अनुवाकः 9 TS 1.5.9

(A9)

(सि॒क्तस्य॑-स॒ह-भ॑वति॒-यो-यत्-खलु॒ वै-प॒शुभि॒-स्त्रयो॑दश च)

अनुवाकः 9 - Complete Audio

TS 1.5.9 - स्वरानुगामी

0:00 0:00
PS1.1 अ॒ग्नि॒हो॒त्रं जु॑होति॒ यदे॒व किं
PS1.2 च॒ यज॑मानस्य॒ स्वं तस्यै॒व
PS1.3 तद्रेतः॑ सिञ्चति प्र॒जन॑ने प्र॒जन॑नꣳ॒॒
PS1.4 हि वा अ॒ग्निरथौष॑धी॒रन्त॑गता दहति॒
PS1.5 तास्ततो॒ भूय॑सीः॒ प्र जा॑यन्ते॒
PS1.6 यथ्सा॒यं जु॒होति॒ रेत॑ ए॒व
PS1.7 तथ्सि॑ञ्चति॒ प्रैव प्रा॑त॒स्तने॑न जनयति॒
PS1.8 तद्रेतः॑ सि॒क्तं न त्वष्ट्राऽवि॑कृतं॒
PS1.9 प्रजा॑यते याव॒च्छो वै रेत॑सः
PS1.10 सि॒क्तस्य॒ - [ ]
PS2.1 त्वष्टा॑ रू॒पाणि॑ विक॒रोति॑ ताव॒च्छो
PS2.2 वै तत्प्र जा॑यत ए॒ष
PS2.3 वै दैव्य॒स्त्वष्टा॒ यो यज॑ते
PS2.4 ब॒ह्वीभि॒रुप॑ तिष्ठते॒ रेत॑स ए॒व
PS2.5 सि॒क्तस्य॑ बहु॒शो रू॒पाणि॒ वि
PS2.6 क॑रोति॒ स प्रैव जा॑यते॒
PS2.7 श्वःश्वो॒ भूया᳚न् भवति॒ य
PS2.8 ए॒वं ॅवि॒द्वान॒ग्निमु॑प॒तिष्ठ॒ते ऽह॑र्दे॒वाना॒मासी॒द् -
PS2.9 रात्रि॒रसु॑राणां॒ तेऽसु॑रा॒ यद्दे॒वानां᳚ ॅवि॒त्तं
PS2.10 ॅवेद्य॒मासी॒त्तेन॑ स॒ह- [ ]
PS3.1 रात्रिं॒ प्राऽ*वि॑श॒न्ते दे॒वा ही॒ना
PS3.2 अ॑मन्यन्त॒ ते॑ऽपश्यन्नाग्ने॒यी रात्रि॑राग्ने॒याः प॒शव॑
PS3.3 इ॒ममे॒वाग्निꣳ स्त॑वाम॒ स नः॑
PS3.4 स्तु॒तः प॒शून् पुन॑र्दास्य॒तीति॒ ते᳚ऽग्निम॑स्तुव॒न्थ्
PS3.5 स ए᳚भ्यः स्तु॒तो रात्रि॑या॒
PS3.6 अद्ध्यह॑र॒भि प॒शून्निरा᳚र्ज॒त्ते दे॒वाः प॒शून्
PS3.7 वि॒त्त्वा कामाꣳ॑ अकुर्वत॒ य
PS3.8 ए॒वं ॅवि॒द्वान॒ग्निमु॑प॒तिष्ठ॑ते पशु॒मान् भ॑व
PS3.9 - [ ]
PS4.1 त्यादि॒त्यो वा अ॒स्माल्लो॒काद॒मुं ॅलो॒कमै॒थ्सो॑ऽमुं
PS4.2 ॅलो॒कं ग॒त्वा पुन॑रि॒मं ॅलो॒कम॒भ्य॑द्ध्याय॒थ्
PS4.3 स इ॒मं ॅलो॒कमा॒गत्य॑ मृ॒त्योर॑बिभेन्मृ॒त्युसं॑ॅयुत
PS4.4 इव॒ ह्य॑यं ॅलो॒कः सो॑ऽमन्यते॒म-मे॒वाग्निꣳ
PS4.5 स्त॑वानि॒ स मा᳚ स्तु॒तः
PS4.6 सु॑व॒र्गं ॅलो॒कं ग॑मयिष्य॒तीति॒ सो᳚ऽग्निम॑स्तौ॒थ्
PS4.7 स ए॑नꣳ स्तु॒तः सु॑व॒र्गं
PS4.8 ॅलो॒कम॑गमय॒द्य - [ ]
PS5.1 ए॒वं ॅवि॒द्वान॒ग्निमु॑प॒तिष्ठ॑ते सुव॒र्गमे॒व लो॒कमे॑ति॒
PS5.2 सर्व॒मायु॑रेत्य॒भि वा ए॒षो᳚ऽग्नी आ
PS5.3 रो॑हति॒ य ए॑नावुप॒तिष्ठ॑ते॒ यथा॒
PS5.4 खलु॒ वै श्रेया॑न॒भ्यारू॑ढः का॒मय॑ते॒
PS5.5 तथा॑ करोति॒ नक्त॒मुप॑ तिष्ठते॒
PS5.6 न प्रा॒तः सꣳ हि
PS5.7 नक्तं॑ ॅव्र॒तानि॑ सृ॒ज्यन्ते॑ स॒ह
PS5.8 श्रेयाꣳ॑श्च॒ पापी॑याꣳश्चासाते॒ ज्योति॒र्वा अ॒ग्निस्तमो॒
PS5.9 रात्रि॒र्य - [ ]
PS6.1 न्नक्त॑मुप॒तिष्ठ॑ते॒ ज्योति॑षै॒व तम॑स्तरत्युप॒स्थेयो॒ ऽग्नी(3)र्
PS6.2 नोप॒स्थेया(3) इत्या॑हुर् मनु॒ष्या॑येन्न्वै योऽह॑रहरा॒हृत्याऽथै॑नं॒
PS6.3 ॅयाच॑ति॒ स इन्न्वै तमुपा᳚र्च्छ॒त्यथ॒
PS6.4 को दे॒वानह॑रहर्याचिष्य॒तीति॒ तस्मा॒न्नोप॒स्थेयो ऽथो॒
PS6.5 खल्वा॑हुरा॒शिषे॒ वै कं ॅयज॑मानो
PS6.6 यजत॒ इत्ये॒षा खलु॒ वा
PS6.7 - [ ]
PS7.1 आहि॑ताग्नेरा॒शीर् यद॒ग्निमु॑प॒तिष्ठ॑ते॒ तस्मा॑दुप॒स्थेयः॑ प्र॒जाप॑तिः
PS7.2 प॒शून॑सृजत॒ ते सृ॒ष्टा अ॑होरा॒त्रे
PS7.3 प्राऽ*वि॑श॒न् ताञ्छन्दो॑भि॒-रन्व॑॑विन्द॒द्-यच्छन्दो॑भि-रुप॒तिष्ठ॑ते॒ स्वमे॒व तदन्वि॑च्छति॒
PS7.4 न तत्र॑ जा॒म्य॑स्तीत्या॑हु॒र्यो-ऽह॑रहरुप॒ तिष्ठ॑त॒
PS7.5 इति॒ यो वा अ॒ग्निं
PS7.6 प्र॒त्यङ्ङु॑प॒ तिष्ठ॑ते॒ प्रत्ये॑नमोषति॒ यः
PS7.7 परा॒ङ् विष्व॑ङ् प्र॒जया॑ प॒शुभि॑
PS7.8 ( ) रेति॒ कवा॑तिर्यङ्ङि॒वोप॑
PS7.9 तिष्ठेत॒ नैनं॑ प्र॒त्योष॑ति॒ न
PS7.10 विष्व॑ङ् प्र॒जया॑ प॒शुभि॑रेति

