अनुवाकः 7 TS 1.5.7

(A7)

(मू॒र्द्धानꣳ॒॒-षड्वा-ए॒ष उप॑ तिष्ठते-पा॒हीत्या॑ह-श॒त-म॒हꣳ षोड॑श च)

अनुवाकः 7 - Complete Audio

TS 1.5.7 - स्वरानुगामी

0:00 0:00
PS1.1 अय॑ज्ञो॒ वा ए॒ष यो॑ऽसा॒मोप॑प्र॒यन्तो॑
PS1.2 अद्ध्व॒रमित्या॑ह॒ स्तोम॑मे॒वास्मै॑ युन॒क्त्युपेत्या॑ह प्र॒जा
PS1.3 वै प॒शव॒ उपे॒मं ॅलो॒कं
PS1.4 प्र॒जामे॒व प॒शूनि॒मं ॅलो॒कमुपै᳚त्य॒स्य प्र॒त्नामनु॒
PS1.5 द्युत॒मित्या॑ह सुव॒र्गो वै लो॒कः
PS1.6 प्र॒त्नः सु॑व॒र्गमे॒व लो॒कꣳ स॒मारो॑हत्य॒ग्निर्
PS1.7 मू॒र्द्धा दि॒वः क॒कुदित्या॑ह मू॒र्द्धान॑
PS1.8 - [ ]
PS2.1 मे॒वैनꣳ॑ समा॒नानां᳚ करो॒त्यथो॑ देवलो॒कादे॒व
PS2.2 म॑नुष्यलो॒के प्रति॑ तिष्ठत्य॒यमि॒ह प्र॑थ॒मो
PS2.3 धा॑यि धा॒तृभि॒रित्या॑ह॒ मुख्य॑मे॒वैनं॑ करोत्यु॒भा
PS2.4 वा॑मिन्द्राग्नी आहु॒वद्ध्या॒ इत्या॒हौजो॒ बल॑मे॒वाव॑
PS2.5 रुन्धे॒ ऽयं ते॒ योनि॑र्.
PS2.6 ऋ॒त्विय॒ इत्या॑ह प॒शवो॒ वै
PS2.7 र॒यिः प॒शूने॒वाव॑ रुन्धे ष॒ड्भिरुप॑
PS2.8 तिष्ठते॒ षड्वा - [
PS2.9 ]
PS3.1 ऋ॒तव॑ ऋ॒तुष्वे॒व प्रति॑ तिष्ठति
PS3.2 ष॒ड्भिरुत्त॑राभि॒रुप॑ तिष्ठते॒ द्वाद॑श॒ सं
PS3.3 प॑द्यन्ते॒ द्वाद॑श॒ मासाः᳚ संॅवथ्स॒रः
PS3.4 सं॑ॅवथ्स॒र ए॒व प्रति॑ तिष्ठति॒
PS3.5 यथा॒ वै पुरु॒षोऽश्वो॒ गौर्-जीर्य॑त्ये॒व-म॒ग्निराहि॑तो
PS3.6 जीर्यति संॅवथ्स॒रस्य॑ प॒रस्ता॑दाग्निपावमा॒नीभि॒-रुप॑ तिष्ठते
PS3.7 पुनर्न॒व-मे॒वैन॑-म॒जरं॑ करो॒त्यथो॑ पु॒नात्ये॒वोप॑ तिष्ठते॒
PS3.8 योग॑ ए॒वास्यै॒ष उप॑ तिष्ठते॒
PS3.9 - [ ]
PS4.1 दम॑ ए॒वास्यै॒ष उप॑ तिष्ठते
PS4.2 याच्ञैवास्यै॒षोप॑ तिष्ठते॒ यथा॒ पापी॑या॒ञ्छ्रेय॑स
PS4.3 आ॒हृत्य॑ नम॒स्यति॑ ता॒दृगे॒व तदा॑यु॒र्दा
PS4.4 अ॑ग्ने॒ऽस्यायु॑र्मे दे॒हीत्या॑हा*ऽऽयु॒र्दा ह्ये॑ष व॑र्चो॒दा
PS4.5 अ॑ग्नेऽसि॒ वर्चो॑ मे दे॒हीत्या॑ह
PS4.6 वर्चो॒दा ह्ये॑ष त॑नू॒पा अ॑ग्नेऽसि
PS4.7 त॒नुवं॑ मे पा॒हीत्या॑ह -
PS4.8 [ ]
PS5.1 तनू॒पा ह्ये॑षोऽग्ने॒ यन्मे॑ त॒नुवा॑
PS5.2 ऊ॒नं तन्म॒ आ पृ॒णेत्या॑ह॒
PS5.3 यन्मे᳚ प्र॒जायै॑ पशू॒नामू॒नं तन्म॒
PS5.4 आ पू॑र॒येति॒ वावैतदा॑ह॒ चित्रा॑वसो
PS5.5 स्व॒स्ति ते॑ पा॒रम॑शी॒येत्या॑ह॒ रात्रि॒र्
PS5.6 वै चि॒त्राव॑सु॒रव्यु॑ष्ट्यै॒ वा ए॒तस्यै॑
PS5.7 पु॒रा ब्रा᳚ह्म॒णा अ॑भैषु॒र् व्यु॑ष्टिमे॒वाव॑
PS5.8 रुन्ध॒ इन्धा॑नास्त्वा श॒तꣳ -
PS5.9 [ ]
PS6.1 हिमा॒ इत्या॑ह श॒तायुः॒ पुरु॑षः
PS6.2 श॒तेन्द्रि॑य॒ आयु॑ष्ये॒वेन्द्रि॒ये प्रति॑ तिष्ठत्ये॒षा
PS6.3 वै सू॒र्मी कर्ण॑कावत्ये॒तया॑ ह
PS6.4 स्म॒ वै दे॒वा असु॑राणाꣳ
PS6.5 शतत॒र्॒.हाꣳ स्तृꣳ॑हन्ति॒ यदे॒तया॑ स॒मिध॑मा॒दधा॑ति॒
PS6.6 वज्र॑मे॒वैतच्छ॑त॒घ्नीं ॅयज॑मानो॒ भ्रातृ॑व्याय॒ प्र
PS6.7 ह॑रति॒ स्तृत्या॒ अछं॑बट्कारꣳ॒॒ सं
PS6.8 त्वम॑ग्ने॒ सूर्य॑स्य॒ वर्च॑साऽगथा॒ इत्या॑है॒तत्त्वमसी॒दम॒हं
PS6.9 ( ) भू॑यास॒मिति॒ वावैतदा॑ह॒
PS6.10 त्वम॑ग्ने॒ सूर्य॑वर्चा अ॒सीत्या॑हा॒ऽऽशिष॑मे॒वैतामा शा᳚स्ते

