अनुवाकः 10 TS 1.7.10

(A10)

(र॒यिꣳ-स॑वि॒तारꣳ॒॒-षट्त्रिꣳ॑शच्च)

अनुवाकः 10 - Complete Audio

TS 1.7.10 - स्वरानुगामी

0:00 0:00
PS1.1 वाज॑स्ये॒मं प्र॑स॒वः सु॑षुवे॒ अग्रे॒
PS1.2 सोमꣳ॒॒ राजा॑न॒मोष॑धीष्व॒फ्सु
PS1.3 ता अ॒स्मभ्यं॒ मधु॑मतीर् भवन्तु
PS1.4 व॒यꣳ रा॒ष्ट्रे जा᳚ग्रियाम पु॒रोहि॑ताः
PS1.5 वाज॑स्ये॒दं प्र॑स॒व आ ब॑भूवे॒मा
PS1.6 च॒ विश्वा॒ भुव॑नानि स॒र्वतः॑
PS1.7 स वि॒राजं॒ पर्ये॑ति प्रजा॒नन्
PS1.8 प्र॒जां पुष्टिं॑ ॅव॒र्द्धय॑मानो अ॒स्मे
PS1.9 वाज॑स्ये॒मां प्र॑स॒वः शि॑श्रिये॒ दिव॑मि॒मा
PS1.10 च॒ विश्वा॒ भुव॑नानि स॒म्राट्
PS1.11 अदि॑थ्सन्तं दापयतु प्रजा॒नन् र॒यिं
PS1.12 - [ ]
PS2.1 च॑ नः॒ सर्व॑वीरां॒ नि य॑च्छतु
PS2.2 अग्ने॒ अच्छा॑ वदे॒ह नः॒
PS2.3 प्रति॑ नः सु॒मना॑ भव
PS2.4 प्र णो॑ यच्छ भुवस्पते
PS2.5 धन॒दा अ॑सि न॒स्त्वं
PS2.6 प्र णो॑ यच्छत्वर्य॒मा प्र
PS2.7 भगः॒ प्र बृह॒स्पतिः॑
PS2.8 प्र दे॒वाः प्रोत सू॒नृता॒
PS2.9 प्र वाग् दे॒वी द॑दातु
PS2.10 नः
PS2.11 अ॒र्य॒मणं॒ बृह॒स्पति॒मिन्द्रं॒ दाना॑य चोदय
PS2.12 वाचं॒ ॅविष्णुꣳ॒॒ सर॑स्वतीꣳ सवि॒तारं॑
PS2.13 - [ ]
PS3.1 च वा॒जिनं᳚
PS3.2 सोमꣳ॒॒ राजा॑नं॒ ॅवरु॑णम॒ग्नि-म॒न्वार॑भामहे
PS3.3 आ॒दि॒त्यान् विष्णुꣳ॒॒ सूर्यं॑ ब्र॒ह्माणं॑
PS3.4 च॒ बृह॒स्पतिं᳚
PS3.5 दे॒वस्य॑ त्वा सवि॒तुः प्र॑स॒वे᳚ऽश्विनो᳚र्
PS3.6 बा॒हुभ्यां᳚ पू॒ष्णो हस्ता᳚भ्याꣳ॒॒ सर॑स्वत्यै
PS3.7 वा॒चो य॒न्तुर् य॒न्त्रेणा॒ग्नेस्त्वा॒ आम्रा᳚ज्येना॒भिषि॑ञ्चा॒मीन्द्र॑स्य॒
PS3.8 बृह॒स्पते᳚स्त्वा॒ साम्रा᳚ज्येना॒भिषि॑ञ्चामि

Report Timing Issue

Report timing issue for this location?

