पदपाठः (Word-by-word)
सायणभाष्यम् (Sayana Commentary)
(अथ प्रथमकाण्डे सप्तमप्रपाठके नवमोऽनुवाकः)।
अष्टमे रथधावनमुक्तं नवमे यूपारोहणमुच्यते।
क्षत्रस्येति। कल्पः — “अथ यजमानं तार्प्यं परिधापयति क्षत्त्रस्योल्बमसीति दर्भमयं पत्नीम्” इति। घृताक्तं वस्त्रं तार्प्यम्। क्षत्त्रस्य राजस्थानीयस्य यजमानस्य गर्भत्वेनोपचर्य-माणस्योल्बमावरणमसि। उल्बवृतो गर्भ इति छन्दोगा आमनन्ति। हे दर्भमय पट क्षत्त्रस्य राजमहिषीस्थानीयस्य पत्नीशरीरस्य योनिरसि शीतनिवारणका-रणमसि।
तदेतत्परिधानद्वयं विधत्ते - “तार्प्यं यजमानं परिधापयति। यज्ञो वै तार्प्यम्। यज्ञेनैवैन समर्धयति। दर्भमयं परिधापयति। पवित्रं वै दर्भाः। पुनात्येवैनम्। वाजं वा एषोऽवरुरुत्सते। यो वाजपेयेन यजते। ओषधयः खलु वै वाजः। यद्दर्भमयं परिधापयति” (१) वाजस्यावरुद्ध्यै” (ब्रा॰ का॰ १ प्र॰ ३ अ॰ ७) इति।
तार्प्यस्य यज्ञसाधनत्वाद्यज्ञत्वम्। एवं पत्नीदेहम्। वाजपेययाजिनोऽन्नाव-रोधकामिन ओषधिरूपदर्भमयेनान्नमवरुद्धं भवति।
जाय एहीति। कल्पः — “अथ जायमानमन्त्रयते जाय एहि सुवो रोहावोति, रोहाव हि सुवरितीतरा प्रत्याहाहं नावुभयोः सुवो रोक्ष्यामीति यजमानः” इति।
स्पष्टार्थो मन्त्रः।
एहीत्याह्वानस्य तात्पर्यमाह - ‘जाय एहि सुवो रोहावेत्याह। पत्निया एवैष यज्ञस्यान्वारम्भोऽनवच्छित्त्यै’ (ब्रा॰ का॰ १ प्र॰ ३ अ॰ ७) इति।
आह्वानेन यजमानस्य यज्ञारम्भमनु पत्न्या अपि यज्ञारम्भे सति यज्ञोऽनव च्छिन्नो भवति।
पूर्वमन्त्रैः स्वर्गत्वेन निरूपितस्याऽऽरोहणीयस्य यूपस्य चोदकप्राप्तं परिमाणमपवदितुं परिमाणान्तरं विधत्ते - ‘सप्तदशारत्निर्यूपो भवति। सप्तदशः प्रजापतिः। प्रजापतेराप्त्यै’ (ब्रा॰ का॰ १ प्र॰ ३ अ॰ ७) इति।
चतुर्विंशत्यङ्गुलीपरिमितोऽरत्निः। सप्तदशसंख्याका अरत्नयः परिमाणं यस्य यूपस्येति विग्रहः।
अन्यद्गुणद्वयं विधत्ते – ‘तूपरश्चतुरश्रिर्भवति’ (ब्रा॰ का॰ १ प्र॰ ३ अ॰ ७) इति।
इतेरषां यूपानामग्रे शृङ्गस्थानीयः काष्ठशेषोऽणीयांश्चषालप्रतिमोकायाव-शेष्यते, सोऽस्य नास्तीति तूपरत्वम्। अष्टाश्रित्वमपवदितुं चतुरश्रित्वम्।
चषालनामकस्य यूपकटकस्य दारुमयत्वापवादाय विधत्ते - ‘गौधूमं चषालम्। न वा एते व्रीहयो न यवाः। यद्गोधूमाः (२)। एवमिव हि प्रजापतिः समृद्ध्यै। अथो अमुमेवास्मै लोकमन्नवन्तं करोति’ (ब्रा॰ का॰ १ प्र॰ ३ अ॰ ७) इति।