Report Timing Issue

Report timing issue for this location?

पञ्चशत् 1 #
TS 1.5.7.1 TS 1.5.7.1
अय॑ज्ञो॒ वा ए॒ष यो॑ऽसा॒मोप॑प्र॒यन्तो॑ अद्ध्व॒रमित्या॑ह॒ स्तोम॑मे॒वास्मै॑ युन॒क्त्युपेत्या॑ह प्र॒जा वै प॒शव॒ उपे॒मं ॅलो॒कं प्र॒जामे॒व प॒शूनि॒मं ॅलो॒कमुपै᳚त्य॒स्य प्र॒त्नामनु॒ द्युत॒मित्या॑ह सुव॒र्गो वै लो॒कः प्र॒त्नः सु॑व॒र्गमे॒व लो॒कꣳ स॒मारो॑हत्य॒ग्निर् मू॒र्द्धा दि॒वः क॒कुदित्या॑ह मू॒र्द्धान॑ - [ ]
पदपाठः (Word-by-word)
अय॑ज्ञ्ः । वै । ए॒षः । यः । अ॒सा॒मा । उ॒प॒प्र॒यन्त॒ इत्यु॑प - प्र॒यन्तः॑ । अ॒द्ध्व॒रम् । इति॑ । आ॒ह॒ । स्तोम᳚म् । ए॒व । अ॒स्मै॒ । यु॒न॒क्ति॒ । उपेति॑ । इति॑ । आ॒ह॒ । प्र॒जेति॑ प्र - जा । वै । प॒शवः॑ । उपेति॑ । इ॒मम् । लो॒कम् । प्र॒जामिति॑ प्र - जाम् । ए॒व । प॒शून् । इ॒मम् । लो॒कम् । उपेति॑ । ए॒ति॒ । अ॒स्य । प्र॒त्नाम् । अन्विति॑ । द्युत᳚म् । इति॑ । आ॒ह॒ । सु॒व॒र्ग इति॑ सुवः - गः । वै । लो॒कः । प्र॒त्नः । सु॒व॒र्गमिति॑ सुवः - गम् । ए॒व । लो॒कम् । स॒मारो॑ह॒तीति॑ सं - आरो॑हति । अ॒ग्निः । मू॒र्धा । दि॒वः । क॒कुत् । इति॑ । आ॒ह॒ । मू॒र्धान᳚म् ।
पदसंख्या: 50
सायणभाष्यम् (Sayana Commentary)

