्यामि प्र॒जा अ॒हमित्या॑ह॒
PS1.2 याव॑न्त ए॒व ग्रा॒म्याः प॒शव॒स्ताने॒वाव॑
PS1.3 रु॒न्धेऽंभः॒ स्थांभो॑ वो भक्षी॒येत्या॒हांभो॒
PS1.4 ह्ये॑ता महः॑ स्थ॒ महो॑
PS1.5 वो भक्षी॒येत्या॑ह॒ महो॒ ह्ये॑ताः
PS1.6 सहः॑ स्थ॒ सहो॑ वो
PS1.7 भक्षी॒येत्या॑ह॒ सहो॒ ह्ये॑ता ऊर्जः॒
PS1.8 स्थोर्जं॑ ॅवो भक्षी॒येत्या॒ -
PS1.9 [ ]
PS2.1 -होर्जो॒ ह्ये॑ता रेव॑ती॒ रम॑द्ध्व॒मित्या॑ह
PS2.2 प॒शवो॒ वै रे॒वतीः᳚ प॒शूने॒वात्मन्
PS2.3 र॑मयत इ॒हैव स्ते॒तो माऽप॑
PS2.4 गा॒तेत्या॑ह ध्रु॒वा ए॒वैना॒ अन॑पगाः
PS2.5 कुरुत इष्टक॒चिद्वा अ॒न्यो᳚ऽग्निः प॑शु॒चिद॒न्यः
PS2.6 सꣳ॑हि॒तासि॑ विश्वरू॒पीरिति॑ व॒थ्सम॒भि मृ॑श॒त्युपै॒वैनं॑
PS2.7 धत्ते पशु॒चित॑मेनं कुरुते॒ प्र
PS2.8 - [ ]
PS3.1 वा ए॒षो᳚ऽस्माल्लो॒काच्च्य॑वते॒ य आ॑हव॒नीय॑-मुप॒तिष्ठ॑ते॒
PS3.2 गार्.ह॑पत्य॒मुप॑ तिष्ठते॒ ऽस्मिन्ने॒व लो॒के
PS3.3 प्रति॑ तिष्ठ॒त्यथो॒ गार्.ह॑पत्यायै॒व नि
PS3.4 ह्नु॑ते गाय॒त्रीभि॒रुप॑ तिष्ठते॒ तेजो॒
PS3.5 वै गा॑य॒त्री तेज॑ ए॒वात्मन्
PS3.6 ध॒त्तेऽथो॒ यदे॒तं तृ॒चम॒न्वाह॒ सन्त॑त्यै॒
PS3.7 गार्.ह॑पत्यं॒ ॅवा अनु॑ द्वि॒पादो॑
PS3.8 वी॒राः प्र जा॑यन्ते॒ य
PS3.9 ए॒वं ॅवि॒द्वान् द्वि॒पदा॑भि॒र् गार्.ह॑पत्य-मुप॒तिष्ठ॑त॒
PS3.10 - [ ]
PS4.1 आऽस्य॑ वी॒रो जा॑यत ऊ॒र्जा
PS4.2 वः॑ पश्याम्यू॒र्जा मा॑ पश्य॒तेत्या॑हा॒
PS4.3 ऽऽशिष॑मे॒वैतामा शा᳚स्ते॒ तथ्स॑वि॒तुर् वरे᳚ण्य॒मित्या॑ह॒
PS4.4 प्रसू᳚त्यै सो॒मानꣳ॒॒ स्वर॑ण॒मित्या॑ह सोमपी॒थमे॒वाव॑
PS4.5 रुन्धे कृणु॒हि ब्र॑ह्मणस्पत॒ इत्या॑ह
PS4.6 ब्रह्मवर्च॒समे॒वाव॑ रुन्धे क॒दा च॒न
PS4.7 स्त॒रीर॒सीत्या॑ह॒ न स्त॒रीꣳ रात्रिं॑
PS4.8 ॅवसति॒ - [ ]
PS5.1 य ए॒वं ॅवि॒द्वान॒ग्नि-मु॑प॒तिष्ठ॑ते॒ परि॑
PS5.2 त्वाऽग्ने॒ पुरं॑ ॅव॒यमित्या॑ह परि॒धिमे॒वैतं
PS5.3 परि॑ दधा॒त्यस्क॑न्दा॒याग्ने॑ गृहपत॒ इत्या॑ह
PS5.4 यथाय॒जुरे॒वैतच्छ॒तꣳ हिमा॒ इत्या॑ह श॒तं
PS5.5 त्वा॑ हेम॒न्तानि॑न्धिषी॒येति॒ वावैतदा॑ह पु॒त्रस्य॒
PS5.6 नाम॑ गृह्णात्यन्ना॒दमे॒वैनं॑ करोति॒ तामा॒शिष॒मा
PS5.7 शा॑से॒ तन्त॑वे॒ ज्योति॑ष्मती॒मिति॑ ब्रूया॒द्यस्य॑
PS5.8 पु॒त्रोऽजा॑तः॒ स्यात् ते॑ज॒स्व्ये॑वास्य॑ ब्रह्मवर्च॒सी
PS5.9 पु॒त्रो जा॑यते॒ तामा॒शिष॒मा शा॑से॒
PS5.10 ऽमुष्मै॒ ज्योति॑ष्मती॒ ( )
PS5.11 मिति॑ ब्रूया॒द्यस्य॑ पु॒त्रो जा॒तः
PS5.12 स्यात् तेज॑ ए॒वास्मि॑न् ब्रह्मवर्च॒सं
PS5.13 द॑धाति