गौधूमं कुर्यादिति शेषः। यथा व्रीहिभ्यो यवेभ्यश्च गोधूमानां लोके प्रश-स्तत्वमेवमेवान्येभ्यो देवेभ्यः प्रशस्तः प्रजापतिः। किंच गोधूमसंपत्त्या स्वर्गोऽन्नवान्भवति।
यूपस्य वेष्टनं विधत्ते - “वासोभिर्वेष्टयति। एष वै यजमानः। यद्यूपः सर्वदेवत्यं वासः। सर्वाभि-रेवैनं देवताभिः समर्धयति। अथो आक्रमणमेव तत्सेतुं यजमानः कुरुते सुवर्गस्य लोकस्य समष्ट्यै” (ब्रा॰ का॰ १ प्र॰ ३ अ॰ ७) इति।
वाससां संख्यामापस्तम्ब आह – “रशनाकाले सप्तदशभिर्वासोभिर्यूपं वेष्टयति” इति।
वाससां सर्वदेवत्यत्वमग्नेस्तूषाधानमित्यादौ सौमिकदीक्षाप्रकरणे विस्पष्टम्। आक्रमणं स्वर्गारोहणं सोपानसदृशम्।
कल्पः – ‘आहवनीये जुहोत्यन्वारब्धे यजमाने वाजश्च प्रसवश्चेति द्वादश स्रुवाहुतीः’ इति।
पाठस्तु – वाजश्चेति। वाजादयः सर्वे मम सन्त्विति शेषः। वाजोऽन्नं, प्रसवस्तस्यो-त्पत्तिः। अपिजस्तस्यैव पुनः पुनरुत्पत्तिः। क्रतुः संकल्पो भोगादिविषयो यागो वा। सुवस्तस्यैवोत्पत्तौ हेतुरादित्यः। अथवा वाजादयश्चैत्रादिमासानां नामविशेषाः। तदानीं सर्वे ते प्रीणन्त्विति वाक्यशेषः। चकाराः परस्परसमु-च्चयार्था अनुक्तकालादिदेवतासमुच्चयार्था वा।
विधत्ते - ‘द्वावश वाजप्रसवीयानि जुहोति (३)। द्वादश मासाः संवत्सरः। संवत्सरमेव प्रीणाति। अथो संवत्सरमेवास्मा उपदधाति। सुवर्गस्य लोकस्य समष्ट्यै’ (ब्रा॰ का॰ १ प्र॰ ३ अ॰ ७) इति।
वाजशब्दप्रसवशब्दौ येषु कर्मसु मन्त्रत्वेन श्रूयेते तानि कर्माणि वाजप्रसवी-यानि। अन्नोत्पत्तिहेतुत्वाद्वा वाजप्रसवीयत्वम्। न केवलमनेन होमेन संवत्स-रदेवतायाः प्रीतिः, किंत्वस्य यजमानस्य स्वार्गप्राप्तये संवत्सरदेवतां निःश्रेणि-वदुपधानमाधारमपि करोति।
कल्पः — तं दशभिः कल्पै रोहत्यायुर्यज्ञेन कल्पतामिति’ इति।
तं यूपम्। कल्पैः कल्पशब्दोपेतैः।
पाठस्तु - आयुर्यज्ञेति। आत्मा जीवः। यज्ञेन यज्ञसंबन्धिना यूपारोहणेन। आयुरादयः स्वस्वप्रयोजनसमर्था भवन्तु।
विधत्ते - ‘दशभिः कल्पै रोहति। नव वै पुरुषे प्राणाः।नाभिर्दशमी। प्राणानेव यथास्थानं कल्पयित्वा। सुवर्गं लोकमेति। एतावद्वै पुरुषस्य स्वम् (४)। यावत्प्राणाः। यावदेवास्यास्ति। तेन सह सुवर्गं लोकमेति’ (ब्रा॰ का॰ १ प्र॰ ३ अ॰ ७) इति।
अन्यत्र सप्त वै शीर्षण्याः प्राणा द्वाववाञ्चाविति श्रुतत्वादिहापि छिद्राभि-प्रायः प्राणशब्दः। अनेन कल्पमन्त्रपाठेन प्राणापानचक्षुःश्रोत्रादीन्प्राणान्स्व-स्वस्थाने स्थापयित्वा तैस्तदीयस्थानैः सह स्वर्गं प्राप्तो भवति।