पञ्चशत् 1 #
TS 1.7.10.1 TS 1.7.10.1
वाज॑स्ये॒मं प्र॑स॒वः सु॑षुवे॒ अग्रे॒ सोमꣳ॒॒ राजा॑न॒मोष॑धीष्व॒फ्सु । ता अ॒स्मभ्यं॒ मधु॑मतीर् भवन्तु व॒यꣳ रा॒ष्ट्रे जा᳚ग्रियाम पु॒रोहि॑ताः । वाज॑स्ये॒दं प्र॑स॒व आ ब॑भूवे॒मा च॒ विश्वा॒ भुव॑नानि स॒र्वतः॑ । स वि॒राजं॒ पर्ये॑ति प्रजा॒नन् प्र॒जां पुष्टिं॑ ॅव॒र्द्धय॑मानो अ॒स्मे । वाज॑स्ये॒मां प्र॑स॒वः शि॑श्रिये॒ दिव॑मि॒मा च॒ विश्वा॒ भुव॑नानि स॒म्राट् । अदि॑थ्सन्तं दापयतु प्रजा॒नन् र॒यिं - [ ]
पदपाठः (Word-by-word)
वाज॑स्य । इ॒मम् । प्र॒स॒व इति॑ प्र - स॒वः । सु॒षु॒वे॒ । अग्रे᳚ । सोम᳚म् । राजा॑नम् । ओष॑धीषु । अ॒फ्स्वित्य॑प् - सु ॥ ताः । अ॒स्मभ्य॒मित्य॒स्म - भ्य॒म् । मधु॑मती॒रिति॒ मधु॑ - म॒तीः॒ । भ॒व॒न्तु॒ । व॒यम् । रा॒ष्ट्रे । जा॒ग्रि॒या॒म॒ । पु॒रोहि॑ता॒ इति॑ पु॒रः - हि॒ताः॒ ॥ वाज॑स्य । इ॒दम् । प्र॒स॒व इति॑ प्र - स॒वः । एति॑ । ब॒भू॒व॒ । इ॒मा । च॒ । विश्वा᳚ । भुव॑नानि । स॒र्वतः॑ ॥ सः । वि॒राज॒मिति॑ वि - राज᳚म् । परीति॑ । ए॒ति॒ । प्र॒जा॒नन्निति॑ प्र - जा॒नन्न् । प्र॒जामिति॑ प्र - जाम् । पुष्टि᳚म् । व॒द्‌र्धय॑मानः । अ॒स्मे इति॑ ॥ वाज॑स्य । इ॒माम् । प्र॒स॒व इति॑ प्र-स॒वः । शि॒श्रि॒ये॒ । दिव᳚म् । इ॒मा । च॒ । विश्वा᳚ । भुव॑नानि । स॒म्राडिति॑ सं - राट् ॥ अदि॑थ्सन्तम् । दा॒प॒य॒तु॒ । प्र॒जा॒नन्निति॑ प्र - जा॒नन्न् । र॒यिम् ।
पदसंख्या: 50
सायणभाष्यम् (Sayana Commentary)

(अथ प्रथमकाण्डे सप्तमप्रपाठके दशमोऽनुवाकः)।

नवमे यूपारोहणमुक्तं दशमेऽन्नहोमा उच्यन्ते।

कल्पः— “अथास्यैतत्पुरस्तादौदुम्बरे द्रोणे सर्वौषधमाज्येन समुदायुतं भवति तस्यौदुम्बरेण स्त्रुवेणोपघांत सप्तान्नहोमाञ्जुहोति वाजस्येमं प्रसवः सुषुवे अग्रे सोममिति” इति। तत्रेयमृक्प्रथमा-वाजस्येयमिति। वाजस्यान्नस्योत्पादकःपरमेश्वर ओषधीष्वप्सु च सारभूतमिमं सोमं वल्लीरूपं राजानं दीप्तिमन्तं पदार्थमग्रे सृष्ट्यादौ सुषुव उत्पादयामास।ताश्चौषधय आपश्चासस्मदर्थं मधुमतीमाधुर्योपेता भवन्तु। वयमप्यस्मिन्राष्ट्रे पुरोहिता यागानुष्ठानादौ पुरोगामिनो जाग्रियाम जागरूका भूयास्म।

वाजस्येदमिति। वाजस्य प्रसवः परमेश्वर इदमनुष्ठीयमानं कर्मांऽऽबभूव भावितवानुत्पादितवान्। इमानि सर्वाणि भुवानानि सर्वत उत्पादितवान्। स परमेश्वरोऽस्मै अस्मदर्थं प्रजां पुष्टिं च वर्धयमानः प्रजानन्नस्मदाभिप्रायं प्रकर्षेण जानानो विराजं हूयमानमन्नं पर्येति सर्वतः प्राप्नोतु। अन्नं वै विराडिति श्रुतिः।