Report Timing Issue

Report timing issue for this location?

पञ्चशत् 1 #
TS 1.5.8.1 TS 1.5.8.1
सं प॑श्यामि प्र॒जा अ॒हमित्या॑ह॒ याव॑न्त ए॒व ग्रा॒म्याः प॒शव॒स्ताने॒वाव॑ रु॒न्धेऽंभः॒ स्थांभो॑ वो भक्षी॒येत्या॒हांभो॒ ह्ये॑ता महः॑ स्थ॒ महो॑ वो भक्षी॒येत्या॑ह॒ महो॒ ह्ये॑ताः सहः॑ स्थ॒ सहो॑ वो भक्षी॒येत्या॑ह॒ सहो॒ ह्ये॑ता ऊर्जः॒ स्थोर्जं॑ ॅवो भक्षी॒येत्या॒ - [ ]
पदपाठः (Word-by-word)
समिति॑ । प॒श्या॒मि॒ । प्र॒जा इति॑ प्र - जाः । अ॒हम् । इति॑ । आ॒ह॒ । याव॑न्तः । ए॒व । ग्रा॒म्याः । प॒शवः॑ । तान् । ए॒व । अवेति॑ । रु॒न्धे॒ । अभंः॑ । स्थ॒ । अभंः॑ । वः॒ । भ॒क्षी॒य॒ । इति॑ । आ॒ह॒ । अभंः॑ । हि । ए॒ताः । महः॑ । स्थ॒ । महः॑ । वः॒ । भ॒क्षी॒य॒ । इति॑ । आ॒ह॒ । महः॑ । हि । ए॒ताः । सहः॑ । स्थ॒ । सहः॑ । वः॒ । भ॒क्षी॒य॒ । इति॑ । आ॒ह॒ । सहः॑ । हि । ए॒ताः । ऊर्जः॑ । स्थ॒ । ऊर्ज᳚म् । वः॒ । भ॒क्षी॒य॒ । इति॑ ।
पदसंख्या: 50
सायणभाष्यम् (Sayana Commentary)

(अथ प्रथमकाण्डे पञ्चमप्रपाठकेऽष्टमोऽनुवाकः)।

अष्टमेऽनुवाके षष्ठानुवाकोक्ता मन्त्रा व्याख्यायन्ते। तत्रेडप्रजस इत्यनेन पदेन गवाश्चादयो विवक्षिता इत्यभिप्रेत्याऽऽह - सं पश्यामीति।

अम्भोमहःसहऊर्जशब्दैर्गवामुपलक्षणं युक्तमित्याह अम्भ इति।

रेवतीशब्देन विवक्षितं क्षीरादिधनमासामस्तीति व्युत्पत्तिमभिप्रेत्य व्याचष्टे

रेवतीरिति। आत्मन्स्वकीयगृह इत्यर्थः।

स्तेत्यनेन ध्रुवजीवनं माऽप गातेत्यनेन वियोगाभावश्च प्रार्थ्यत इत्याह - इहैवेति।

वत्सस्पर्शं विधत्ते - इष्टकचिदिति। इष्टकामुपधाय यथा कश्चिदग्निश्चीयते तथा पशुमुपधायान्यो-ऽग्निश्चीयत इत्युत्प्रेक्षते। तथा सति वत्सस्पर्शेन पशुमुपधायाग्निश्चितो भवति।