सुवर्देवानिति। कल्पः – ‘बाहू उद्गृह्णाति सुवर्देवा अगन्मामृता अभूम प्रजापतेः प्रजा अभूमेति’ इति।
उद्गृहीताभ्यां बाहुभ्यां स्वर्गप्राप्तिमभिनयता यजमानेनेदमुच्यते वयं स्व-र्गावस्थितदेवान्प्रत्यगन्म प्राप्ताः स्मः। प्राप्य चामृता देवा अभूम। अतः प्रजा-पतेः प्रीतिविषयाः प्रजा अस्मिन्भूलोके यज्ञानुष्ठानपरा अभूम।
मन्त्रस्य त्रीन्भागान्पृथग्व्याचष्टे - ‘सुवर्देवा अगन्मेत्याह। सुवर्गमेव लोकमेति। अमृता अभूमेत्याह। अमृतमिव हि सुवर्गो लोकः। प्रजापतेः प्रजा अभूमेत्याह। प्राजापत्यो वा अयं लोकः। अस्मादेव तेन लोकान्नैति’ (ब्रा॰ का॰ १ प्र॰ ३ अ॰ ७) इति।
तेन तृतीयभागपाठेन भूलोकात्सर्वात्मना निर्गतो न भवति।
अपा० ७अनु०९] कृष्णयजुर्वेदीयतैत्तिरीयसंहिता।। ७८३ ( वाजपेयविषययूपारोहणाभिधानम् )
समहमिति । कल्प:-" अथेमं लोकं प्रत्यवेक्षते समह प्रजया सं मया प्रजा समह रायस्पोषेण सं मया रायस्पोष इति " इति ।
संगतोऽस्मि संगम्यतामिति यथायोगमध्याहर्तव्यम् । आशी परत्वेन व्याचष्टे
" समहं प्रजया सं मया पजेत्याह । आशिषमेवैतामाशास्ते ” [बा. का० १ प्र० ३ अ० ७ ] इति ।
अनायेति । कल्प:-" तमेवमासपुटैन्ति अन्नाय त्वेति पुरस्तादध्वर्युः,
अन्नाधाय त्वेति दक्षिणतो ब्रह्मा, वाजाय त्वेति पश्चाद्धोता, वाजजित्यायै त्वेत्युत्तरत उद्गाता ” इति । ऊषखननपांसव आसास्तानश्वत्थपत्रैः पुटीकृत्य तैरासपुटैयूपादवरोहन्तं यजमानं हन्युः। अत एवाऽऽपस्तम्ब आह “ तमाश्वत्थैरासपुटैरूषपुटैरुभयैवी वैश्याः प्रतिदिशमर्पयन्ति महत्विजो वा दीर्घवंशेषु प्रवध्य ” इति । । सामान्येन प्राणिभिर्भोज्यमन्नं, राजामात्यादिभिर्भोज्यमन्नाद्यम् । तत्राप्यपूपादिविशेषो वाजः । तस्य सर्वस्यान्नस्य संपादनं वाजजित्या।
द्विविधं हनन क्रमेण विधत्ते -
"आसपुटैनंन्ति । अन्नं वा इयम् । अन्नाद्येनैवन समर्धयन्ति । ऊन्ति । एते हि साक्षादन्नम् । यदूषाः । साक्षादेवैनमन्नाद्येन समर्धयन्ति' [ बा. का. १ प. ३ अ० ७ ] इति ।
ऊषाणामाधानादिसाधनत्वेन पारलौकिकानं प्रति साक्षात्साधनत्वम् । हनने प्रकारविशेष विधत्ते
" पुरस्तात्मत्यञ्च धन्ति ( ६ ) । पुरस्तादि प्रतीचीनमन्नमद्यते ” [ बा. . का० १ प्र० ३ अ० ७ ] इति ।
हन्यमानस्य पुरतादवस्थितो हन्ता प्रत्यञ्चं स्वाभिमुखं हन्यात् । लोकेऽपि . हि पुरतोऽवस्थितात्पात्रात्समादाय स्वाभिमुखं तदन्नमद्यते ।
एतदापस्तम्बेन स्पष्टीकृतम्-" मुखतोऽभिन्नन्ति हन्तारं हन्तारमभिपयावर्तते " इति ।