Report Timing Issue

Report timing issue for this location?

पञ्चशत् 1 #
TS 1.5.9.1 TS 1.5.9.1
अ॒ग्नि॒हो॒त्रं जु॑होति॒ यदे॒व किं च॒ यज॑मानस्य॒ स्वं तस्यै॒व तद्रेतः॑ सिञ्चति प्र॒जन॑ने प्र॒जन॑नꣳ॒॒ हि वा अ॒ग्निरथौष॑धी॒रन्त॑गता दहति॒ तास्ततो॒ भूय॑सीः॒ प्र जा॑यन्ते॒ यथ्सा॒यं जु॒होति॒ रेत॑ ए॒व तथ्सि॑ञ्चति॒ प्रैव प्रा॑त॒स्तने॑न जनयति॒ तद्रेतः॑ सि॒क्तं न त्वष्ट्राऽवि॑कृतं॒ प्रजा॑यते याव॒च्छो वै रेत॑सः सि॒क्तस्य॒ - [ ]
पदपाठः (Word-by-word)
अ॒ग्नि॒हो॒त्रमित्य॑ग्नि - हो॒त्रम् । जु॒हो॒ति॒ । यत् । ए॒व । किम् । च॒ । यज॑मानस्य । स्वम् । तस्य॑ । ए॒व । तत् । रेतः॑ । सि॒ञ्च॒ति॒ । प्र॒जन॑न॒ इति॑ प्र - जन॑ने । प्र॒जन॑न॒मिति॑ प्र - जन॑नम् । हि । वै । अ॒ग्निः । अथ॑ । ओष॑धीः । अन्त॑गता॒ इत्यन्त॑ - ग॒ताः॒ । द॒ह॒ति॒ । ताः । ततः॑ । भूय॑सीः । प्रेति॑ । जा॒य॒न्ते॒ । यत् । सा॒यम् । जु॒होति॑ । रेतः॑ । ए॒व । तत् । सि॒ञ्च॒ति॒ । प्रेति॑ । ए॒व । प्रा॒त॒स्तने॒नेति॑ प्रातः - तने॑न । ज॒न॒य॒ति॒ । तत् । रेतः॑ । सि॒क्तम् । न । त्वष्ट्रा᳚ । अवि॑कृत॒मित्यवि॑ - कृ॒त॒म् । प्रेति॑ । जा॒य॒ते॒ । या॒व॒च्छ इति॑ यावत् - शः । वै । रेत॑सः । सि॒क्तस्य॑ ।
पदसंख्या: 50
सायणभाष्यम् (Sayana Commentary)

(अथ प्रथमकाण्डे पञ्चमप्रपाठके नवमोऽनुवाकः) ।

नवमेऽनुवाके पूर्वोक्तोपस्थानस्याग्निहोत्राङ्गता प्रदर्श्यते । तत्र तावदग्निहोत्रं विधत्ते -

अग्निहोत्रमिति । वाक्यान्तरविहितेन पयोदधियवाग्वादिद्रव्येणाग्निहोत्रनामकं होमं कुर्यात् । यजमानस्य क्षीरप्रभृतिकं यत्स्वमग्नौ हुतं न तद्विनश्यति किंतु तस्यैव यजमानस्य तत्स्वं भूत्वाऽवतिष्ठते ।

