पदपाठः (Word-by-word)
सायणभाष्यम् (Sayana Commentary)
(अथ प्रथमकाण्डे पञ्चमप्रपाठके नवमोऽनुवाकः) ।
नवमेऽनुवाके पूर्वोक्तोपस्थानस्याग्निहोत्राङ्गता प्रदर्श्यते । तत्र तावदग्निहोत्रं विधत्ते -
अग्निहोत्रमिति । वाक्यान्तरविहितेन पयोदधियवाग्वादिद्रव्येणाग्निहोत्रनामकं होमं कुर्यात् । यजमानस्य क्षीरप्रभृतिकं यत्स्वमग्नौ हुतं न तद्विनश्यति किंतु तस्यैव यजमानस्य तत्स्वं भूत्वाऽवतिष्ठते ।
तदवस्थानं दृष्टान्तेनोपपादयति - रेतः सिञ्चतीति । यथा प्रजोत्पादके योनौ सिक्तं रेतोऽवतिष्ठते तथाऽग्नेः प्रजननरूपत्वात्तस्मिन्हुतमवतिष्ठते ।
ननु वह्निसमीपे प्राप्तानां द्रव्याणां दाहः प्रत्यक्षेणोपलभ्यत इत्याशङ्कयाऽऽह -
अथौषधीरिति । यद्यपि घर्मकाले दावाग्निः स्वसमीपं प्राप्ता ओषधीर्दहति तथाऽपि दग्धास्ता ओषधयो वृष्टिकाले भूयस्यः प्रजायन्ते । तस्मात्प्रजननोऽग्निः । कालद्वयं विधत्ते - यत्सायमिति । सायंकालीनहोमेन सेचनम् । प्रातःकालीनहोमेनोत्पादनम् ।
विहितस्याग्निहोत्रस्याङ्गमुपस्थानं विधत्ते - रेतः सिक्तमिति । लोके योनौ सिक्तं रेतो विश्वकर्मणा यदि न विक्रियेत तदा नैव प्रजोत्पत्तिरस्ति । स च त्वष्टा यावन्ति रूपाण्युद्दिश्य रेतो विविधं करोति तावन्त्युत्पद्यन्ते । अत्रापि यजमानो देवैरनुगृहीतस्त्वष्टा ततो विविधरूपकरणाय बह्वीभिरुपतिष्ठते । अयमुपस्थानकर्मविधिः । एतदनुवादेन षड्भिरुपतिष्ठत इत्यादिमन्त्रविधिः ।
उपस्थानं प्रशंसति - स प्रैवेति । उपस्थाता प्रजामुत्पाद्य प्रतिदिनमुत्तरोत्तरं धनादिभिर्वर्धते ।
प्रकारान्तरेण प्रशंसति - अहर्देवानामिति । वित्तं पूर्वलब्धं पशुरूपं धनं, वेद्यमतः परं लब्धुं योग्यं, तदुभयं देवद्रव्यमपहृत्य तेन सहासुरा रात्रिं प्राविशन्नन्धकारे क्वापि गताः । ततः पशुहीना वयमिति खिद्यन्तो देवा उपायमपश्यन् । रात्रावग्नेः प्रकाशाधिक्याद्रात्रिराग्नेयी । अग्नेः पशुस्वामित्वात्पशवोऽप्याग्नेयाः । स्तुतः सोऽग्निरेभ्यो देवार्थं रात्रेरध्याहृत्याहरभिलक्ष्य तान्पशून्निरार्जन्निरगमयत् । कामान्भोगान् ।
पुनः प्रकारान्तरेण प्रशंसति - आदित्यो वा इति ।
पुनरपि प्रकारान्तरेण प्रशंसति - अभि वा इति । एनावाहवनीयगार्हपत्यौ य उपतिष्ठत एषोऽग्नी उभावभ्यारोहति स्ववशौ करोति । यथा लोके कश्चित्पूर्वमधमः सन्नेवं कामयतेऽहं विद्यादिना श्रेष्ठ उत्तमं पदमभ्यारूढो भविष्यामीति तथाऽयं यजमान उपस्थानेन स्वस्योत्तमं पदं करोति । तस्मादुपस्थानं प्रशस्तमित्यर्थः ।