(अथ प्रथमकाण्डे पञ्चमप्रपाठके सप्तमोऽनुवाकः)।

सप्तमेऽनुवाके पञ्चमानुवाकोक्ता मन्त्रा व्याख्यायन्ते। उपप्रेत्यादिमन्त्रसं-घोपस्थानेन ज्योतिष्टोमे त्रिवृत्पञ्चदशादिशादिस्तोमवदग्निहोत्रेऽपि स्तोमयोग उपचर्यत इत्याह -

अयज्ञो वा इति। यः सामरहितः स यज्ञ एव न भवति। ऋग्भेदादावृत्तिभे-दाच्च निष्पन्नः सामसंघः स्तोमः। तं चास्मिन्नग्निहोत्रे मन्त्रसंघेन संपादयति।

उपशब्दसूचितं दर्शयति - उपेत्याहेति। प्रजाः पशवश्च भूलोकमुपगच्छन्ति। तस्माद्यजमानोऽप्युपश-ब्दसामर्थ्यात्प्रजां पशूंश्चोपेत्य तद्युक्तं भूलोकमुपैति।

प्रत्नशब्दसूचितमाह - अस्य प्रत्नामिति। स्वर्गलोकस्य चिरंतनत्वे प्रत्नशब्दसूचित्वात्तेन शब्देन स्वर्गारोहो भवति।

मूर्धशब्दपृथिवीशब्दाभ्यां सूचितं दर्शयति - अग्निमूर्धेति। मूर्धानं श्रेष्ठमेनं यजमानं समानानां समानजातीयानां मध्ये करोति। अपि च देवलोकादागत्य मनुष्यलोक एव प्रतिष्ठितो भवतीत्यर्थः।

प्रथमशब्दसूचितं दर्शयति - अयमिहेति।

इन्द्रस्य बलाभिमानित्वादग्नेश्च तेजोभिमानित्वाच्छब्दद्वयेनोभयप्राप्तिः सूच्यत इत्याह - उभा वामिति।

मन्त्रगतं रयिशब्दं व्याचष्टे - अयं ते योनिरिति।

पूर्वोत्तरषट्काभ्यां प्रतिदिनमुपस्थानं विधत्ते - षडि्भरुपतिष्ठत इति। उपप्रयन्त इत्याप्रयन्त इत्यादिकं पूर्वषट्कम्। अग्न आयूंषीत्यादिकमुत्तरषट्कम्।

पूर्वषट्केन यथा प्रतिदिनमुपस्थानं तद्वदुत्तरेणापि प्राप्ते कालविशेषं विधत्ते -

यथा वै पुरुष इति। पुरुषादीनां चिरकालेनेवाग्नेः संवत्सरे प्राप्तां जरां निवार्य नूतनशरीरं शोधयितुं संवत्सरादूर्ध्वमुपस्थानम्। अग्निदेवतायाः पवमानदेवतायाश्च संबन्धिन्य ऋच आग्निपावमान्यः। यद्यप्यग्निरेव शोधकत्वात्पवमानस्तथाऽपि शोधकत्वोपाधेरन्यत्वमभिप्रेत्य निर्देशभेदः।

विहितमुपस्थानं चतुर्वारमनूद्य प्रशंसति - उपतिष्ठत इति। उपतिष्ठत इति यदेष एवास्याग्नेर्योगो यजमानेन सहा-नुग्राह्यानुग्राहकरूपः संबन्धः। तथा दमो दाहादिलक्षणोपद्रवनिवारणम्। तथा धनादियाच्ञा। किंच - यथा लोके कश्चिद्दरिद्रो धनिकाय किंचिदुपायनमानीय नमस्कारं करोति तादृगिदमुपस्थानम्। अयमिह प्रथमो धायि धातृभिरिति योग उक्तः। आरे बाधस्व दुच्छुनामिति अनिष्टनिवारणम्। अथानो वर्धया रयिमिति याच्ञा। मन्त्रं वोचेमाग्नय इत्युपायनम्।

त्रयाणां यजुषामर्थप्रसिद्धिं दर्शयति - आयुर्दा इति।

तनुशब्देन प्रजा पशवश्चोपलक्षिता इत्यभिप्रेत्य व्याचष्टे अग्ने यन्म इति।

चित्रावसुपदस्यार्थं वाक्यतात्पर्यं च दर्शयति -

चित्रावसो इति। नक्षत्रादिरूपं चित्रमभिव्यक्ततया वसत्यस्यामिति रात्रि-श्चित्रावसुः। अव्युष्टिः प्रभातान्तः। हेमन्तर्तौ रात्रेर्दीर्घत्वेन प्रभातं न भविष्य-त्येवेति। कदाचिद्ब्राह्मणा भीता अतः पारमशीयेति प्रार्थनया प्रभातं लभते।