ताडयमानं प्रदेश विधत्ते--- "शीर्षतो भन्ति । शीर्षतो यन्नमद्यते” [बा० का० १ ०३ अ०७] इति । चतुर्दिक्षु हननं विधत्ते--
“दिग्भ्यो घ्नन्ति । दिग्भ्य एवास्मा अन्नाद्यमवरुन्धते " [ बा० का० १ म० ३ अ० ७] इति । अमृतमसीति । कल्प:-" अत्रास्मै प्रत्यवरोहत आसन्दी निदधाति तस्यां बस्ताजिनमास्तृणाति बस्ताजिने शतमान५ हिरण्यं दक्षिणं पादः हिरण्य उपावरोहयति अमृतमसीति, पुष्टिरसि प्रजननमसीति सव्यं बस्ताजिने ” इति ।
हे हिरण्य त्वं विनाशरहितमसि । नयग्नौ प्रक्षिप्तमपि हिरण्यं काष्टादिवद्धिनश्यति । हे बस्ताजिन त्वं पुष्टिरास संवत्सरे बह्वपत्योत्पादकत्वात् । एतदेवाभिप्रेत्य प्रजननमसीत्युच्यते ।
हिरण्येऽवरोहं विधातुं प्रस्तौति.... “ईश्वरो वा एष पराङ्मदधः । यो यूप५ रोहति ॥ [ बा० का० १ प्र० ३ अ० ७ ] इति ।
यूपमारूढो यजमानः पराभूलोकाद्विमुखः प्रदघः पदग्धुं स्वात्मानं विनाशयितुमीश्वरः समर्थों भवति । अथवा पदघः प्रकर्षण गन्तुमीश्वरो न पुनरावर्तत इत्यर्थः।
विधत्ते--
" हिरण्यमध्यवरोहति । अमृतं वै हिरण्यम् । अमृत५ सुवर्गो लोकः । अमृत एव सुवर्गे लोके प्रतितिष्ठति" [बा० का० १ प्र० ३ अ० ७] इति । हिरण्यस्य परिमाणं विधत्ते
“ शतमानं भवति । शतायुः पुरुषः शतेन्द्रियः । आयुष्येवेन्द्रिये प्रतिति ष्ठति ॥ [ ब्रा० का. १ प्र० ३ अ०७] इति ।
मानशब्देन पणस्य विंशो भागोऽभिधीयते । ततः पञ्चपणपरिमितमित्युक्तं भवति । शतसंख्याकाः संवत्सराः पुरुषस्याऽऽयुः । दशानां ज्ञानकर्मेन्द्रियाणां मध्ये चक्षुरादीन्द्रियस्यैकैकस्य दशसु नाडीषु वृत्तिभेदेन शतेन्द्रियत्वम् ।
बस्ताजिने वामपादनक्षेपं विधातुं प्रस्तौति-- .
" पुष्टयै वा एतद्रूपम् । यदजा । त्रिः संवत्सरस्यान्यान्पशून्पारमजायते "
[ब्रा० का० १ प्र० ३ अ० ७ ] इति । संवत्सरे सत्प्रसवोपेतानन्यान्गवादिपशून्परित्यज्य संवत्सरे त्रिरपत्यानि प्रसूतेऽतोऽस्याः पुष्टिरूपत्वम् ।
विधत्ते. " बस्ताजिनमध्यवरोहति । पुष्टयामेव प्रजनने प्रतितिष्ठति (७) " [ब्रा० का० १ १०३ अ० ७] इति ।
अत्र विनियोगसंग्रहः
"क्षत्र ताप्यं क्षत्र दाभ्यं परिधत्तोऽत्र दंपती । जाये स्वाम्याह्वयेद्भायाँ रोहा तं प्रतिवक्ति सा ॥ १ ॥ अहं स्वाम्याह वाजश्च जुहुयावादशाऽऽहुतीः । आयुर्दशभिरारोहेत्स्वयं बाहूद्ग्रहः सुवः॥ २ ॥ से भुवं प्रेक्षतेऽन्नाय चतुर्भिस्तु महत्विजः । दिग्भ्यो नन्त्यासपुटकैरमपुष्टिद्वयात्पदे । स्वर्णबस्तत्वचोर्दद्यात्पञ्चविंशत्त्विहोदिताः ॥ ३ ॥” इति । ..