तदवस्थानं दृष्टान्तेनोपपादयति - रेतः सिञ्चतीति । यथा प्रजोत्पादके योनौ सिक्तं रेतोऽवतिष्ठते तथाऽग्नेः प्रजननरूपत्वात्तस्मिन्हुतमवतिष्ठते ।

ननु वह्निसमीपे प्राप्तानां द्रव्याणां दाहः प्रत्यक्षेणोपलभ्यत इत्याशङ्कयाऽऽह -

अथौषधीरिति । यद्यपि घर्मकाले दावाग्निः स्वसमीपं प्राप्ता ओषधीर्दहति तथाऽपि दग्धास्ता ओषधयो वृष्टिकाले भूयस्यः प्रजायन्ते । तस्मात्प्रजननोऽग्निः । कालद्वयं विधत्ते - यत्सायमिति । सायंकालीनहोमेन सेचनम् । प्रातःकालीनहोमेनोत्पादनम् ।

विहितस्याग्निहोत्रस्याङ्गमुपस्थानं विधत्ते - रेतः सिक्तमिति । लोके योनौ सिक्तं रेतो विश्वकर्मणा यदि न विक्रियेत तदा नैव प्रजोत्पत्तिरस्ति । स च त्वष्टा यावन्ति रूपाण्युद्दिश्य रेतो विविधं करोति तावन्त्युत्पद्यन्ते । अत्रापि यजमानो देवैरनुगृहीतस्त्वष्टा ततो विविधरूपकरणाय बह्वीभिरुपतिष्ठते । अयमुपस्थानकर्मविधिः । एतदनुवादेन षड्भिरुपतिष्ठत इत्यादिमन्त्रविधिः ।

उपस्थानं प्रशंसति - स प्रैवेति । उपस्थाता प्रजामुत्पाद्य प्रतिदिनमुत्तरोत्तरं धनादिभिर्वर्धते ।

प्रकारान्तरेण प्रशंसति - अहर्देवानामिति । वित्तं पूर्वलब्धं पशुरूपं धनं, वेद्यमतः परं लब्धुं योग्यं, तदुभयं देवद्रव्यमपहृत्य तेन सहासुरा रात्रिं प्राविशन्नन्धकारे क्वापि गताः । ततः पशुहीना वयमिति खिद्यन्तो देवा उपायमपश्यन् । रात्रावग्नेः प्रकाशाधिक्याद्रात्रिराग्नेयी । अग्नेः पशुस्वामित्वात्पशवोऽप्याग्नेयाः । स्तुतः सोऽग्निरेभ्यो देवार्थं रात्रेरध्याहृत्याहरभिलक्ष्य तान्पशून्निरार्जन्निरगमयत् । कामान्भोगान् ।

पुनः प्रकारान्तरेण प्रशंसति - आदित्यो वा इति ।

पुनरपि प्रकारान्तरेण प्रशंसति - अभि वा इति । एनावाहवनीयगार्हपत्यौ य उपतिष्ठत एषोऽग्नी उभावभ्यारोहति स्ववशौ करोति । यथा लोके कश्चित्पूर्वमधमः सन्नेवं कामयतेऽहं विद्यादिना श्रेष्ठ उत्तमं पदमभ्यारूढो भविष्यामीति तथाऽयं यजमान उपस्थानेन स्वस्योत्तमं पदं करोति । तस्मादुपस्थानं प्रशस्तमित्यर्थः ।

अत्र केचित्प्रातरग्निर्नोपस्थेय इत्याहुः । अन्ये तु न कदाचिदप्युपस्थेय इति । सिद्धान्तिनस्तु सर्वदाऽप्युपस्थेय इति । तत्र प्रथमं पूर्वपक्षं दर्शयति -

नक्तमुपतिष्ठत इति । रात्रौ व्रतान्यनुष्ठेयानि कर्माणि संसृज्यन्ते संकीर्णानि भवन्ति । अन्धकारे केन कथमनुष्ठितमिति न ज्ञायते । यथाशास्त्रमनुष्ठितो व्रतविशेषः श्रेयांस्तद्विपरीतश्चेत्पापीयान् । तावुभौ सहैव तिष्ठतः । तत्राग्नावुषस्थिते सत्यग्निना ज्योतिषा रात्रिप्रयुक्तं तमोदोषं तरति । तस्मान्नक्तमुपस्थेयः । अहनि तु तमोदोषाभावान्नोपस्थेय इत्येकः पूर्वपक्षः ।

द्वितीयपूर्वपक्षं विचारपुरःसरं दर्शयति - उपस्थेय इति । प्लुतिर्विचारार्था । लोके मनुष्यायैव तावद्राज्ञे यः कोऽपि दरिद्रो यत्किंचिज्जम्बीरफलादिकमुपायनमाहृत्य ततः प्रतिदिनमेनं राजानं प्रति क्षेत्रधनादिकं यदि याचति तदा स याचकस्तं राजानं पीडयत्येव । तथा सति को नाम महाप्रभावान्देवान्प्रतिदिनं याचितुमर्हति । याच्ञारूपं चेदमुपस्थानम् । आयुर्दा अग्नेऽस्यायुर्मे देहीत्यादिमन्त्रेषु तत्प्रतीतेः । तस्मादग्निः कदाचिदपि नोपस्थेय इति द्वितीयः पूर्वपक्षः ।