शतसंख्यां प्रशंसति - इन्धाना इति। अस्य मन्त्रस्योपस्थाने समिदाधाने च विनियोगद्वयं सूत्रकार उदाजहार – “इन्धानास्त्वा शत हिमा इत्युपस्थायेन्धानास्त्वा शत हिमा अग्नेः समिदस्यभिशस्त्या मा पाहि सोमस्य समिदसि परस्याम एधि यमस्य समिदसि मृत्योर्मा पाहीति चतस्रः समिध एकैकस्मिन्नधाय” इति। तत्रोपस्थानाङ्गप्रस्तावेन मन्त्रो व्याख्यातः।

अथ तस्यैव समिदाधानाङ्गावं विधत्ते -

एषा वा इति। ज्वलन्ती लोहमयी स्थूणा सूर्मी। सा च कर्णतावती छिद्रवती। अन्तरपि ज्वलन्तीत्यर्थः। तत्समानेयमृक्। एकेन प्रहारेण शतसंख्याकान्मारयन्तः शूराः शततर्हाः। असुराणां मध्ये तादृशानेतयर्चा देवा हिंसन्ति। अनया समिदाधानेन शतघ्नीमेनामृचं वज्रं कृत्वा वैरिणं हन्तुं प्रहरति। अच्छम्बट्कारं स्वस्य विनाशो यथा न भवति तथेत्यर्थः। स्तृत्यै नाशाभावेन विस्तीर्णताया इत्यर्थः।

सं त्वमग्न इत्यर्धेनाग्नेर्गुणकथनं स्वस्यापि तत्प्रार्थनायेत्याह - सं त्वमग्न इति।