अथ तृतीया— वाजस्येमामिति। वाजस्य प्रसव ईश्वर इमां दिवमिमानि चान्यानि सर्वाणि भुवनानि शिश्रिय आश्रितवान्। सर्वेषां च भुवनानां राजा भूत्वाऽदित्सन्तं हविर्दातुमनिच्छन्तं मां प्रजानन्मदीयबुद्धिप्रेरणेन हविर्दापंयतु। ततो नोऽस्मभ्यं सर्ववीरां पुत्रभृत्यादयः सर्वे वीरा यस्याःसा सर्ववीरा तादृशीं रयिं धनं च नियच्छतु नियमेन ददातु।

अथ चतुर्थी— अग्ने अच्छेति। हेऽग्न इहास्मिन्कर्मणि नोऽस्माकमच्छाऽऽभिमुख्येन वद हितं कथय। नोऽस्मान्प्रति सुमनाः करुणार्द्रचित्तो भव। हे भुवस्पते भूमिपते नोऽस्मभ्यं प्रकर्षेण यच्छ धनं देहि। यस्मात्त्वमस्मत्स्वामी सन्नोऽस्मभ्यं धनदा असि।

अथ पञ्चमी— प्रणो यच्छत्विति। षड्भिः प्रशब्दैः प्रयच्छत्विति प्रददात्वित्यन्वये सत्येतानि षड् वाक्यानि भवन्ति। अर्यमभगबृहस्पतयो देवेषूत्तमत्वाद्विप्रपरिव्राजकन्यायेन पृथङ्निर्दिश्यन्ते। तेभ्योऽन्ये त्वत्र देवशब्देनोच्यस्ते। ते सर्वे नोऽस्मभ्यं धनं प्रयच्छन्तु। उतापि च सूनृता प्रियवागभिमानिनी देवता या चान्यवाङ्मात्राभिमानिनी देवता ते उभे धनं प्रयच्छताम्।

अथ षष्ठी— अर्यमणमिति। हे ईश्वर पुनरस्मभ्यं दातुं धनस्य दानायार्यमादींश्चोदय प्रेरय। वाक्सरस्वत्योः पूर्वोक्तसूनृतावाचोरिव भेदो द्रष्टव्यः। वाजिनमन्नाधिपतिम्।

अथ सप्तमी— सोममिति — वयं सोमराजादीन्प्रथमतः कर्मारम्भकाननुसृत्य पश्चादारभामहेऽतस्ते सर्वेऽनुगृह्णन्तु।

विधत्ते— “सप्तान्नहोमाञ्जुहोति। सप्त वा अन्नानि। यावन्त्येवान्नानि। तान्येवावरुन्धे। सप्त ग्राम्या ओषधयः। सप्ताऽऽरण्याः। उभयीषामवरुद्ध्यै” (ब्रा. का. १ प्र. ३ अ. ८) इति।

अन्नहेतूनामोषधीनां सप्तत्वात्तत्कार्याणामन्नानामपि सप्तत्वम्। ओषधीनां सप्तत्वमापस्तम्बोऽग्निचयने दर्शयति — “तिलमाषव्रीहियवाः प्रियङ्वणवो गोधूमा वेणुः श्यामाका नीवारा जर्तिलाश्च गवीधुका अरण्यजा मार्कटका विज्ञेया गार्मुतसप्तमाः कुलत्थसप्तमा वा सप्त ग्राम्याः कृष्टे सप्ताऽऽरण्या अकृष्टे” इति।

एकैकस्यान्नस्य पृथगेव होमं विघत्ते—

“अन्नस्यान्नस्य जुहोति। अन्नस्यान्नस्यावरुद्ध्यै” (ब्रा. का. १ प्र. ३ अ. ८) इति।

इमं पक्षमापस्तम्बो दर्शयति — “वाजप्रसवीयं जुहोति सप्त ग्राम्या ओषधयः सप्ताऽऽरण्याः पृथगन्नानि द्रवीकृत्यौदुम्बरेण स्रुवेण वाजस्येमं प्रसवःसुषुव इति ग्राम्याणि हुत्वाऽऽरण्यानि जुहोति” इति।

इदानीं बौधायनाभिमतं सर्वाण्येकीकृत्य होमं विधत्ते— “यद्वाजपेययाज्यनवरूद्धस्याश्र्नीयात् (१)। अवरुद्धेन व्यृध्येत। सर्वस्य समवदाय जुहोति। अनवरद्धस्यावरुद्ध्यै” (ब्रा.का.१ प्र.३ अ. ८) इति।