सिद्धान्तं दर्शयति - अथो खल्वाहुरिति । अथोशब्दः पूर्वपक्षव्यावृत्त्यर्थः । आशिषे वै स्वापेक्षितं सर्वमाशासितुमेव कं प्रजापतिसदृशं सर्वदेवात्मकमग्निं प्रति यजमानो यजत इत्यभिज्ञा आहुः । लोकेऽपि राज्ञश्चित्तवृत्तिमविज्ञायाकाण्डे देहि देहीत्युक्ते सत्युपरोधो भवति । यदा तु प्रशंसया विनोदेन वा परितोषमुत्पाद्य याचते तदानीमुत्साहयुक्तो याचितादप्यत्यन्तमधिकमेव ददाति, तद्वदाहिताग्नेर्मन्त्रैरुपस्थानमेव याच्ञा । सा च बहुविधप्रशंसापूर्वकत्वान्नोपरोधाय भवति किंत्वत्यन्तपरितोषायैव । तस्मात्सायं प्रातश्च वह्निरुपस्थेय एव ।

ऋग्भिरुपस्थानं प्रशंसति -

प्रजापतिरिति । अहोरात्रदेवताभ्यामन्तर्धापिताः पशवश्छन्दोयुक्तमन्त्रैरन्विष्टाः सन्तो लब्धाः । तस्माच्छन्दोभिरुपस्थानं विनष्टवस्त्वन्वेषणाय भवति ।

तदुपस्थानस्य प्रतिदिनकर्तव्यतामुन्नयति - न तत्रेति । उपस्थातुरभीष्टप्रार्थनासद्भावादुपस्थेयस्य स्तुतिसद्भावाच्च तत्रोपस्थाने कस्यापि जाम्यालस्यं नास्ति ।

उपस्थानवेलायामीषत्तिरश्चीनमुखत्वं विधत्ते - यो वा अग्निमिति । (प्रत्यङ्) प्रत्यङ्मुखः । तथा सत्यग्निरेनं यजमानं प्रत्योषति प्रातिकूल्येन दहति । (पराङ्) पराङ्मुखः । तथा सति यजमानः प्रजया पशुभिश्च विष्वङ्ङेति वियुक्तो भवति । कवातिर्यङ्ङिवेषत्तिरश्चीन इव ॥

इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीय-तैत्तिरीयसंहिताभाष्ये प्रथमकाण्डे पञ्चमप्रपाठके नवमोऽनुवाकः॥९॥
भट्टभास्करभाष्यम् (Bhatta Bhaskara Commentary)
1 अथाग्निहोत्रब्राह्मणमग्न्यार्षेयम् । तत्र 'अग्निहोत्रं जुहोति' इति विधिः । अस्त्ययमग्निहोत्रशब्दः कर्मणो नाम - हूयतेस्मिन्निति होत्रम् । 'हुयामाश्रुवसि' इत्यादिना ष्ट्रक्प्रत्ययः, षष्ठीसमासान्तोदात्तत्वम् । यथा - 'असंस्थितो वा एष यज्ञः । यदग्निहोत्रम्' इति । अग्नेर्हविषो नाम - हूयते इति होत्रमिति, यथा 'अहरहर्यजमानस्स्वयमग्निहोत्रं जुहुयात्' इति । ब्राह्मणं च भवति 'तुभ्यमेवेदं हूयातै' इत्यादि । अस्ति गोर्नामयथा 'अग्नेर्हुतादजनीति । तदग्निहोत्रस्य' इत्यादि । अग्नेर्होमः अग्निहोत्रं, तदर्था गौरभेदेनोच्यते 'गौर्वा अग्निहोत्रम्' इति, 'अग्निहोत्री वत्सम्' इत्यादि । गौरादिलक्षणो ङीष् द्रष्टव्यः । तत्र हविर्वाचिन इह ग्रहणम् । अयमर्थः - विशिष्टकालमन्त्रप्रयोज्यमग्निहोत्राख्यं हविर्जुहुयादिति । यदेव किञ्च यत्किञ्चिदपि पयो वा दधि वा यवागूं वा जुहोति द्रव्यं तत्तस्यैव यजमानस्य स्वमविनष्टमेव तिष्ठति तं च न मुञ्चति । ननु दग्धमविनष्टं तिष्ठतीत्यसमीचीनम् । तत्राह - रेत इत्यादि । सदृशप्रधानो निर्देशः । यथा प्रजनने योनौ रेतास्सिक्तमविनष्टं तिष्ठति तत्सदृशमिदमिति जानीयादित्यर्थः । प्रजायन्ते प्रजा अस्मिन्निति प्रजननम् । 'करणाधिकरणयोश्च' इत्यधिकर्णे ल्युट् । अथाग्नेः प्रजननत्वं समर्थयते - प्रजननं हीति । ताद्धर्म्यात्ताच्छब्द्यम् । प्रजननसदृशोयमग्निरिति । नन्वग्निर्नाम सर्वं दहति, तत्कीदृशमस्य प्रजननसामर्थ्यमिति पर्यनुयोगावसरे प्रजननसामर्थ्यं दर्शयितुमाह - अथौषधीरन्तगता दहतीति । अथेति प्रस्तावे । अन्तं समीपं गता अन्तगताः । 'द्वितीयाश्रित' इति समासः, द्वितीयापूर्वपदप्रकृतिस्वरत्वम् । अयमग्निरेव समीपे निपतिता ओषधीर्दहति, ता यदृच्छानिपतिताः अमन्त्रहुता अपि ततः पूर्वं दग्ध स्वरूपेभ्यो भूयसीः भूयस्यः बहुतराः प्रजायन्ते । यदैवमिदं पश्यामः, तदा किं पुनर्मन्त्रहुता इति । 'वा छन्दसि' इति पूर्वसवर्णदीर्घत्वत् । तस्मादुपपन्नमग्नेः प्रजननत्वम् । अतस्तत्र हु[हुतं] तस्यैव स्वं भूयिष्ठं च प्रथते इति । उक्तञ्च - ' यावदेका देवता' इत्यादि । तस्मादग्निहोत्रं जुहोतीति ॥
2 अथ सायम्प्रातश्च होमं विधातुमाह - यत्सायमित्यादि ॥ गतम् ॥
3 अग्नेरुपस्थानं विधातुमाह - तद्रेत इत्यादि ॥ तदुक्तम् - 'रेतस्सिञ्चति प्रजनने' इति । तद्रेतस्सिक्तमपि यदि त्वष्टा न विक्रियते नैव प्रजायते, त्वष्टा वै रूपाणि विकरोतीति । तद्विकुर्वंस्त्वष्टा यावन्ति रूपाणि विकरोति तावद्रूपं तत्प्रजायते । 'सङ्ख्यैकवचनाच्च' इति शत् । एष वा इत्यादि । देवेषु भवो दैव्यः सामन्त इत्यर्थः । 'देवाद्यञञौ' । बह्वीभिरुपतिष्ठत इति विधिः । उत्तराहुत्यनन्तरं 'उपप्रयन्तः' इत्येतत्प्रभृतिभिः ऋग्भिः बह्वीभिरुपतिष्ठते । 'नित्यं छन्दसि' इति ङीप् । 'उपान्मन्त्रकरणे' इत्यात्मनेपदम् । रेतस एवेत्यादि । बहुशः बहूनि । 