द्वितीयार्धे सं मामायुषेति प्रार्थनमिति दर्शयति - त्वमग्न इति।

इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वे-दीयतैत्तिरीयसंहिताभाष्ये प्रथमकाण्डे पञ्चमप्रपाठके सप्तमोऽनुवाकः॥७॥
भट्टभास्करभाष्यम् (Bhatta Bhaskara Commentary)
1 अग्न्युपस्थानमन्त्राणां ब्राह्मणमग्न्यार्षेयम् - अयज्ञ इत्यादि ॥ 'उपप्रयन्त' इत्यादि द्वादशर्चं स्तोमस्थानीयमस्य यज्ञस्य करोतीति । 'मन्त्रं वोचेम' इत्येतच्च स्तोमाभिप्रायमित्यभिप्रायः ॥
2 उपेत्याहेत्यादि ॥ प्रजाश्च पशवश्चेमं लोकमुपेत्य वर्तन्ते । तस्मादेतल्लोकात्मकाध्वरोपायनकथनं प्रजानां पशूनामस्य च लोकस्योपनयनाय भवतीति ॥
3 अस्य प्रत्नामिति ॥ प्रत्नतया स्वर्गस्थानीयं दीप्तिदोहनं स्वर्गसमारोहणाय भवतीति ॥
4 अग्निरिति ॥ अग्नेर्मूर्धत्वाभिधानं यजमानस्य प्राधान्यार्थमिति । अथो अपि च देवलोकादागत्य मनुष्यलोके प्रतिष्ठितो भवति ॥
5 पार्थीवस्याग्नेः पश्चादभिधानात् मुखमिति प्रथमत्ववचनादग्नेः मुखमिव मुखम् ॥
6 ओजोबलात्मकत्वादिन्द्राग्न्योः ॥
7 पशवो वै रयिरिति ॥ 'वर्धया रयिम्' इति दर्शनात् ॥
8 षड्भिरिति ॥ आहवनीयमेव सर्वत्र । विशिष्टसङ्ख्यान्वयो विशिष्टफलावाप्तिहेतुरिति भावः । षड्भिरुत्तराभिरिति । ननु द्वादशभिरुपतिष्ठत इत्येव वाच्यं स्यात् । मैवम्, 'षट्त्वनिबन्धनफलावाप्तये षड्भिष्षड्भिरुपस्थिष्ठते । द्वादशेति तन्निबन्धनफलावाप्तिश्च भवति ॥
9 यथेत्यादि ॥ यथा पुरुषादयः आसादिताहारा जीर्यन्ते । एवमग्निराहितो जीर्यति । संवत्सरस्येत्यादि । 'अग्न आयूंषि पवसे' इत्येताभिः षड्भिः संवत्सरेर्संवत्सरे उपतिष्ठते । 'देवताद्वन्द्वे च' इत्युभयपदवृद्धिः उदात्तनिवृत्तिस्वरेण ङीप उदात्तत्वम् ॥
10 पुनर्नवमित्यादि ॥ आयुरादिलाभात् । अथो अपिच पुनात्येवाग्निं जरया नाभिभूयते, पवमानस्यायं महिमेति । उपतिष्ठते योग एवास्यैष उपतिष्ठत इति । यत् एषोग्निः योगस्संश्लेषस्सम्पद्यते । यत्रायुरादीनि स्वयमेव सम्पद्यन्त इति उपतिष्ठत इति यत् इदमग्नेरुपस्थानं इदं दम एवास्यैष क्रियते । दमो निबन्ध[द्ध]स्तुतिकरपदैर्विधेयीकर्णम् । यथास्मै अभीष्टमकृत्वा स्थातुमपि न शक्नोति तथैनं दमयति । 'अग्निश्शुचिव्रततमश्शुचिर्विप्रश्शुचिः कविः' इत्यादि । उपतिष्ठत इति । उपस्थानव्याजेन स्वाभिमतानग्निं याचते 'आयूंषि पवस्व, ऊर्जमिषं चासुव, दुच्छुनां दूरे बाधस्व' इति । उपतिष्ठत इति । परस्प्राश्रयः प्रकर्षः । यथा स्वल्पैश्वर्यो जनः प्रभूतैश्वर्याय फलादिकमुपहृत्य नमस्यति तादृगिदमुपस्थानम्; आराध्यैश्वर्यव्यापनार्थत्वात् । ततस्सुप्रसन्नः स्वामी फलेनाभिमतेन पुरुषं आराधयितारं योजयतीति । 'नमोवरिवश्चित्रङः क्यच्' ॥