अत्र केचित्प्रातरग्निर्नोपस्थेय इत्याहुः । अन्ये तु न कदाचिदप्युपस्थेय इति । सिद्धान्तिनस्तु सर्वदाऽप्युपस्थेय इति । तत्र प्रथमं पूर्वपक्षं दर्शयति -
नक्तमुपतिष्ठत इति । रात्रौ व्रतान्यनुष्ठेयानि कर्माणि संसृज्यन्ते संकीर्णानि भवन्ति । अन्धकारे केन कथमनुष्ठितमिति न ज्ञायते । यथाशास्त्रमनुष्ठितो व्रतविशेषः श्रेयांस्तद्विपरीतश्चेत्पापीयान् । तावुभौ सहैव तिष्ठतः । तत्राग्नावुषस्थिते सत्यग्निना ज्योतिषा रात्रिप्रयुक्तं तमोदोषं तरति । तस्मान्नक्तमुपस्थेयः । अहनि तु तमोदोषाभावान्नोपस्थेय इत्येकः पूर्वपक्षः ।
द्वितीयपूर्वपक्षं विचारपुरःसरं दर्शयति - उपस्थेय इति । प्लुतिर्विचारार्था । लोके मनुष्यायैव तावद्राज्ञे यः कोऽपि दरिद्रो यत्किंचिज्जम्बीरफलादिकमुपायनमाहृत्य ततः प्रतिदिनमेनं राजानं प्रति क्षेत्रधनादिकं यदि याचति तदा स याचकस्तं राजानं पीडयत्येव । तथा सति को नाम महाप्रभावान्देवान्प्रतिदिनं याचितुमर्हति । याच्ञारूपं चेदमुपस्थानम् । आयुर्दा अग्नेऽस्यायुर्मे देहीत्यादिमन्त्रेषु तत्प्रतीतेः । तस्मादग्निः कदाचिदपि नोपस्थेय इति द्वितीयः पूर्वपक्षः ।
सिद्धान्तं दर्शयति - अथो खल्वाहुरिति । अथोशब्दः पूर्वपक्षव्यावृत्त्यर्थः । आशिषे वै स्वापेक्षितं सर्वमाशासितुमेव कं प्रजापतिसदृशं सर्वदेवात्मकमग्निं प्रति यजमानो यजत इत्यभिज्ञा आहुः । लोकेऽपि राज्ञश्चित्तवृत्तिमविज्ञायाकाण्डे देहि देहीत्युक्ते सत्युपरोधो भवति । यदा तु प्रशंसया विनोदेन वा परितोषमुत्पाद्य याचते तदानीमुत्साहयुक्तो याचितादप्यत्यन्तमधिकमेव ददाति, तद्वदाहिताग्नेर्मन्त्रैरुपस्थानमेव याच्ञा । सा च बहुविधप्रशंसापूर्वकत्वान्नोपरोधाय भवति किंत्वत्यन्तपरितोषायैव । तस्मात्सायं प्रातश्च वह्निरुपस्थेय एव ।
ऋग्भिरुपस्थानं प्रशंसति -
प्रजापतिरिति । अहोरात्रदेवताभ्यामन्तर्धापिताः पशवश्छन्दोयुक्तमन्त्रैरन्विष्टाः सन्तो लब्धाः । तस्माच्छन्दोभिरुपस्थानं विनष्टवस्त्वन्वेषणाय भवति ।
तदुपस्थानस्य प्रतिदिनकर्तव्यतामुन्नयति - न तत्रेति । उपस्थातुरभीष्टप्रार्थनासद्भावादुपस्थेयस्य स्तुतिसद्भावाच्च तत्रोपस्थाने कस्यापि जाम्यालस्यं नास्ति ।
उपस्थानवेलायामीषत्तिरश्चीनमुखत्वं विधत्ते - यो वा अग्निमिति । (प्रत्यङ्) प्रत्यङ्मुखः । तथा सत्यग्निरेनं यजमानं प्रत्योषति प्रातिकूल्येन दहति । (पराङ्) पराङ्मुखः । तथा सति यजमानः प्रजया पशुभिश्च विष्वङ्ङेति वियुक्तो भवति । कवातिर्यङ्ङिवेषत्तिरश्चीन इव ॥