गार्हपत्योपस्थानं विधत्ते - प्र वा एष इति। “सुवर्गो लोक आहवनीयः” इति श्रुत्यन्तरात्तदुपस्थानादे-तल्लोमप्रच्युतिः। सा च गार्हपत्योपस्थानेन समाधीयते। किंचाऽऽहवनीय एव तात्पर्योपेतं गार्हपत्यमुपतिष्ठमानः स्वप्रतिष्ठासिद्ध्यर्थं केवलं तमपलपति।

उप त्वाऽग्न इत्याद्यस्तिस्र ऋचो विधत्ते - गायत्रीभिरिति। प्रजापतिमुखादग्निना सहोत्पन्नत्वाद्गायत्र्यास्तेजस्त्वम्। तृचानुवचनमविच्छेदार्थम्।

अग्ने त्वं न इत्याद्यास्तिस्रो द्विपदा विधत्ते - गार्हपत्यमिति।

पश्यतेति लोडाशीरर्थत्वं दर्शयति - ऊर्जा व इति।

सवितृसोमब्रह्मशब्दानामभिप्रायमाह - तत्सवितुरिति।

स्तरीरसि नेति निषधस्याभिप्रायमाह - कदा चनेति। अन्धकारयुक्ता रात्रिश्चोरवृश्चिकादिबाधयुक्ततया स्तरीरित्यु-च्यते। विद्वानुपस्थाता तादृशीं रात्रिं नाधिवसति, किंतु सुखकरीमित्यर्थः।

परि धीमहीति लिङ्गान्मन्त्र एवाग्नेरस्कन्दनार्थः परिधिरित्याह - परि त्वाऽग्न इति।

मन्त्रस्य स्पष्टार्थतां दर्शयति - अग्ने गृहपत इति।

हिमशब्दो हेमन्तवाचीत्याह - शत हिमा इति।

तन्तवेऽमुष्मा इत्यत्र नामग्रहणं विधत्ते - पुत्रस्य नामेति एनं पुत्रम्।

अनुत्पन्नपुत्रविषयस्तन्तुशब्द उत्पन्नपुत्रविषयोऽदःशब्द इति व्यवस्थां दर्शयति - तामाशिषमाशास इति।