11 आयुर्दा इत्यादि ॥ गतम् ॥
12 यन्मे प्रजाया इत्यादि ॥ तनुवत्प्रवानत्वात् प्रजाश्च पशवश्च तनुशब्देनोच्यन्त इति दर्शयति । आ पूरयेति । पृणतिरापूरणकर्मेत्याचष्टे ॥
13 रात्रिर्वा इति ॥ चित्रा नानारूपा वसवो वस्तारो यस्यामिति चित्रा अप्येकरूपा वसन्त्यस्यां इत्य[इति वा]र्थः । अव्युष्ट्यै वा इत्यादि । रात्रेरवसानं व्युष्टिः एतस्या रात्रेरव्युष्ट्यै अभैषुः । यद्वा - अव्युष्ट्यै व्याप्तिरहिताया रात्रेरभैषुः अव्युष्ट्याशङ्कया अभैशुरिति यावत् । छान्दसोन्तोदात्तत्वाभावः । तस्मात् स्वस्ति ते पारमशीयेति प्राथनया व्युष्टिमवरुन्धे । 'तादौ च' इति गतेः प्रकृतिस्वरत्वम्, 'उदात्तस्वरितयोर्यणः' इत्युकारः स्वर्यते ॥
14 शतायुरिति ॥ शतवर्षश्शतवीर्यः पुरुषः । हिमशब्देन संवत्सराभिधानं व्याख्यातम् । आयुषि इन्द्रिये च प्रतिष्ठितो भवति अनया समिधमाधाय । एषा वा इत्यादि । ज्वलन्ती लोहमयी स्थूणा सूर्मी । गौरादित्वान्ङीष् । कर्णकावती अन्तस्सुषिरवती अन्तर्बहिश्च ज्वलन्तीत्यर्थः । सांहितिकं दीर्घत्वम् । तत्सदृशा ऋगित्यर्थः । एतयेत्यादि । असुराणां मध्ये शततर्हान् अनेकप्रहारेण शतस्य हन्तॄन् तृंहन्ति घ्नन्ति स्म एतयर्चा । तृह हिंसायाम् रौधादिकः, 'लट् स्मे' इति लट् । तस्मादेतयर्चा समिधमादधानो वज्रं शतघ्न्याख्यं इन्द्रायुधसदृशीं शतघ्नीं पूर्वोक्तां सूर्मिमेव भ्रातृव्याय प्रहिणोति । तच्च स्तृत्यै विनाशाय भ्रातृव्याणां भवति । अछम्बट्कारं अनार्तत्वाय चात्मनः ॥
15 एतदित्यादि ॥ एतादृशस्त्वमसि एतादृशोहं भूयासमिति एतन्मन्त्रप्रतिपाद्यमित्यर्थः । इदं चास्त्विति लोपविषयत्वात् 'चादिलोपे विभाषा' इत्यसीत्याख्यातं न निहन्यते ॥
16 त्वमग्न इत्यादि ॥ यथा त्वं सूर्यतुल्यतेजाः एवं मामपि तादृशेन तेजसा आयुषा प्रजया च संसृजेत्येवमाशिषमनेनाशास्ते ॥
इति पञ्चमे सप्तमोनुवाकः ॥
पञ्चशत् 2 #
TS 1.5.7.2 TS 1.5.7.2
मे॒वैनꣳ॑ समा॒नानां᳚ करो॒त्यथो॑ देवलो॒कादे॒व म॑नुष्यलो॒के प्रति॑ तिष्ठत्य॒यमि॒ह प्र॑थ॒मो धा॑यि धा॒तृभि॒रित्या॑ह॒ मुख्य॑मे॒वैनं॑ करोत्यु॒भा वा॑मिन्द्राग्नी आहु॒वद्ध्या॒ इत्या॒हौजो॒ बल॑मे॒वाव॑ रुन्धे॒ ऽयं ते॒ योनि॑र्. ऋ॒त्विय॒ इत्या॑ह प॒शवो॒ वै र॒यिः प॒शूने॒वाव॑ रुन्धे ष॒ड्भिरुप॑ तिष्ठते॒ षड्वा - [ ]
पदपाठः (Word-by-word)
ए॒व । ए॒न॒म् । स॒मा॒नाना᳚म् । क॒रो॒ति॒ । अथो॒ इति॑ । दे॒व॒लो॒कादिति॑ देव - लो॒कात् । ए॒व । म॒नु॒ष्य॒लो॒क इति॑ मनुष्य - लो॒के । प्रतीति॑ । ति॒ष्ठ॒ति॒ । अ॒यम् । इ॒ह । प्र॒थ॒मः । धा॒यि॒ । धा॒तृभि॒रिति॑ धा॒तृ - भिः॒ । इति॑ । आ॒ह॒ । मुख्य᳚म् । ए॒व । ए॒न॒म् । क॒रो॒ति॒ । उ॒भा । वा॒म् । इ॒न्द्रा॒ग्नी॒ इती᳚न्द्र - अ॒ग्नी॒ । आ॒हु॒वद्ध्यै᳚ । इति॑ । आ॒ह॒ । ओजः॑ । बल᳚म् । ए॒व । अवेति॑ । रु॒न्धे॒ । अ॒यम् । ते॒ । योनिः॑ । ऋ॒त्वियः॑ । इति॑ । आ॒ह॒ । प॒शवः॑ । वै । र॒यिः । प॒शून् । ए॒व । अवेति॑ । रु॒न्धे॒ । ष॒ड्भिरिति॑ षट् - भिः । उपेति॑ । ति॒ष्ठ॒ते॒ । षट् । वै ।