होमकाले यदन्नमवरुद्धं स्वीकृतं तदुपेक्ष्य यदस्वीकृतं वाजपेययाजी कालान्तरेऽश्र्नीयात्तदानीमुपेक्षितेन यागकालीनेनान्नेनासौ वियुक्तो भवेत्। अतः सर्वमेकीकृत्य होमे सर्वस्यापि यागकाले स्वीकृतत्वेन दोषापादकमस्वीकृतं किंचिन्न भवेत्।अतोऽस्वीकृतस्य सर्वस्यापि यागकाले स्वीकाराय मिलित्वा होम इत्यर्थः।

होमे साधनविशेषं विधत्ते— “औदुम्बरेण स्त्रुवेण जूहोति। र्उर्ग्वा अन्नमुदुम्बरः। र्उर्ज

एवान्नाद्यस्यावरुद्ध्यै” (ब्रा. का. १ प्र. ३ अ. ८) इति।

र्उर्ग्वा अन्नं बलप्रदमेवान्नमत एव देशविशेषे बह्वद्यते।

देवस्य त्वेति। कल्पः— “अथ यजमानायतने कृष्णाजिनं प्राचीनग्रीवमुत्तरलोमाऽऽस्तृणाति तद्यजमानं प्राञ्चमुपवेश्य सुवर्णरजताभ्यां रुक्माभ्यां पर्युपास्य पुरस्तात्प्रत्यञ्चमाभिषिञ्चति शीर्षतोऽभिषिञ्चत्यामुखादन्ववस्त्रावयति देवस्य त्वा सवितुः प्रसवेऽश्विनोर्बाहुभ्यां पूष्णो हस्ताभ्या सरस्वत्यै वाचो यन्तुर्यन्त्रेणानग्नेस्त्वा साम्राज्येनाभिषिञ्चामीन्द्रस्य त्वा बृहस्पतेस्त्वा साम्राज्येनाभिषिञ्चामीति” इति।

अत्रेन्द्रस्येत्यस्मिन्मध्यममन्त्रेऽनुषङ्गसूचनायानाम्नातोऽपि त्वाशब्दः सूत्रकारेण पठितः। देवस्य त्वेत्यादिर्व्याख्यातः। या सरस्वती वाग्विशेषदेवता या च वाक्शब्दाभिहिता वाक्सामान्यदेवता याश्चान्तर्यामी यन्तृशब्दवाच्यो योऽप्याग्निस्तेजःप्रदस्तेषां यन्त्रेण नियमनेनानुज्ञया साम्राज्यनिमित्तं त्वामभिषिञ्चामि। इन्द्रस्येत्येतावानेवाऽऽम्नातो द्वितीयो मन्त्रः। स च पृर्वोत्तरभागयोरनुषङ्गेण व्याख्यातव्यः। बृहस्पतेरित्यादौ तृतीयमन्त्रे पूर्वभागोऽनुषञ्जनीयः।

देवस्य त्वेत्येतस्मिन्मन्त्रभागे प्रसवपदाभिप्रायमाह— “देवस्य त्वा सवितुः प्रसव इत्याह। सवितृप्रसूत एवैनं ब्रम्हणा देवताभिरभिषिञ्चति” (ब्रा. का. १ प्र. ३ अ. ८) इति।

ब्रम्हणा मन्त्रेण प्रतिपाद्याभिरिति शेषः।

सर्वौषधिरन्नमभिषेकद्रव्यत्वेन विधत्ते— “अन्नस्यान्नस्याभिषिञ्चति। अन्नस्यान्नस्यावरद्ध्यै (२)” (ब्रा. का. १ प्र. ३ अ. ८) इति।

प्रकारविशेषं विधत्ते— “पुरस्तात्प्रत्यञ्चमभिषिञ्चति। पुरस्ताद्धि प्रतीचीनमन्नमद्यते। शीर्षतोऽभिषिञ्चति। शीर्षतो अन्नमद्यते” (ब्रा. का. १ प्र. ३ अ. ८) इति।

आसपुटाघातविषवाक्यवद्व्याख्येयम्।

गुणान्तरं विधत्ते— “आमुखादन्ववस्त्रावयति। मुखत एवास्मा अन्नाद्यं दधाति” [ब्रा. का. १ प्र. ३ अ. ८] इति।