अथ मीमांसा।

तृतीयाध्यायस्य तृतीयपादे चिन्तितम् -

“ऐन्द्र्योपस्थीयतां वह्निरितीन्द्राग्न्योर्विकल्पनम्।

समुच्चयो वोत शक्र एकोऽग्निः केवलोऽथवा॥

विकल्पः श्रुतिलिङ्गाभ्यां गुणावृत्त्या समुच्चयः।

श्रुतिः शक्त्यनुसारेति शक्र एकोऽत्र लिङ्गतः॥

शक्तिरुक्ता श्रुतिः शीघ्रा लिङ्गं श्रुत्यनुमापकम्।

नैराकाङ्क्ष्यात्मके बाधे श्रुत्याऽग्नौ केवले स्थितिः” इति।

“ऐन्द्र्या गार्हपत्यमुपतिष्ठते” इति श्रूयते। “कदा चन स्तरीरसि नेन्द्र सश्चसि दाशुषे” इत्यसावृगैन्द्री। तत्रेन्द्रस्य प्रकाशनात्। हे इन्द्र त्वं कदाचिदपि घातको न भवसि किंत्वाहुतिं दत्तवते यजमानाय प्रीयस इत्यर्थः। तत्रेन्द्र-प्रकाशनसामर्थ्यरूपाल्लिङ्गान्मन्त्रस्येन्द्रविषयक्रियासाधनत्वं गम्यते। यद्यसौ मन्त्र इन्द्रप्रधानकक्रियायाः साधनं न भवेत्तदानीमनेन मन्त्रेणेन्द्रप्रकाशनं व्यर्थं स्यात्। तस्मादेतन्मन्त्रकरणकक्रियां प्रतीन्द्रः प्रधानमित्येतादृशबुद्ध्युत्पादनं लिङ्गविनियोगः। काऽसौ क्रियेति विशेषजिज्ञासायामैन्द्र्योपतिष्ठत इत्यनेनाविरुद्धपदद्वयरूपेण वाक्येनोपस्थानक्रियायां पर्यवसानं क्रियते। तथा सत्यैन्द्रमन्त्रेणेन्द्रमुपतिष्ठत इत्ययमर्थः पर्यवस्यति। तथा गार्हपत्यमित्यनया द्वितीयान्तपदरूपया श्रुत्या गार्हपत्यस्य प्राधान्यं गम्यते। तच्च गुणभूतां यत्किंचित्करणकक्रियामन्तरेण न संभवति। ततस्तादृशी कांचित्क्रियां प्रति गार्हपत्यप्राधान्यमित्येतादृशबुद्ध्युत्पादनं श्रुतिविनियोगः। ऐन्द्र्योपतिष्ठत इति पदद्वयेन मन्त्रविशेषक्रिया-विशेषयोः पर्यवसानं भवति। तथा सत्यैन्द्रेण मन्त्रेण गार्हपत्यमुपतिष्ठत इत्यर्थो भवति। तदेवं श्रुतिलिङ्गयोर्विरोधे सति प्रमाणत्वाविश्षाद्व्रीहियववद्विकल्प इत्येकः पूर्वपक्षः। इन्द्रगार्हपत्ययोः प्रधानत्वाविशेषादुपस्थानस्य गुणत्वात्प्रतिप्रधानं गुणावृत्तिरिति न्यायेनोपस्थानावृत्त्या श्रुतिलिङ्गयोः समुच्चय इति द्वितीयः पूर्वपक्षः। श्रुतिर्विनियुञ्जाना वस्तुमर्थ्यमनुसृत्यैव विनियुङ्क्ते। अन्यथा वह्निना सिञ्चेत्, वारिणा दहेदित्यपि विनियुज्येत। तत उपजीव्यत्वेन लिङ्गस्य प्रबलत्वादिन्द्र एव मन्त्रेणोपस्थेय इति तृतीयः पूर्वपक्षः। ऐन्द्रमन्त्रस्य गार्हपत्ये मुख्यवृत्त्या शक्त्यभावेऽपि गौणावृत्त्या शक्तिरस्तीति निवेशन इत्यस्मिन्नुदाहरणे पूर्वमेव दर्शितम्। तथा सति सामर्थ्याभावकृतप्रतिबन्धाभावान्निर्विघ्ना श्रुतिः शीघ्रं विनियुङ्क्ते। लिंङ्गं तु विलम्बते। मन्त्रपदान्यादौ स्वाभिधेयमर्थं प्रतिपादयन्ति। तत ऊर्ध्वं मन्त्रस्य सामर्थ्यं निरूप्यते। पश्चात्सामर्थ्यवशात्साधनत्ववाचिनी प्राधान्यवाचिनी च श्रुतिः कल्पते। सा च श्रुतिर्मन्त्रेणेन्द्रमुपतिष्ठेतेति विनियुङ्क्ते। तथा च प्रत्यक्षश्रुतौ स्वाभिधेयप्रतिपादनविनियोगयोर्मध्यवर्तिनौ सामर्थ्यनिरूपणश्रुतिकल्पनव्यापारौ न स्त इति प्राबल्यात्तया लिङ्गं बाध्यते। न च प्रत्यक्षश्रुतिविनियोगवेलायामलब्धात्मकत्वेनाप्राप्तं लिङ्गं कथं बाध्येतेति शङ्कनीयम्। भविष्यत्प्राप्तिप्रतिबन्धस्यैवात्र बाधत्वात्। श्रुत्या विनियुक्तस्य मन्त्रस्य पुनरर्विनियोगाकाङ्क्षाया अनुदयाद्विनियोजकं लिङ्गं कथं प्राप्स्यति। तस्माद्गार्हपत्योपस्थाने मन्त्रः प्रत्यक्षश्रुत्या विनियुज्यते॥

इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वे-दीयतैत्तिरीयसंहिताभाष्ये प्रथमकाण्डे पञ्चमप्रपाठकेऽष्टमोऽनुवाकः॥८॥
भट्टभास्करभाष्यम् (Bhatta Bhaskara Commentary)
1 अथ ग्रहपश्वाद्युपस्थानमन्त्राणां ब्राह्मणम् - सं पश्यामीत्यादि ॥ ग्नहाणां पशूनां चोपस्थानमन्त्रः । ग्राम्याः पशवो गोश्वाजाविपुरुषगर्दभोष्ट्रास्सप्त ॥
2 अम्भो ह्येता इति ॥ अदनीयं क्षीराद्यन्नमम्भः । 'अदेर्नुम्भश्च' इत्यसुन् । तत्साधनत्वात्ताच्छब्द्यं गवाम् । एवं सर्वत्र द्रष्टव्यम्॥
3 महः पूजा ब्रह्म वा, यागादिद्वारेण तत्साधनत्वात् ॥
4 सहो बलं, घृतादीनां बलहेतुत्वात् ॥
5 ऊर्जः क्षीरादिरसः ॥
6 पशवो वै रेवतीः रैवत्यः, क्षीरादिसाधनेन तद्वत्त्वात् । 'रयेर्मतौ बहुळम्' इति सम्प्रसारणम्, 'वाच्छन्दसि' इति पूर्वसवर्णदीर्घत्वम् । रेवतीशब्दः पशूनां संज्ञात्वेनाजहत्स्वलिङ्ग एव पशुषु वर्तते ॥
7 ध्रुवा नित्याः अनपगाः अनपाक्ताः ॥
8 इष्टकचिदित्यादि ॥ इष्टकाभिश्चीयत एकोऽग्निः । । 'इष्टकेषीकामालानाम्' इति ह्रस्वत्वम् । पशुभिरेकोग्निश्चीयते । तत्र 'संहिता' इति मन्त्रेणाग्निहोत्रीवत्सस्याभिमर्शनेन उपधानस्थानीयेन एवं वत्समुपधत्ते । पशुचितमेनमग्निं कर्वाणो भवति ॥
9 प्र वा एष इत्यादि ॥ 'सुवर्गो लोक आहवनयिः' इत्यन्यत्र दर्शनात् । गार्हपत्यमिति । 'गृहपतिना संयुक्ते ञ्यः' । अथो अपि च उपस्थानेन गार्हपत्याय निह्नुते प्रह्वीभवति । यद्वा - आहवनीयं छादयति । त्वमेवोपस्थेय इति ॥
10 गायत्रीभिरिति ॥ 'उप त्वाग्ने दिवेदिवे' इत्येताभिस्तिसृभिः । तेजो वा इति । पूर्ववत्ताच्छब्द्यम् । अथो अपि च एतस्य तृचस्यानुवचनं सन्तत्यै भवति । 'पितेव सूनवे' इति च मन्त्रपदम् । 'तादो च' इति गतेः प्रकृतिस्वरत्वम् । तिस्र ऋचस्समाहृताः । 'ऋक्पूरब्धूः' इति समासान्तः, 'ऋचि त्रेरुत्तरपदादिलोपश्च' इति सम्प्रसारणम् ॥
11 गार्हपत्यं वा इत्यादि ॥ लक्षणेऽनोः कर्मप्रवचनीयत्वम् । द्विपाद इति । 'सङ्ख्या सुपूर्वस्य' इति लोपस्समासान्तः । द्विपदाभिरिति । 'अग्ने त्वं नः' इति तिसृभिर्द्विपदाभिर्विराड्गायत्रीभिरिति । पूर्ववत्समासान्तः, 'टावृचि' इति टापि, 'पादः पत्' इति पद्भावः, 'द्वित्रिभ्यां पाद्दन्' इत्युभयत्राप्युत्तरपदान्तोदात्तत्वम् ॥