'बह्वल्पार्थात्' इति शस् । भूयानिति । अद्यतनापेक्षया श्वस्तनः प्रकृष्यते । पुनरप्युपस्थानगुणान्विधातुमाह - अहरित्यादि । वित्तं लब्धं वेद्यं लब्धुं योग्यं धनं पशुलक्षणं यदासीत्तत्सर्वमादाय तेन सह रात्रिं प्राविशन्, तत्र देवां अपहृतपशवो हीनास्स्मः इत्यमन्यन्त । तेपश्यन्नित्यादि । अधिरनर्थकः । अहरभि अहर्लक्षीकृत्य रात्र्या पशून्निरार्जत् निरगमयत् । ऋजु गत्यादिषु, भौवादिकः । 'अभिरभागे' इत्यभेर्लक्षणे कर्मप्रवचनीयत्वम् । ते देवा इत्यादि । गतम् । आदित्यो वा इत्यादि । अस्मान्मनुष्यलोकादमुं लोकमैत् अगच्छत् । गतमन्यत् । अभि वा इत्यादि । अभ्यारोहणमभिमुखेन रोहणमुच्छ्रिताधिष्ठानम् । यथा खलु श्रेयान् श्रेयसाभिमुखमारूढो भवितुं कामयते एवमयमुपस्थाता करोति । तथापि नक्तमुपतिष्ठते प्रयोजनान्तरार्थमिति भावः । नैव प्रातरुपस्थानं कर्तव्यं तादृशस्य प्रयोजनस्याभावात् । किम्पुतस्तत्प्रयोजनमित्याह - सं हीत्यादि । हिशब्दो यस्मादित्यर्थे वर्तते । यस्मान्नक्तं व्रतानि कर्माणि शुभाशुभलक्षणानि संसृज्यन्ते अविभक्तानि भवन्ति, श्रेयसां पापीयसां च विशेषप्रतिपत्तिर्नास्ति तस्मादेतद्दोषपरिहारार्थमुपस्थातव्यं; उपस्थानेन तमस्स्वरूपां रात्रिं ज्योतिषा सन्तरति । अथ पूर्वपक्षावतारं संशयपूर्वं प्रस्तौति । उपस्थेय इति । 'विचार्यमाणानाम्' इत्युभयत्रोदात्तप्लुतः । उपस्थेया इत्यत्र पूर्वं परत्वात् प्लुतोदात्तत्वं, ततस्तस्यासिद्धत्वात्कृदुत्तरपदप्रकृतिस्वरत्वम्, 'यतोऽनावः' इत्याद्युदात्तत्वम्, तेन द्वयोरुदात्तयोश्श्रवणं भवति । मनुष्यायेत्यादि । इदित्यवधारणे, नु इति वितर्के, वै इति प्रसिद्धौ । मनुष्यायाहरहः फलादिकमाहृत्यैवाथैनं यो याचति सोपि तमुपार्च्छति उपरुध्य पीडयत्येव । एवं खल्वेतत् । 'उपसर्गादृति धातौ' इति वृद्धिः । 'तुनुपूर्व उदात्तयोर्वकारः' इति वचनात् । यदा मनुष्यविषयेप्येवं भवति अथेदानीं को देवान् महानुभावान् अहरहर्याचिष्यति तस्मात्कदाचिदप्यग्निर्नोपस्थेय इति । अथ समाधत्ते - अथो खल्वाहुरिति । एवं प्राप्ते आहुर्वेदार्थविदः - कः प्रजापतिः, अत्र सर्वदेवात्मत्वसामान्येनाग्निरुच्यते; 'पादपूरणे वा । अग्न्युपस्थानमेव यजमानस्याशीः, नातः परमाशंसनीयमस्ति; 'तस्मादग्निरुपस्थेयः, कस्सामान्यान्याचेत इति । तस्मात्सायम्प्रातश्चोपस्थेय इति । प्रजापतिः पशूनित्यादि । पश्ववगमनमेव यजमानोन्विच्छति । जामि आलस्यम् । गतमन्यत् । यो वा इत्यादि । प्रत्यङ्प्रातिमुखेयेन । ओषति दहति । यः पराङ्मुख उपतिष्ठते इत्येव । विष्वङ् नानागमनः प्रजया पशुभिश्च विष्वङेति विगच्छति नष्टो भवति । तस्मात्कवातिर्यङ् ईषत्तिरश्चीन इव भूत्वा उपतिष्ठेति । छान्दसः कुशब्दस्य कवादेशः ॥
इति पञ्चमे नवमोनुवाकः ॥
पञ्चशत् 2 #
TS 1.5.9.2 TS 1.5.9.2
त्वष्टा॑ रू॒पाणि॑ विक॒रोति॑ ताव॒च्छो वै तत्प्र जा॑यत ए॒ष वै दैव्य॒स्त्वष्टा॒ यो यज॑ते ब॒ह्वीभि॒रुप॑ तिष्ठते॒ रेत॑स ए॒व सि॒क्तस्य॑ बहु॒शो रू॒पाणि॒ वि क॑रोति॒ स प्रैव जा॑यते॒ श्वःश्वो॒ भूया᳚न् भवति॒ य ए॒वं ॅवि॒द्वान॒ग्निमु॑प॒तिष्ठ॒ते ऽह॑र्दे॒वाना॒मासी॒द् - रात्रि॒रसु॑राणां॒ तेऽसु॑रा॒ यद्दे॒वानां᳚ ॅवि॒त्तं ॅवेद्य॒मासी॒त्तेन॑ स॒ह- [ ]
पदपाठः (Word-by-word)