शिरस आरभ्याऽऽनुलोभ्येन मुखपर्यन्तमेवावस्त्रावयेन्न त्वधः।

मन्त्रेष्वग्नीन्द्रबृहस्पतिशब्दतात्पर्यं व्याचष्टे— “अग्नेस्त्वा साम्राज्येनाभिषिञ्चामीत्याह। एष वा अग्नेः सवः। तेनैवैनमभिषिञ्चति। इन्द्रस्य त्वा साम्राज्येनाभिषिञ्चामीत्याह (३)। इन्द्रियमेवास्मिन्नेतेन दधाति। बृहस्पतेस्वा साम्राज्येनाभिषिञ्चामीत्याह। ब्रम्ह वै देवानां बृहस्पतिः। ब्रम्हणेवैनमाभिषिञ्चति” [ब्रा. का. १ प्र. ३ अ. ७] इति।

एष ओषाविरसोऽग्नेः सवोऽग्निना प्रेरितः। अतोऽग्निशब्दमुच्चारयन्नाग्निसंबन्धेन तेनैव रसेनाभिषिञ्चति। एष वा इन्द्रस्य सवो बृहस्पतेः सव इत्यनुसंधेयम्।

विधत्ते — “सोमग्रहाश्चावदानीयानि चर्त्विग्भ्य उपहरन्ति। अमुमेव तैर्लोकमन्नवन्तं करोति। सुराग्रहाश्चानवदानीयानि च वाजसृद्भ्यः। इममेव तैर्लोकमन्नवन्तं करोति। अथो उभयीष्वेवाभिषिच्यते” (ब्रा. का. १ प्र. ३अ. ८) इति।

पशोर्यान्यवदानीयानि हृदयादीनि। हृदयस्याग्रेऽवद्यतीत्योदिश्रुतेः। तानीडायामवत्तानि सोमग्रहांश्चर्त्विग्भ्यः प्रयच्छेत्। शिरआदीन्यनवदानीयानि। न शीर्ष्णोऽवद्यति नांसयोरित्यादिश्रुतेः। तानि सुराग्रहांश्च वाजसृद्भ्यो रथान्तरैः षोडशभिराजिधावनं कृतवद्भ्यो वैश्येभ्यः प्रयच्छेत्। एवं सत्युभयीषु दैवीषु मानुषीषु च प्रजास्वयमभिषिक्तो भवति।

विधत्ते — “विमाथं कुर्वते वाजसृतः (४)। इन्द्रियस्यावरुद्ध्यै” (ब्रा. का.१ प्र. ३ अ.८) इति।

विशेषेण मथनमालोडनं कलहो विमाथः। पानवश्यनटनायाभिनयं विमाथं कुर्युः।

सवनत्रये स्तोत्रेषु ऋग्विशेषं विधत्ते — “अनिरुक्ताभिः प्रातःसवने स्तुवते। अनिरुक्तः प्रजापतिः। प्रजापतेराप्त्यै। वाजवतीभिर्माध्यंदिने। अन्नं वै वाजः। अन्नमेवावरुन्धे। शिपिविष्टवतीभिस्तृतीयसवने। यज्ञो वै विष्णुः। पशवः शिपिः। यज्ञ एव पशुषु प्रतितिष्ठति” (ब्रा. का. १ प्र.३ अ. ८) इति।

अनिरुक्ताभिव्यक्तदेवताकाभिग्भिः। साकल्येन तन्महिम्नो वक्तुमशक्यत्वात्प्रजापतिरनिरुक्तः। वाजशब्दोपेता ऋचो वाजवत्यः। शिपिविष्टशब्दोपेताश्चर्चः शिपिविष्टवत्यस्ताः सर्वाः सामवेदे द्रष्टव्याः। विष्टशब्दो विष्णुपर्यायः सन्नत्र फलव्यापिनं यज्ञमाचष्टे। शिपिशब्दः पशुवाची। अतः शिपिविष्टवतीभिग्भिर्यज्ञे पशुषु च प्रतितिष्ठत्येव।

सामविशेषं विधत्ते — “बृहदन्त्यं भवति। अन्तमेवैन श्रियै गमयति (५)” (ब्रा. का. १ प्र. ३ अ. ८) इति।