पदसंख्या: 50
पञ्चशत् 3 #
TS 1.5.7.3 TS 1.5.7.3
ऋ॒तव॑ ऋ॒तुष्वे॒व प्रति॑ तिष्ठति ष॒ड्भिरुत्त॑राभि॒रुप॑ तिष्ठते॒ द्वाद॑श॒ सं प॑द्यन्ते॒ द्वाद॑श॒ मासाः᳚ संॅवथ्स॒रः सं॑ॅवथ्स॒र ए॒व प्रति॑ तिष्ठति॒ यथा॒ वै पुरु॒षोऽश्वो॒ गौर्-जीर्य॑त्ये॒व-म॒ग्निराहि॑तो जीर्यति संॅवथ्स॒रस्य॑ प॒रस्ता॑दाग्निपावमा॒नीभि॒-रुप॑ तिष्ठते पुनर्न॒व-मे॒वैन॑-म॒जरं॑ करो॒त्यथो॑ पु॒नात्ये॒वोप॑ तिष्ठते॒ योग॑ ए॒वास्यै॒ष उप॑ तिष्ठते॒ - [ ]
पदपाठः (Word-by-word)
ऋ॒तवः॑ । ऋ॒तुषु॑ । ऐ॒व । प्रतीति॑ । ति॒ष्ठ॒ति॒ । ष॒ड्भिरिति॑ षट् - भिः । उत्त॑राभि॒रित्युत् - त॒रा॒भिः॒ । उपेति॑ । ति॒ष्ठ॒ते॒ । द्वाद॑श । समिति॑ । प॒द्य॒न्ते॒ । द्वाद॑श । मासाः᳚ । स॒म्ॅव॒थ्स॒र इति॑ सं - व॒थ्स॒रः । स॒म्ॅव॒थ्स॒र इति॑ सं - व॒थ्स॒रे । ए॒व । प्रतीति॑ । ति॒ष्ठ॒ति॒ । यथा᳚ । वै । पुरु॑षः । अश्वः॑ । गौः । जीर्य॑ति । ए॒वम् । अ॒ग्निः । आहि॑त॒ इत्या - हि॒तः॒ । जी॒र्य॒ति॒ । स॒॒म्ॅव॒थ्स॒रस्येति॑ सं - वथ्स॒रस्य॑ । प॒रस्ता᳚त् । आ॒ग्नि॒पा॒व॒मा॒नीभि॒रित्या᳚ग्नि - पा॒व॒मा॒नीभिः॑ । उपेति॑ । ति॒ष्ठ॒ते॒ । पु॒न॒र्न॒वमिति॑ पुनः-न॒वम् । ए॒व । ए॒न॒म् । अ॒जर᳚म् । क॒रो॒ति॒ । अथो॒ इति॑ । पु॒नाति॑ । ए॒व । उपेति॑ । ति॒ष्ठ॒ते॒ । योगः॑ । ए॒व । अ॒स्य॒ । ए॒षः । उपेति॑ । ति॒ष्ठ॒ते॒ ।
पदसंख्या: 50
पञ्चशत् 4 #
TS 1.5.7.4 TS 1.5.7.4
दम॑ ए॒वास्यै॒ष उप॑ तिष्ठते याच्ञैवास्यै॒षोप॑ तिष्ठते॒ यथा॒ पापी॑या॒ञ्छ्रेय॑स आ॒हृत्य॑ नम॒स्यति॑ ता॒दृगे॒व तदा॑यु॒र्दा अ॑ग्ने॒ऽस्यायु॑र्मे दे॒हीत्या॑हा*ऽऽयु॒र्दा ह्ये॑ष व॑र्चो॒दा अ॑ग्नेऽसि॒ वर्चो॑ मे दे॒हीत्या॑ह वर्चो॒दा ह्ये॑ष त॑नू॒पा अ॑ग्नेऽसि त॒नुवं॑ मे पा॒हीत्या॑ह - [ ]
पदपाठः (Word-by-word)
दमः॑ । ए॒व । अ॒स्य॒ । ए॒षः । उपेति॑ । ति॒ष्ठ॒ते॒ । याच्ञै । ए॒व । अ॒स्य॒ । ए॒षा । उपेति॑ । ति॒ष्ठ॒ते॒ । यथा᳚ । पापी॑यान् । श्रेय॑से । आ॒हृत्येत्या᳚ - हृत्य॑ । न॒म॒स्यति॑ । ता॒दृक् । ए॒व । तत् । आ॒यु॒र्दा इत्या॑युः - दाः । अ॒ग्ने॒ । अ॒सि॒ । आयुः॑ । मे॒ । दे॒हि॒ । इति॑ । आ॒ह॒ । आ॒यु॒र्दा इत्या॑युः - दाः । हि । ए॒षः । व॒र्चो॒दा इति॑ वर्चः - दाः । अ॒ग्ने॒ । अ॒सि॒ । वर्चः॑ । मे॒ । दे॒हि॒ । इति॑ । आ॒ह॒ । व॒र्चो॒दा इति॑ वर्चः - दाः । हि । ए॒षः । त॒नू॒पा इति॑ तनू - पाः । अ॒ग्ने॒ । अ॒सि॒ । त॒नुव᳚म् । मे॒ । पा॒हि॒ । इति॑ । आ॒ह॒ ।
पदसंख्या: 50
