पदपाठः (Word-by-word)
सायणभाष्यम् (Sayana Commentary)
(अथ प्रथमकाण्डे पञ्चमप्रपाठके सप्तमोऽनुवाकः)।
सप्तमेऽनुवाके पञ्चमानुवाकोक्ता मन्त्रा व्याख्यायन्ते। उपप्रेत्यादिमन्त्रसं-घोपस्थानेन ज्योतिष्टोमे त्रिवृत्पञ्चदशादिशादिस्तोमवदग्निहोत्रेऽपि स्तोमयोग उपचर्यत इत्याह -
अयज्ञो वा इति। यः सामरहितः स यज्ञ एव न भवति। ऋग्भेदादावृत्तिभे-दाच्च निष्पन्नः सामसंघः स्तोमः। तं चास्मिन्नग्निहोत्रे मन्त्रसंघेन संपादयति।
उपशब्दसूचितं दर्शयति - उपेत्याहेति। प्रजाः पशवश्च भूलोकमुपगच्छन्ति। तस्माद्यजमानोऽप्युपश-ब्दसामर्थ्यात्प्रजां पशूंश्चोपेत्य तद्युक्तं भूलोकमुपैति।
प्रत्नशब्दसूचितमाह - अस्य प्रत्नामिति। स्वर्गलोकस्य चिरंतनत्वे प्रत्नशब्दसूचित्वात्तेन शब्देन स्वर्गारोहो भवति।
मूर्धशब्दपृथिवीशब्दाभ्यां सूचितं दर्शयति - अग्निमूर्धेति। मूर्धानं श्रेष्ठमेनं यजमानं समानानां समानजातीयानां मध्ये करोति। अपि च देवलोकादागत्य मनुष्यलोक एव प्रतिष्ठितो भवतीत्यर्थः।
प्रथमशब्दसूचितं दर्शयति - अयमिहेति।
इन्द्रस्य बलाभिमानित्वादग्नेश्च तेजोभिमानित्वाच्छब्दद्वयेनोभयप्राप्तिः सूच्यत इत्याह - उभा वामिति।
मन्त्रगतं रयिशब्दं व्याचष्टे - अयं ते योनिरिति।
पूर्वोत्तरषट्काभ्यां प्रतिदिनमुपस्थानं विधत्ते - षडि्भरुपतिष्ठत इति। उपप्रयन्त इत्याप्रयन्त इत्यादिकं पूर्वषट्कम्। अग्न आयूंषीत्यादिकमुत्तरषट्कम्।
पूर्वषट्केन यथा प्रतिदिनमुपस्थानं तद्वदुत्तरेणापि प्राप्ते कालविशेषं विधत्ते -
यथा वै पुरुष इति। पुरुषादीनां चिरकालेनेवाग्नेः संवत्सरे प्राप्तां जरां निवार्य नूतनशरीरं शोधयितुं संवत्सरादूर्ध्वमुपस्थानम्। अग्निदेवतायाः पवमानदेवतायाश्च संबन्धिन्य ऋच आग्निपावमान्यः। यद्यप्यग्निरेव शोधकत्वात्पवमानस्तथाऽपि शोधकत्वोपाधेरन्यत्वमभिप्रेत्य निर्देशभेदः।
विहितमुपस्थानं चतुर्वारमनूद्य प्रशंसति - उपतिष्ठत इति। उपतिष्ठत इति यदेष एवास्याग्नेर्योगो यजमानेन सहा-नुग्राह्यानुग्राहकरूपः संबन्धः। तथा दमो दाहादिलक्षणोपद्रवनिवारणम्। तथा धनादियाच्ञा। किंच - यथा लोके कश्चिद्दरिद्रो धनिकाय किंचिदुपायनमानीय नमस्कारं करोति तादृगिदमुपस्थानम्। अयमिह प्रथमो धायि धातृभिरिति योग उक्तः। आरे बाधस्व दुच्छुनामिति अनिष्टनिवारणम्। अथानो वर्धया रयिमिति याच्ञा। मन्त्रं वोचेमाग्नय इत्युपायनम्।
त्रयाणां यजुषामर्थप्रसिद्धिं दर्शयति - आयुर्दा इति।
तनुशब्देन प्रजा पशवश्चोपलक्षिता इत्यभिप्रेत्य व्याचष्टे अग्ने यन्म इति।
चित्रावसुपदस्यार्थं वाक्यतात्पर्यं च दर्शयति -
चित्रावसो इति। नक्षत्रादिरूपं चित्रमभिव्यक्ततया वसत्यस्यामिति रात्रि-श्चित्रावसुः। अव्युष्टिः प्रभातान्तः। हेमन्तर्तौ रात्रेर्दीर्घत्वेन प्रभातं न भविष्य-त्येवेति। कदाचिद्ब्राह्मणा भीता अतः पारमशीयेति प्रार्थनया प्रभातं लभते।
शतसंख्यां प्रशंसति - इन्धाना इति। अस्य मन्त्रस्योपस्थाने समिदाधाने च विनियोगद्वयं सूत्रकार उदाजहार – “इन्धानास्त्वा शत हिमा इत्युपस्थायेन्धानास्त्वा शत हिमा अग्नेः समिदस्यभिशस्त्या मा पाहि सोमस्य समिदसि परस्याम एधि यमस्य समिदसि मृत्योर्मा पाहीति चतस्रः समिध एकैकस्मिन्नधाय” इति। तत्रोपस्थानाङ्गप्रस्तावेन मन्त्रो व्याख्यातः।
एषा वा इति। ज्वलन्ती लोहमयी स्थूणा सूर्मी। सा च कर्णतावती छिद्रवती। अन्तरपि ज्वलन्तीत्यर्थः। तत्समानेयमृक्। एकेन प्रहारेण शतसंख्याकान्मारयन्तः शूराः शततर्हाः। असुराणां मध्ये तादृशानेतयर्चा देवा हिंसन्ति। अनया समिदाधानेन शतघ्नीमेनामृचं वज्रं कृत्वा वैरिणं हन्तुं प्रहरति। अच्छम्बट्कारं स्वस्य विनाशो यथा न भवति तथेत्यर्थः। स्तृत्यै नाशाभावेन विस्तीर्णताया इत्यर्थः।
सं त्वमग्न इत्यर्धेनाग्नेर्गुणकथनं स्वस्यापि तत्प्रार्थनायेत्याह - सं त्वमग्न इति।
द्वितीयार्धे सं मामायुषेति प्रार्थनमिति दर्शयति - त्वमग्न इति।