12 ऊर्जा व इत्यादि ॥ अयमपि ग्रहपशूपस्थानमन्त्रः । पुष्यासं श्रयन्तामित्येतामाशिषमाशास्ते ॥
13 तत्सवितुरिति आहवनीयोपस्थानम् ॥ प्रसूत्यै अनुज्ञानाय भवति । पूर्ववद्गतिस्वरः ॥
14 सोमानमित्याहवनीयोपस्थानमेव ॥ सोमपीथमेव सोमपानमेव अनेनावरुन्धे । पिबतेरौणादिकस्थक्प्रत्ययः ॥
15 ब्रह्मवर्चसमिति ॥ 'ब्रह्महस्तिभ्यां वर्चसः' इत्यत् ॥
16 कदा चनेति रात्र्युपस्थानम् ॥ य एवमस्य मन्त्रस्यार्थं विद्वानग्न्यात्मिकां रात्रिमुपतिष्ठते स स्तरीं छादयित्रीं विनाशयित्रीं रात्रिं न वसति, अपि तु सुखयित्रीमेवाधिवसति सुखहेतुरेव भवतीति यावत् । 'अवितृस्तृतन्त्रिभ्य ईः' इतीप्रत्ययः ॥
17 परि त्वेति गार्हपत्योपस्थानम् ॥ इममेव मन्त्रं परिध्यात्यकं परितस्सर्वतो दधाति । तच्चास्कन्दायाग्नेर्भवति ॥
18 अग्ने गृहपत इति गार्हपत्योपस्थानमेव ॥ अत्र सूगृहपतित्वादिफलं यथा यजुर्वदति तथा भवत्येव ॥
19 शतं त्वेति ॥ हिमशब्देन संवत्सराभिधानमुक्तम् । इन्धिषीयेति । इदमेव सुगृहपतित्वमिति ॥
20 पुत्रस्येति ॥ अमुष्मा इत्यत्र यथा नारायणाय केशवायेति । अन्नादमिति । इदमेव ज्योतिष्मत्त्वम् ॥
21 यस्य पुत्र इति ॥ यस्याजातः पुत्रः तस्य तन्तव इति ब्रूयात् असन्निहितत्वात् । अमुष्मा इति जातं निर्देष्टुं शक्यत इति तन्तव इत्युच्यते । अमुष्मा इति जातपुत्रस्य, अदश्शब्दस्य सन्निहितविषयत्वात् ॥
इति पञ्चमे अष्टमोनुवाकः ॥
पञ्चशत् 2 #
TS 1.5.8.2 TS 1.5.8.2
-होर्जो॒ ह्ये॑ता रेव॑ती॒ रम॑द्ध्व॒मित्या॑ह प॒शवो॒ वै रे॒वतीः᳚ प॒शूने॒वात्मन् र॑मयत इ॒हैव स्ते॒तो माऽप॑ गा॒तेत्या॑ह ध्रु॒वा ए॒वैना॒ अन॑पगाः कुरुत इष्टक॒चिद्वा अ॒न्यो᳚ऽग्निः प॑शु॒चिद॒न्यः सꣳ॑हि॒तासि॑ विश्वरू॒पीरिति॑ व॒थ्सम॒भि मृ॑श॒त्युपै॒वैनं॑ धत्ते पशु॒चित॑मेनं कुरुते॒ प्र - [ ]
पदपाठः (Word-by-word)
आ॒ह॒ । ऊर्जः॑ । हि । ए॒ताः । रेव॑तीः । रम॑द्ध्वम् । इति॑ । आ॒ह॒ । प॒शवः॑ । वै । रे॒वतीः᳚ । प॒शून् । ए॒व । आ॒त्मन्न् । र॒म॒य॒ते॒ । इ॒ह । ए॒व । स्त॒ । इ॒तः । मा । अपेति॑ । गा॒त॒ । इति॑ । आ॒ह॒ । ध्रु॒वाः । ए॒व । ए॒नाः॒ । अन॑पगा॒ इत्यन॑प-गाः॒ । कु॒रु॒ते॒ । इ॒ष्ट॒क॒चिदिती᳚ष्टक-चित् । वै । अ॒न्यः । अ॒ग्निः । प॒शु॒चिदिति॑ पशु - चित् । अ॒न्यः । सꣳ॒॒हि॒तेति॑ सं - हि॒ता । अ॒सि॒ । वि॒श्व॒रू॒पीरिति॑ विश्व - रू॒पीः । इति॑ । व॒थ्सम् । अ॒भीति॑ । मृ॒श॒ति॒ । उपेति॑ । ए॒व । ए॒न॒म् । ध॒त्ते॒ । प॒शु॒चित॒मिति॑ पशु - चित᳚म् । ए॒न॒म् । कु॒रु॒ते॒ । प्रेति॑ ।