अन्तिमस्य स्तोत्रस्य यदन्त्यं साम तद्बृहाद्गायेत्। तेन गानेनैनं यजमानं श्रियै संपत्सिद्धये यज्ञस्यान्तं समाप्तिं प्रापितवान्भवति।

अत्र विनियोगसंग्रहः — “वाजसप्तभिरन्नस्य होमो देवयजुस्त्रयात्।

अभिषिञ्चेत्स्वामिनं तं दश मन्त्रा इहोदिताः ॥१॥” इति

इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीयतैत्तिरीयसंहिताभाष्ये प्रथमकाण्डे सप्तमप्रपाठके दशमोऽनुवाकः ॥१०॥
भट्टभास्करभाष्यम् (Bhatta Bhaskara Commentary)
1 सप्त वाजप्रसवीयान् जुहोति - वाजस्येति ॥ तत्राद्यास्तिस्रस्त्रिष्टुभः, अन्त्या अनुष्टुभः । वाजस्यान्नस्य प्रसव उत्पत्तिः, उत्पत्तिहेतुर्वा इदं कर्म, देवो वा सविता । इमं सोमं राजानं ओषधीष्वप्सु च सुषुवे उदपीपदत् आधिपत्येन तासु प्रवर्तयामास । अग्रे प्रथममेव ताः तादृश्यः सोमसम्बन्धा ओषधयः आपश्च अस्मभ्यमस्मदर्थं मधुमतीः मधुमत्यः मुधुरसवत्यो वा भवन्तु । 'वा छन्दसि' इति पूर्वसवर्णदीर्घत्वम् । वयं च तद्वत्तया राष्ट्रे जाग्रियाम प्रबुध्येमहि अप्रमत्ता भवेम । 'छन्दस्युभयथा ' इत्युभयभावात् 'रिङ्शयग्लिङ्क्षु' सलोपश्च । पुरोहिता धर्मकार्येष्वग्रतः कृताः प्रधानभूता इत्यर्थः । 'पुरोव्ययम्' इति गतित्वात् 'गतिरनन्तरः' इति पूर्वपदपकृतिस्वरत्वम् ॥
2 अथ द्वितीया - वाजस्य प्रसवः प्रसवहेतुः इदं कर्म आ बभूव उदपादि । अनन्तरं चेमानि विश्वानि भुवनानि भूतजातान्या बभूवुः । सर्वतः सर्वेण प्रकारेण । 'शेश्छन्दसि' इति शेर्लोपः । स वाजस्य प्रसवः अन्नं वा कर्म वा विराजं प्रजापति कर्मपक्षे अन्नं पर्येति प्राप्नोति । प्रजानन् प्रजानन्निव मयैतत्कर्तव्यमिति विद्वानिव प्रजां पुष्टिञ्च वर्धयमानः वर्धयितुम् । हेतौ शानच्, अदुपदेशाल्लसार्वधातुकानुदात्तत्वे धातुस्वरः । अस्मे अस्माकं अस्मदर्थम् । 'सुपां सुलुक्' इति शे आदेशः, उदात्तनिवृत्तिस्वरेण तस्योदात्तत्वम् ॥