त्वष्टा᳚ । रू॒पाणि॑ । वि॒क॒रोतीति॑ वि - क॒रोति॑ । ता॒व॒च्छ इति॑ तावत्-शः । वै । तत् । प्रेति॑ । जा॒य॒ते॒ । ए॒षः । वै । दैव्यः॑ । त्वष्टा᳚ । यः । यज॑ते । ब॒ह्वीभिः॑ । उपेति॑ । ति॒ष्ठ॒ते॒ । रेत॑सः । ए॒व । सि॒क्तस्य॑ । ब॒हु॒श इति॑ बहु - शः । रू॒पाणि॑ । वीति॑ । क॒रो॒ति॒ । सः । प्रेति॑ । ए॒व । जा॒य॒ते॒ । श्वः श्व॒ इति॒ श्वः - श्वः॒ । भूयान्॑ । भ॒व॒ति॒ । यः । ए॒वम् । वि॒द्वान् । अ॒ग्निम् । उ॒प॒तिष्ठ॑त॒ इत्यु॑प - तिष्ठ॑ते । अहः॑ । दे॒वाना᳚म् । आसी᳚त् । रात्रिः॑ । असु॑राणाम् । ते । असु॑राः । यत् । दे॒वाना᳚म् । वि॒त्तम् । वेद्य᳚म् । असी᳚त् । तेन॑ । स॒ह ।
पदसंख्या: 50
पञ्चशत् 3 #
TS 1.5.9.3 TS 1.5.9.3
रात्रिं॒ प्राऽ*वि॑श॒न्ते दे॒वा ही॒ना अ॑मन्यन्त॒ ते॑ऽपश्यन्नाग्ने॒यी रात्रि॑राग्ने॒याः प॒शव॑ इ॒ममे॒वाग्निꣳ स्त॑वाम॒ स नः॑ स्तु॒तः प॒शून् पुन॑र्दास्य॒तीति॒ ते᳚ऽग्निम॑स्तुव॒न्थ् स ए᳚भ्यः स्तु॒तो रात्रि॑या॒ अद्ध्यह॑र॒भि प॒शून्निरा᳚र्ज॒त्ते दे॒वाः प॒शून् वि॒त्त्वा कामाꣳ॑ अकुर्वत॒ य ए॒वं ॅवि॒द्वान॒ग्निमु॑प॒तिष्ठ॑ते पशु॒मान् भ॑व - [ ]
पदपाठः (Word-by-word)
रात्रि᳚म् । प्रेति॑ । अ॒वि॒श॒न्न् । ते । दे॒वाः । ही॒नाः । अ॒म॒न्य॒न्त॒ । ते । अ॒प॒श्य॒न्न् । आ॒ग्ने॒यी । रात्रिः॑ । आ॒ग्ने॒याः । प॒शवः॑ । इ॒मम् । ए॒व । अ॒ग्निम् । स्त॒वा॒म॒ । सः । नः॒ । स्तु॒तः । प॒शून् । पुनः॑ । दा॒स्य॒ति॒ । इति॑ । ते । अ॒ग्निम् । अ॒स्तु॒व॒न्न् । सः । ए॒भ्यः॒ । स्तु॒तः । रात्रि॑याः । अधीति॑ । अहः॑ । अ॒भीति॑ । प॒शून् । निरिति॑ । आ॒र्ज॒त् । ते । दे॒वाः । प॒शून् । वि॒त्त्वा । कामान्॑ । अ॒कु॒र्व॒त॒ । यः । ए॒वम् । वि॒द्वान् । अ॒ग्निम् । उ॒प॒तिष्ठ॑त॒ इत्यु॑प - तिष्ठ॑ते । प॒शु॒मानिति॑ पशु - मान् । भ॒व॒ति॒ ।
पदसंख्या: 50
पञ्चशत् 4 #
TS 1.5.9.4 TS 1.5.9.4
त्यादि॒त्यो वा अ॒स्माल्लो॒काद॒मुं ॅलो॒कमै॒थ्सो॑ऽमुं ॅलो॒कं ग॒त्वा पुन॑रि॒मं ॅलो॒कम॒भ्य॑द्ध्याय॒थ् स इ॒मं ॅलो॒कमा॒गत्य॑ मृ॒त्योर॑बिभेन्मृ॒त्युसं॑ॅयुत इव॒ ह्य॑यं ॅलो॒कः सो॑ऽमन्यते॒म-मे॒वाग्निꣳ स्त॑वानि॒ स मा᳚ स्तु॒तः सु॑व॒र्गं ॅलो॒कं ग॑मयिष्य॒तीति॒ सो᳚ऽग्निम॑स्तौ॒थ् स ए॑नꣳ स्तु॒तः सु॑व॒र्गं ॅलो॒कम॑गमय॒द्य - [ ]
पदपाठः (Word-by-word)
आ॒दि॒त्यः । वै । अ॒स्मात् । लो॒कात् । अ॒मुम् । लो॒कम् । ऐ॒त् । सः । अ॒मुम् । लो॒कम् । ग॒त्वा । पुनः॑ । इ॒मम् । लो॒कम् । अ॒भीति॑ । अ॒द्ध्या॒य॒त् । सः । इ॒मम् । लो॒कम् । आ॒गत्येत्या᳚ - गत्य॑ । मृ॒त्योः । अ॒बि॒भे॒त् । मृ॒त्युस॑म्ॅयुत॒ इति॑ मृ॒त्यु-स॒म्ॅयु॒तः॒ । इ॒व॒ । हि । अ॒यम् । लो॒कः । सः । अ॒म॒न्य॒त॒ । इ॒मम् । ए॒व । अ॒ग्निम् । स्त॒वा॒नि॒ । सः । मा॒ । स्तु॒तः । सु॒व॒र्गमिति॑ सुवः-गम् । लो॒कम् । ग॒म॒यि॒ष्य॒ति॒ । इति॑ । सः । अ॒ग्निम् । अ॒स्तौ॒त् । सः । ए॒न॒म् । स्तु॒तः । सु॒व॒र्गमिति॑ सुवः - गम् । लो॒कम् । अ॒ग॒म॒य॒त् । यः ।
पदसंख्या: 50
पञ्चशत् 5 #
TS 1.5.9.5 TS 1.5.9.5
ए॒वं ॅवि॒द्वान॒ग्निमु॑प॒तिष्ठ॑ते सुव॒र्गमे॒व लो॒कमे॑ति॒ सर्व॒मायु॑रेत्य॒भि वा ए॒षो᳚ऽग्नी आ रो॑हति॒ य ए॑नावुप॒तिष्ठ॑ते॒ यथा॒ खलु॒ वै श्रेया॑न॒भ्यारू॑ढः का॒मय॑ते॒ तथा॑ करोति॒ नक्त॒मुप॑ तिष्ठते॒ न प्रा॒तः सꣳ हि नक्तं॑ ॅव्र॒तानि॑ सृ॒ज्यन्ते॑ स॒ह श्रेयाꣳ॑श्च॒ पापी॑याꣳश्चासाते॒ ज्योति॒र्वा अ॒ग्निस्तमो॒ रात्रि॒र्य - [ ]
पदपाठः (Word-by-word)