पदसंख्या: 50
पञ्चशत् 3 #
TS 1.5.8.3 TS 1.5.8.3
वा ए॒षो᳚ऽस्माल्लो॒काच्च्य॑वते॒ य आ॑हव॒नीय॑-मुप॒तिष्ठ॑ते॒ गार्.ह॑पत्य॒मुप॑ तिष्ठते॒ ऽस्मिन्ने॒व लो॒के प्रति॑ तिष्ठ॒त्यथो॒ गार्.ह॑पत्यायै॒व नि ह्नु॑ते गाय॒त्रीभि॒रुप॑ तिष्ठते॒ तेजो॒ वै गा॑य॒त्री तेज॑ ए॒वात्मन् ध॒त्तेऽथो॒ यदे॒तं तृ॒चम॒न्वाह॒ सन्त॑त्यै॒ गार्.ह॑पत्यं॒ ॅवा अनु॑ द्वि॒पादो॑ वी॒राः प्र जा॑यन्ते॒ य ए॒वं ॅवि॒द्वान् द्वि॒पदा॑भि॒र् गार्.ह॑पत्य-मुप॒तिष्ठ॑त॒ - [ ]
पदपाठः (Word-by-word)
वै । ए॒षः । अ॒स्मात् । लो॒कात् । च्य॒व॒ते॒ । यः । आ॒ह॒व॒नीय॒मित्या᳚ - ह॒व॒नीय᳚म् । उ॒प॒तिष्ठ॑त॒ इत्यु॑प - तिष्ठ॑ते । गार्.ह॑पत्य॒मिति॒ गार्.ह॑ - प॒त्य॒म् । उपेति॑ । ति॒ष्ठ॒ते॒ । अ॒स्मिन्न् । ए॒व । लो॒के । प्रतीति॑ । ति॒ष्ठ॒ति॒ । अथो॒ इति॑ । गार्.ह॑पत्या॒येति॒ गार्.ह॑ - प॒त्या॒य॒ । ए॒व । नीति॑ । ह्नु॒ते॒ । गा॒य॒त्रीभिः॑ । उपेति॑ । ति॒ष्ठ॒ते॒ । तेजः॑ । वै । गा॒य॒त्री । तेजः॑ । ए॒व । आ॒त्मन्न् । ध॒त्ते॒ । अथो॒ इति॑ । यत् । ए॒तम् । तृ॒चम् । अ॒न्वाहेत्य॑नु - आह॑ । संत॑त्या॒ इति॒ सं - त॒त्यै॒ । गार्.ह॑पत्य॒मिति॒ गार्.ह॑ - प॒त्य॒म् । वै । अन्विति॑ । द्वि॒पाद॒ इति॑ द्वि॒ - पादः॑ । वी॒राः । प्रेति॑ । जा॒य॒न्ते॒ । यः । ए॒वम् । वि॒द्वान् । द्वि॒पदा॑भि॒रिति॑ द्वि - पदा॑भिः । गार्.ह॑पत्य॒मिति॒ गार्.ह॑ - प॒त्य॒म् । उ॒प॒तिष्ठ॑त॒ इत्यु॑प - तिष्ठ॑ते ।
पदसंख्या: 50
पञ्चशत् 4 #
TS 1.5.8.4 TS 1.5.8.4
आऽस्य॑ वी॒रो जा॑यत ऊ॒र्जा वः॑ पश्याम्यू॒र्जा मा॑ पश्य॒तेत्या॑हा॒ ऽऽशिष॑मे॒वैतामा शा᳚स्ते॒ तथ्स॑वि॒तुर् वरे᳚ण्य॒मित्या॑ह॒ प्रसू᳚त्यै सो॒मानꣳ॒॒ स्वर॑ण॒मित्या॑ह सोमपी॒थमे॒वाव॑ रुन्धे कृणु॒हि ब्र॑ह्मणस्पत॒ इत्या॑ह ब्रह्मवर्च॒समे॒वाव॑ रुन्धे क॒दा च॒न स्त॒रीर॒सीत्या॑ह॒ न स्त॒रीꣳ रात्रिं॑ ॅवसति॒ - [ ]
पदपाठः (Word-by-word)