3 अथ तृतीया - वाजस्य प्रसवो यथोक्तस्वरूपः इमां दिवं पृथिवीम् । त्रिष्वपि लोकेषु दिव्शब्दो वर्तते । यथा 'तृतीयस्यामितो दिवि' इति । शिश्रिये श्रितवान् इमं लोकं धारयितुम् । अनेन हीहत्यानां स्थितिर्भवति कर्मणा वा वृष्ट्यादिद्वारेण तत इमानि विश्वानि भुवनानि सप्रसवश्शिश्रिये । अन्नेन हि कर्मणा वृष्ट्यादिद्वारेण विश्वेषां भुवनानां स्थितिर्भवति यथा 'तस्मादीतः प्रदानं देवा उप जविन्ति' इति । सम्राट् संहतदीप्तिः नोस्मभ्यं अदित्सन्तं दातुमनिच्छन्तं दापयतु । यो हि दित्सन् भवति स हि स्वयमेव ददाति । प्रजानन् प्रज्ञावानिव अस्मद्विषये प्रवर्तताम् । किञ्च - रयिं धनं च सर्ववीरपुरुषान् नियच्छतु नियमयतु ददातु अस्मासु स्थापयतु वा ॥
4 अथ चतुर्थी - अग्न इति ॥ हे अग्ने इहास्मिन् कर्मणि नोस्मान् अस्माकं वा इहास्मिन् कर्मणि अच्छवद आभिमुख्येन वद अस्मद्धितं ब्रूहि । किश्च - नोस्मान् प्रति सुमनाः कल्याणमतिश्च भव मनसा च अस्मद्धितमनुचिन्तयेत्यर्थः । किं वः क्रियतामिति चेत् ; नोस्मभ्यं प्रयच्छ देहि धनमिति गम्यते ; 'धनदा असि' इति वक्ष्यमाणत्वात् । 'उपसर्गाद्बहुलम्' इति नसो णत्वम् । भुवस्पते पृथिव्याः पते । 'षष्ठ्य्वाः पतिपुत्र' इति सत्वम् । धनदाः धनस्य दाता धनं दातुं समर्थः त्वमस्माकमसि । तस्माद्देहीति ॥
5 अथ पञ्चमी - प्र ण इति ॥ नः अस्मभ्यमर्यमा प्रयच्छतु यावद्दातव्यं तत्सर्वं ददातु भगश्च, बृहस्पतिश्च देवाश्च । उत अपि च सूनृता प्रियवाक् यज्ञः वाग्देवी सरस्वती च प्रददातु अस्मभ्यम् । बृहस्पतिशब्दे सुट्स्वरावुक्तौ । शोभना च ऋता च सूनृता पृषोदरादिः ॥
6 षष्ठी - अर्यमणमिति ॥ हे अग्ने दानाय चोदय अभिमतानि दापय । वाग्ग्रहणं सरस्वतीविशेषणं नदीनिवृत्त्यर्थम् । सवितृविशेषणं वाजिग्रहणम् ॥
7 सप्तमी - सोममिति ॥ सोमादीनग्निं च त्वामन्वारभामहे . यूयमेव प्रथमं कर्म आरभध्वम्, अभिमतप्रदत्वात् ; वयन्तु युष्मानन्वारभामहे । यद्वा - अन्वारम्भणमवलम्बनम् । अस्मिन् कर्मणि सोमादीनेवावलम्बामह इति । यद्वा - अन्वारम्भणं पश्चादरम्भणम्, रभिश्च याच्ञायाम् । युष्मद्दानानन्तरं पुनःपुनर्युष्मानेव वयं याचामहे, नान्यान्याचिष्महीति । आदित्यानप्येवमिति ॥
8 -10अभिषेकमन्त्राः - देवस्येत्यादयः ॥ सावित्रो व्याख्यातः ।