पञ्चशत् 5 #
TS 1.5.7.5 TS 1.5.7.5
तनू॒पा ह्ये॑षोऽग्ने॒ यन्मे॑ त॒नुवा॑ ऊ॒नं तन्म॒ आ पृ॒णेत्या॑ह॒ यन्मे᳚ प्र॒जायै॑ पशू॒नामू॒नं तन्म॒ आ पू॑र॒येति॒ वावैतदा॑ह॒ चित्रा॑वसो स्व॒स्ति ते॑ पा॒रम॑शी॒येत्या॑ह॒ रात्रि॒र् वै चि॒त्राव॑सु॒रव्यु॑ष्ट्यै॒ वा ए॒तस्यै॑ पु॒रा ब्रा᳚ह्म॒णा अ॑भैषु॒र् व्यु॑ष्टिमे॒वाव॑ रुन्ध॒ इन्धा॑नास्त्वा श॒तꣳ - [ ]
पदपाठः (Word-by-word)
त॒नू॒पा इति॑ तनू - पाः । हि । ए॒षः । अग्ने᳚ । यत् । मे॒ । त॒नुवाः᳚ । ऊ॒नम् । तत् । मे॒ । एति॑ । पृ॒ण॒ । इति॑ । आ॒ह॒ । यत् । मे॒ । प्र॒जाया॒ इति॑ प्र - जायै᳚ । प॒शू॒नाम् । ऊ॒नम् । तत् । मे॒ । एति॑ । पू॒र॒य॒ । इति॑ । वाव । ए॒तत् । आ॒ह॒ । चित्रा॑वसो॒ इति॒ चित्र॑ - व॒सो॒ । स्व॒स्ति । ते॒ । पा॒रम् । अ॒शी॒य॒ । इति॑ । आ॒ह॒ । रात्रिः॑ । वै । चि॒त्राव॑सु॒रिति॑ चि॒त्र - व॒सुः॒ । अव्यु॑ष्ट्या॒ इत्यवि॑ - उ॒ष्ट्यै॒ । वै । ए॒तस्यै᳚ । पु॒रा । ब्रा॒ह्म॒णाः । अ॒भै॒षुः॒ । व्यु॑ष्टि॒मिति॒ वि - उ॒ष्टि॒म् । ए॒व । अवेति॑ । रु॒न्धे॒ । इन्धा॑नाः । त्वा॒ । श॒तम् ।
पदसंख्या: 50
पञ्चशत् 6 #
TS 1.5.7.6 TS 1.5.7.6
हिमा॒ इत्या॑ह श॒तायुः॒ पुरु॑षः श॒तेन्द्रि॑य॒ आयु॑ष्ये॒वेन्द्रि॒ये प्रति॑ तिष्ठत्ये॒षा वै सू॒र्मी कर्ण॑कावत्ये॒तया॑ ह स्म॒ वै दे॒वा असु॑राणाꣳ शतत॒र्॒.हाꣳ स्तृꣳ॑हन्ति॒ यदे॒तया॑ स॒मिध॑मा॒दधा॑ति॒ वज्र॑मे॒वैतच्छ॑त॒घ्नीं ॅयज॑मानो॒ भ्रातृ॑व्याय॒ प्र ह॑रति॒ स्तृत्या॒ अछं॑बट्कारꣳ॒॒ सं त्वम॑ग्ने॒ सूर्य॑स्य॒ वर्च॑साऽगथा॒ इत्या॑है॒तत्त्वमसी॒दम॒हं ( ) भू॑यास॒मिति॒ वावैतदा॑ह॒ त्वम॑ग्ने॒ सूर्य॑वर्चा अ॒सीत्या॑हा॒ऽऽशिष॑मे॒वैतामा शा᳚स्ते ॥
पदपाठः (Word-by-word)
हिमाः᳚ । इति॑ । आ॒ह॒ । श॒तायु॒रिति॑ श॒त - आ॒युः॒ । पुरु॑षः । श॒तेन्द्रि॑य॒ इति॑ श॒त - इ॒न्द्रि॒यः॒ । आयु॑षि । ए॒व । इ॒न्द्रि॒ये । प्रतीति॑ । ति॒ष्ठ॒ति॒ । ए॒षा । वै । सू॒र्मी । कर्ण॑काव॒तीति॒ कर्ण॑क-व॒ती॒ । ए॒तया᳚ । ह॒ । स्म॒ । वै । दे॒वाः । असु॑राणाम् । श॒त॒त॒र्॒.हानिति॑ शत - त॒र्॒.हान् । तृꣳ॒॒ह॒न्ति॒ । यत् । ए॒तया᳚ । स॒मिध॒मिति॑ सं-इध᳚म् । आ॒दधा॒तीत्या᳚ - दधा॑ति । वज्र᳚म् । ए॒व । ए॒तत् । श॒त॒घ्नीमिति॑ शत - घ्नीम् । यज॑मानः । भ्रातृ॑व्याय । प्रेति॑ । ह॒र॒ति॒ । स्तृत्यै᳚ । अच्छ॑बंट्कार॒मित्यच्छ॑बंट् - का॒र॒म् । समिति॑ । त्वम् । अ॒ग्ने॒ । सूर्य॑स्य । वर्च॑सा । अ॒ग॒थाः॒ । इति॑ । आ॒ह॒ । ए॒तत् । त्वम् । असि॑ । इ॒दम् । अ॒हम् ( ) । भू॒या॒स॒म् । इति॑ । वाव । ए॒तत् । आ॒ह॒ । त्वम् । अ॒ग्ने॒ । सूर्य॑वर्चा॒ इति॒ सूर्य॑ - व॒र्चाः॒ । अ॒सि॒ । इति॑ । आ॒ह॒ । आ॒शिष॒मित्या᳚ - शिष᳚म् । ए॒व । ए॒ताम् । एति॑ । शा॒स्ते॒ ॥
पदसंख्या: 66