एति॑ । अ॒स्य॒ । वी॒रः । जा॒य॒ते॒ । ऊ॒र्जा । वः॒ । प॒श्या॒मि॒ । ऊ॒र्जा । मा॒ । प॒श्य॒त॒ । इति॑ । आ॒ह॒ । आ॒शिष॒मित्या᳚ - शिष᳚म् । ए॒व । ए॒ताम् । एति॑ । शा॒स्ते॒ । तत् । स॒वि॒तुः । वरे᳚ण्यम् । इति॑ । आ॒ह॒ । प्रसू᳚त्या॒ इति॒ प्र - सू॒त्यै॒ । सो॒मान᳚म् । स्वर॑णम् । इति॑ । आ॒ह॒ । सो॒म॒पी॒थमिति॑ सोम - पी॒थम् । ए॒व । अवेति॑ । रु॒न्धे॒ । कृ॒णु॒हि । ब्र॒ह्म॒णः॒ । प॒ते॒ । इति॑ । आ॒ह॒ । ब्र॒ह्म॒व॒र्च॒समिति॑ ब्रह्म-व॒र्च॒सम् । ए॒व । अवेति॑ । रु॒न्धे॒ । क॒दा । च॒न । स्त॒रीः । अ॒सि॒ । इति॑ । आ॒ह॒ । न । स्त॒रीम् । रात्रि᳚म् । व॒स॒ति॒ ।
पदसंख्या: 50
पञ्चशत् 5 #
TS 1.5.8.5 TS 1.5.8.5
य ए॒वं ॅवि॒द्वान॒ग्नि-मु॑प॒तिष्ठ॑ते॒ परि॑ त्वाऽग्ने॒ पुरं॑ ॅव॒यमित्या॑ह परि॒धिमे॒वैतं परि॑ दधा॒त्यस्क॑न्दा॒याग्ने॑ गृहपत॒ इत्या॑ह यथाय॒जुरे॒वैतच्छ॒तꣳ हिमा॒ इत्या॑ह श॒तं त्वा॑ हेम॒न्तानि॑न्धिषी॒येति॒ वावैतदा॑ह पु॒त्रस्य॒ नाम॑ गृह्णात्यन्ना॒दमे॒वैनं॑ करोति॒ तामा॒शिष॒मा शा॑से॒ तन्त॑वे॒ ज्योति॑ष्मती॒मिति॑ ब्रूया॒द्यस्य॑ पु॒त्रोऽजा॑तः॒ स्यात् ते॑ज॒स्व्ये॑वास्य॑ ब्रह्मवर्च॒सी पु॒त्रो जा॑यते॒ तामा॒शिष॒मा शा॑से॒ ऽमुष्मै॒ ज्योति॑ष्मती॒ ( ) मिति॑ ब्रूया॒द्यस्य॑ पु॒त्रो जा॒तः स्यात् तेज॑ ए॒वास्मि॑न् ब्रह्मवर्च॒सं द॑धाति ॥
पदपाठः (Word-by-word)
यः । ए॒वम् । वि॒द्वान् । अ॒ग्निम् । उ॒प॒तिष्ठ॑त॒ इत्यु॑प - तिष्ठ॑ते । परीति॑ । त्वा॒ । अ॒ग्ने॒ । पुर᳚म् । व॒यम् । इति॑ । आ॒ह॒ । प॒रि॒धिमिति॑ परि-धिम् । ए॒व । ए॒तम् । परीति॑ । द॒धा॒ति॒ । अस्क॑न्दाय । अग्ने᳚ । गृ॒ह॒प॒त॒ इति॑ गृह - प॒ते॒ । इति॑ । आ॒ह॒ । य॒था॒य॒जुरिति॑ यथा - य॒जुः । ए॒व । ए॒तत् । श॒तम् । हिमाः᳚ । इति॑ । आ॒ह॒ । श॒तम् । त्वा॒ । हे॒म॒न्तान् । इ॒न्धि॒षी॒य॒ । इति॑ । वाव । ए॒तत् । आ॒ह॒ । पु॒त्रस्य॑ । नाम॑ । गृ॒ह्णा॒ति॒ । अ॒न्ना॒दमित्य॑न्न - अ॒दम् । ए॒व । ए॒न॒म् । क॒रो॒ति॒ । ताम् । आ॒शिष॒मित्या᳚-शिष᳚म् । एति॑ । शा॒से॒ । तन्त॑वे । ज्योति॑ष्मतीम् ( ) । इति॑ । ब्र॒या॒त् । यस्य॑ । पु॒त्रः । अजा॑तः । स्यात् । ते॒ज॒स्वी । ए॒व । अ॒स्य॒ । ब्र॒ह्म॒व॒र्च॒सीति॑ ब्रह्म - व॒र्च॒सी । पु॒त्रः । जा॒य॒ते॒ । ताम् । आ॒शिष॒मित्या᳚ - शिष᳚म् । एति॑ । शा॒से॒ । अ॒मुष्मै᳚ । ज्योति॑ष्मतीम् । इति॑ । ब्रू॒या॒त् । यस्य॑ । पु॒त्रः । जा॒तः । स्यात् । तेजः॑ । ए॒व । अ॒स्मि॒न्न् । ब्र॒ह्म॒व॒र्च॒समिति॑ ब्रह्म - व॒र्च॒सम् । द॒धा॒ति॒ ॥
पदसंख्या: 79