ए॒वम् । वि॒द्वान् । अ॒ग्निम् । उ॒प॒तिष्ठ॑त॒ इत्यु॑प - तिष्ठ॑ते । सु॒व॒र्गमिति॑ सुवः - गम् । ए॒व । लो॒कम् । ए॒ति॒ । सर्व᳚म् । आयुः॑ । ए॒ति॒ । अ॒भीति॑ । वै । ए॒षः । अ॒ग्नी इति॑ । एति॑ । रो॒ह॒ति॒ । यः । ए॒नौ॒ । उ॒प॒तिष्ठ॑त॒ इत्यु॑प - तिष्ठ॑ते । यथा᳚ । खलु॑ । वै । श्रेयान्॑ । अ॒भ्यारू॑ढ॒ इत्य॑भि - आरू॑ढः । का॒मय॑ते । तथा᳚ । क॒रो॒ति॒ । नक्त᳚म् । उपेति॑ । ति॒ष्ठ॒ते॒ । न । प्रा॒तः । समिति॑ । हि । नक्त᳚म् । व्र॒तानि॑ । सृ॒ज्यन्ते᳚ । स॒ह । श्रेयान्॑ । च॒ । पापी॑यान् । च॒ । आ॒सा॒ते॒ इति॑ । ज्योतिः॑ । वै । अ॒ग्निः । तमः॑ । रात्रिः॑ । यत् ।
पदसंख्या: 50
पञ्चशत् 6 #
TS 1.5.9.6 TS 1.5.9.6
न्नक्त॑मुप॒तिष्ठ॑ते॒ ज्योति॑षै॒व तम॑स्तरत्युप॒स्थेयो॒ ऽग्नी(3)र् नोप॒स्थेया(3) इत्या॑हुर् मनु॒ष्या॑येन्न्वै योऽह॑रहरा॒हृत्याऽथै॑नं॒ ॅयाच॑ति॒ स इन्न्वै तमुपा᳚र्च्छ॒त्यथ॒ को दे॒वानह॑रहर्याचिष्य॒तीति॒ तस्मा॒न्नोप॒स्थेयो ऽथो॒ खल्वा॑हुरा॒शिषे॒ वै कं ॅयज॑मानो यजत॒ इत्ये॒षा खलु॒ वा - [ ]
पदपाठः (Word-by-word)
नक्त᳚म् । उ॒प॒तिष्ठ॑त॒ इत्यु॑प - तिष्ठ॑ते । ज्योति॑षा । ए॒व । तमः॑ । त॒र॒ति॒ । उ॒प॒स्थेय॒ इत्यु॑प - स्थेयः॑ । अ॒ग्नी(3)ः । न । उ॒प॒स्थेया(3) इत्यु॑प-स्थेया(3)ः । इति॑ । आ॒हुः॒ । म॒नु॒ष्या॑य । इत् । नु । वै । यः । अह॑रह॒रित्यहः॑ - अ॒हः॒ । आ॒हृत्येत्या᳚ - हृत्य॑ । अथ॑ । ए॒न॒म् । याच॑ति । सः । इत् । नु । वै । तम् । उपेति॑ । ऋ॒च्छ॒ति॒ । अथ॑ । कः । दे॒वान् । अह॑रह॒रित्यहः॑-अ॒हः॒ । या॒चि॒ष्य॒ति॒ । इति॑ । तस्मा᳚त् । न । उ॒प॒स्थेय॒ इत्यु॑प - स्थेयः॑ । अथो॒ इति॑ । खलु॑ । आ॒हुः॒ । आ॒शिष॒ इत्या᳚ - शिषे᳚ । वै । कम् । यज॑मानः । य॒ज॒ते॒ । इति॑ । ए॒षा । खलु॑ । वै ।
पदसंख्या: 50
पञ्चशत् 7 #
TS 1.5.9.7 TS 1.5.9.7
आहि॑ताग्नेरा॒शीर् यद॒ग्निमु॑प॒तिष्ठ॑ते॒ तस्मा॑दुप॒स्थेयः॑ प्र॒जाप॑तिः प॒शून॑सृजत॒ ते सृ॒ष्टा अ॑होरा॒त्रे प्राऽ*वि॑श॒न् ताञ्छन्दो॑भि॒-रन्व॑॑विन्द॒द्-यच्छन्दो॑भि-रुप॒तिष्ठ॑ते॒ स्वमे॒व तदन्वि॑च्छति॒ न तत्र॑ जा॒म्य॑स्तीत्या॑हु॒र्यो-ऽह॑रहरुप॒ तिष्ठ॑त॒ इति॒ यो वा अ॒ग्निं प्र॒त्यङ्ङु॑प॒ तिष्ठ॑ते॒ प्रत्ये॑नमोषति॒ यः परा॒ङ् विष्व॑ङ् प्र॒जया॑ प॒शुभि॑ ( ) रेति॒ कवा॑तिर्यङ्ङि॒वोप॑ तिष्ठेत॒ नैनं॑ प्र॒त्योष॑ति॒ न विष्व॑ङ् प्र॒जया॑ प॒शुभि॑रेति ॥
पदपाठः (Word-by-word)
आहि॑ताग्ने॒रित्याहि॑त-अ॒ग्नेः॒ । आ॒शीरित्या᳚ - शीः । यत् । अ॒ग्निम् । उ॒प॒तिष्ठ॑त॒ इत्यु॑प - तिष्ठ॑ते । तस्मा᳚त् । उ॒प॒स्थेय॒ इत्यु॑प - स्थेयः॑ । प्र॒जाप॑ति॒रिति॑ प्र॒जा - प॒तिः॒ । प॒शून् । अ॒सृ॒ज॒त॒ । ते । सृ॒ष्टाः । अ॒हो॒रा॒त्रे इत्य॑हः - रा॒त्रे । प्रेति॑ । अ॒वि॒श॒न्न् । तान् । छन्दो॑भि॒रिति॒ छन्दः॑-भिः॒ । अन्विति॑ । अ॒वि॒न्द॒त् । यत् । छन्दो॑भि॒रिति॒ छन्दः॑-भिः॒ । उ॒प॒तिष्ठ॑त॒ इत्यु॑प - तिष्ठ॑ते । स्वम् । ए॒व । तत् । अन्विति॑ । इ॒च्छ॒ति॒ । न । तत्र॑ । जा॒मि । अ॒स्ति॒ । इति॑ । आ॒हुः॒ । यः । अह॑रह॒रित्यहः॑ - अ॒हः॒ । उ॒प॒तिष्ठ॑त॒ इत्यु॑प - तिष्ठ॑ते । इति॑ । यः । वै । अ॒ग्निम् । प्र॒त्यङ्ङ् । उ॒प॒तिष्ठ॑त॒ इत्यु॑प - तिष्ठ॑ते । प्रतीति॑ । ए॒न॒म् । ओ॒ष॒ति॒ । यः । पराङ्॑ । विष्वङ्ङ्॑ । प्र॒जयेति॑ प्र - जया᳚ । प॒शुभि॒रिति॑ प॒शु - भिः॒ ( ) । ए॒ति॒ । कवा॑तिर्य॒ङ्ङिति॒ कवा᳚ - ति॒र्य॒ङ्ङ् । इ॒व॒ । उपेति॑ । ति॒ष्ठे॒त॒ । न । ए॒न॒म् । प्र॒त्योष॒तीति॑ प्रति - ओष॑ति । न । विष्वङ्ङ्॑ । प्र॒जयेति॑ प्र - जया᳚ । प॒शुभि॒रिति॑ प॒शु - भिः॒ । ए॒ति॒ ॥
पदसंख्या: 63