गुंबाच्छादनकायक्यादयोग्यत्वात्समुच्चयः ” । महावते अयते--" ताप्य यजमानः परिधत्ते दर्भमयं पत्नी " इति । प्रकृतौ " अहतं वासः परिधत्ते " इति घृताक्तं वस ताप्पमित्युच्यते । ताभ्यां तापदर्भमयाभ्यां दंपत्योरहतं वस्त्र बाध्यते । कुतः । परिधत्त इत्यनेन प्रकृतिलिङ्गन गुह्याच्छादनलक्षणस्य कार्यस्यैकत्वावगमात् । मैवम् । ताप्Hदर्भमययोर्गुयमाच्छादयितुमयोग्यत्वात् । परिधानं त्वत्रोपरितनं प्रावरणम् । तत्कार्यभेदात्समुच्चयः। तृतीयाध्यायस्य प्रथमपादे चिन्तितम्
" भवेत्सप्तदशारनिर्वाजपेयस्य यूपकः। उन्मानं द्रव्यगं वाजपेयस्याङ्गं पशोरुत ॥
आनन्तर्यात्प्रकरणात्कर्माङ्ग पोडशिन्यदः । अपात्रे खादिरेऽग्रे संयुज्यान्वेति कर्मणा ॥ यूपहारा पशोरङ्ग पशुद्वारा च कर्मणः ।
सौमिकत्वाद्वाजपेये यूपो नास्ति पशं विना ॥१] बाजपेयप्रकरणे श्रूयते--" सनदशानिर्वाजपेयस्य यूपो भवति" इति । अत्र यूपद्रव्यगत सप्तदशारनिशब्दोदितं यदूर्ध्वमानं तद्वाजपेयकर्मणोऽहं, सप्तदशारनिशब्दवाजपेयशब्दयोरानन्तर्यात् । प्रकरणं चैवमनुगृह्यते । यदि कर्मणः साक्षादूर्ध्वमानं न संभवेत्तर्हि वाजपेयगतं खादिरपूर्वं यत्वोडशिपावं तस्मिन्नद् उन्मानं संबध्य तद्द्वारा कर्मणान्वेतीति प्राप्ते ब्रूमः--सप्तदशारनिषूप इति सामानाधिकरण्याापन साक्षात्सबध्यते । तस्य च यूपस्य पश्वदङ्गत्वादुन्मानं यूपदारा पशोरङ्गं भवति । तस्थापि पशोर्वाजपेयाङ्गत्वात्पशुद्वारा कर्मणोऽङ्गम् । यद्यपि बाजपेययूप शब्दयोरानन्तर्यमस्ति तथाऽपि वाजपेयस्य सोमयागतया साक्षायूपसंबन्धाभावात्पशुव्यवधानमभ्युपेयम् । वाजपेयस्येति षष्ठ्याः संबन्धमाबवाचित्वेन व्यवहितसंबन्धमप्यसावभिधत्ते, देवदत्तस्य नप्तेति प्रयोगवत् । यत्सप्तदशारनिवाजपेयशब्दयोरानन्तयं यच्च प्रकरणं तदुभयं न विरुद्धं, पश्वङ्गत्वेऽप्यन्ततो बाजपेयाङ्गत्वाङ्गीकारात् । किंच पूर्वपक्षे यूपशब्देन षोडशिपात्रं लक्षणीयम् । सिद्धान्ते तु नासौ दोषः।
तत्रैवाष्टमपादे चिन्तितम्
“ वाचयेत्स्वामिनं ज्ञाज्ञौ वाचनीया श एव' वा ।
अविशेषादुभी ज्ञस्य स्वामित्वादाचयेदम् ॥" वाजपेये श्रूयते-" क्लुप्तीर्यजमानं वाचयति ” इति । आयुर्यज्ञेन कल्पता- ५ मित्यादयो मन्त्राः क्लप्तयः । तत्र मन्त्रताभिज्ञमनभिज्ञं चोभावपि वाचयेत् , विद्वांस वाचदित्येवं विशेषस्याश्रवणात्। अनभिज्ञं तदैव शिक्षयित्वाऽपि वाचयितुं शक्यत्वादिति चेन्मैवम् । अध्ययनविधिबलाधीतवेदस्य विदितवेदार्थस्यैव यजमानत्वात् । तस्मादभिज्ञमेव वाचयेत् ॥