सवितुर्देवस्यानुज्ञाने अश्विनोरेव बाहुभ्यां पूष्ण एव हस्ताभ्याम् । न त्वात्मीयाभ्यामिति । सरस्वत्यै सरस्वत्याः । षष्ठ्यर्थे चतुर्थी ॥ सरस्वत्या वाचस्सम्बन्धिना यन्तुर्यन्त्रेण यन्तुरप्यन्यस्य यन्त्रणेन यमनेन । सामान्येन वा विवक्ष्यते, यन्त्र्याः वाचस्सरस्वत्याः यन्त्रणेन अग्नेश्च साम्राज्येन त्वामभिषिञ्चामि । सङ्गतं राजतीति सम्राट्, 'मो राजि समः क्वौ', 'गुणवचनब्राह्मणादिभ्यः' इति ष्यञ् । एवं 'इन्द्रस्य त्वा साम्राज्येन' 'बृहस्पतेस्त्वा साम्राज्येन', इत्येतौ गतौ ॥

इति सप्तमे दशमोनुवाकः ॥
पञ्चशत् 2 #
TS 1.7.10.2 TS 1.7.10.2
च॑ नः॒ सर्व॑वीरां॒ नि य॑च्छतु ॥ अग्ने॒ अच्छा॑ वदे॒ह नः॒ प्रति॑ नः सु॒मना॑ भव । प्र णो॑ यच्छ भुवस्पते धन॒दा अ॑सि न॒स्त्वं ॥ प्र णो॑ यच्छत्वर्य॒मा प्र भगः॒ प्र बृह॒स्पतिः॑ । प्र दे॒वाः प्रोत सू॒नृता॒ प्र वाग् दे॒वी द॑दातु नः ॥ अ॒र्य॒मणं॒ बृह॒स्पति॒मिन्द्रं॒ दाना॑य चोदय । वाचं॒ ॅविष्णुꣳ॒॒ सर॑स्वतीꣳ सवि॒तारं॑ - [ ]
पदपाठः (Word-by-word)
च॒ । नः॒ । सर्व॑वीरा॒मिति॒ सर्व॑ - वी॒रा॒म् । नीति॑ । य॒च्छ॒तु॒ ॥ अग्ने᳚ । अच्छ॑ । व॒द॒ । इ॒ह । नः॒ । प्रतीति॑ । नः॒ । सु॒मना॒ इति॑ सु - मनाः᳚ । भ॒व॒ ॥ प्रेति॑ । नः॒ । य॒च्छ॒ । भु॒वः॒ । प॒ते॒ । ध॒न॒दा इति॑ धन - दाः । अ॒सि॒ । नः॒ । त्वम् ॥ प्रेति॑ । नः॒ । य॒च्छ॒तु॒ । अ॒र्य॒मा । प्रेति॑ । भगः॑ । प्रेति॑ । बृह॒स्पतिः॑ ॥ प्रेति॑ । दे॒वाः । प्रेति॑ । उ॒त । सू॒नृता᳚ । प्रेति॑ । वाक् । दे॒वी । द॒दा॒तु॒ । नः॒ ॥ अ॒र्य॒मण᳚म् । बृह॒स्पति᳚म् । इन्द्र᳚म् । दाना॑य । चो॒द॒य॒ ॥ वाच᳚म् । विष्णु᳚म् । सर॑स्वतीम् । स॒वि॒तार᳚म् ।
पदसंख्या: 50
पञ्चशत् 3 #
TS 1.7.10.3 TS 1.7.10.3
च वा॒जिनं᳚ ॥ सोमꣳ॒॒ राजा॑नं॒ ॅवरु॑णम॒ग्नि-म॒न्वार॑भामहे । आ॒दि॒त्यान् विष्णुꣳ॒॒ सूर्यं॑ ब्र॒ह्माणं॑ च॒ बृह॒स्पतिं᳚ ॥ दे॒वस्य॑ त्वा सवि॒तुः प्र॑स॒वे᳚ऽश्विनो᳚र् बा॒हुभ्यां᳚ पू॒ष्णो हस्ता᳚भ्याꣳ॒॒ सर॑स्वत्यै वा॒चो य॒न्तुर् य॒न्त्रेणा॒ग्नेस्त्वा॒ आम्रा᳚ज्येना॒भिषि॑ञ्चा॒मीन्द्र॑स्य॒ बृह॒स्पते᳚स्त्वा॒ साम्रा᳚ज्येना॒भिषि॑ञ्चामि ॥
पदपाठः (Word-by-word)
च॒ । वा॒जिन᳚म् ॥ सोम᳚म् । राजा॑नम् । वरु॑णम् । अ॒ग्निम् । अ॒न्वार॑भामह॒ इत्य॑नु - आर॑भामहे ॥ आ॒दि॒त्यान् । विष्णु᳚म् । सूर्य᳚म् । ब्र॒ह्माण᳚म् । च॒ । बृह॒स्पति᳚म् ॥ दे॒वस्य॑ । त्वा॒ । स॒वि॒तुः । प्र॒स॒व इति॑ प्र - स॒वे । अ॒श्विनोः᳚ । बा॒हुभ्या॒मिति॑ बा॒हु - भ्या॒म् । पू॒ष्णः । हस्ता᳚भ्याम् । सर॑स्वत्यै । वा॒चः । य॒न्तुः । य॒न्त्रेण॑ । अ॒ग्नेः । त्वा॒ । साम्रा᳚ज्ये॒नेति॒ सां - रा॒ज्ये॒न॒ । अ॒भीति॑ । सि॒ञ्चा॒मि॒ । इन्द्र॑स्य । बृह॒स्पतेः᳚ । त्वा॒ । साम्रा᳚ज्ये॒नेति॒ सां - रा॒ज्ये॒न॒ । अ॒भीति॑ । सि॒ञ्चा॒मि॒ ॥
पदसंख्या: 36