पदपाठः (Word-by-word)
सायणभाष्यम् (Sayana Commentary)
(अथ प्रथमकाण्डे सप्तमप्रपाठके द्वितीयोऽनुवाकः) ।
इडाद्यनुमन्त्रणमन्त्राः प्रथमे व्याख्याताः । तामिडां द्वितीये द्वयोर्मुन्योः प्रश्नोत्तराभ्यां प्रशंसति । तत्र प्रश्नमवतारयति -
सश्रवा इति । संश्रवा इत्यृषेर्नामधेयम् । स च सुवर्चनसः पुत्रः । तुमिञ्ज इत्यृष्यन्तरस्य नामधेयम् । स चोपोदितस्य पुत्रः ।
संश्रवसः प्रश्नं दर्शयति - यत्सत्रिणामिति । यद्यदा, तदेत्यध्याहारः । कां किंगुणकाम् ।
तामुपाह्व इति । प्राणादिवृत्तिभिरिडाया देवादिधारणमुत्तरत्र स्पष्टीकरिष्यते । तां देवादिधारणगुणकामिडामुपहूतवानस्मि ।
पुनः प्रश्नं दर्शयति - छिनत्तीति । त्वयोपहूता सेयमिडा गोरूपा सती दक्षिणात्वेन प्रतिग्रहीतॄन्किं छिनत्ति प्रतिग्रहदोषेण विनाशयत्यथवा न च्छिनत्तीति विचारार्थः प्लुतः ।
उत्तरं दर्शयति - छिनत्तीति ।
एवं तर्हि नेवं मुख्येडेति प्रश्नवादिनोक्तं दूषणं दर्शयति - शरीरमिति । अस्या इडादेवतायाः शरीरमेव त्वयोपहूतं न तु सा देवता ।
इदानीमाख्यायिकातोऽपसृत्य श्रुतिः स्वयमेवाऽऽह गौर्वा इति । गौरेवास्या इडायाः शरीरम् । एतच्च मानवी घृतपदी मैत्रावरुणीत्येतस्य हौत्रस्येडोपाह्वानमन्त्रस्य ब्राह्मणे मनुः पृथिव्या इत्याद्यनुवाके प्रसिद्धम् । अत इडायाः शरीरभूतां गामेव ज्ञातवन्तौ तदानीं छिनत्तीत्येतादृशाभ्यां प्रश्नोत्तराभ्यामनिन्दताम् ।
इदानीं देवादिधारणं स्पष्टीकरोति - या यज्ञ इति । यज्ञे दक्षिणारूपेण दत्तया गवा देवास्तूष्णीमेव तुष्यन्ति न तु तां दुहन्ति नापि घ्नन्ति । अतः प्राणेन प्रकृष्टचेष्टयोत्तमया वृत्त्या देवान्धारयति । मनुष्यास्तु गां दुग्ध्वा जीवन्ति, तदा नात्यन्तमहानि । क्षीरस्य हीनत्वात् । नाप्यत्यन्तं हानिः । शरीरस्य वधाभावात् । अतः प्राणापानमध्यवर्तिन्या व्यानसमानया मध्यमवृत्त्या मनुष्यान्धारयति । अष्टकाश्राद्धे गां पितृभ्यो घ्नन्ति । तथा चाऽऽपस्तम्बः — “श्वोभूते दर्भेण गामुपाकरोति पितृभ्यस्त्वा जुष्टामुपाकरोमि” इति । सेयं गौरपानेनाधमवृत्त्या मारणरूपया पितॄन्धारयति ।
उक्तस्य देवादिधारणस्य वेदनं प्रशंसति - अथ तुमिञ्जः स्वेनोपहूताया इडाया मुख्यत्वं संपादयितुं गुणान्तरेणेडां विशिनष्टीति दर्शयति -
अथ वेति । पक्षान्तरद्योतनायाथ वा इति पदद्वयम् । येयमिडा प्रभुत्वोपेताः प्रजाः प्रत्याभिमुख्येन वर्तते तादृशीमिडामुपहूतवानस्मि ।
संश्रवा एतस्या अपीडाया मुख्यत्वं वारयतीति दर्शयति - अन्नं वा इति । अस्या इडायाः संबन्धि यदन्नं तदेवोपहूतवानसि न तु मुख्यामिडाम् ।
तदेतद्वेद उपपादयति - ओषधय इति । ओषधीनां गवामन्नत्वं प्रसिद्धम् । प्रभुत्वोपेतानां च प्रजानां गृहेषु बहुजनभोजनाय व्रीह्याद्योषधय आगत्य वर्तन्ते ।
एतद्वेदनं प्रशंसति - य एवमिति ।
पुनरपि तुमिञ्जस्य गुणान्तरोक्तिमिडाया मुख्यत्वसंपादिकामुदाहरति - अथवा इति । येयमिडा व्याध्यादिभिः पराभूयमानाः प्रजाः स्वस्यामवस्थाप्यानुगृह्णाति, पराभूयमानाः प्रजास्तत्तदपेक्षितस्थानप्रदानेन स्वीकरोति ।
अस्या अपीडाया मुख्यत्वनिराकरणोक्तिं दर्शयति - प्रतिष्ठामिति । प्रतितिष्ठत्यस्यामिडा गोरूपेति प्रतिष्ठा भूमिस्तामेवोपहूतवानसि न मुख्यामिडाम् ।
तदेतद्वेद उपपादयति - इयं वा इति ।
वेदनं प्रशंसति - य एवमिति ।
मुख्यत्वसंपादनाय गुणान्तरोक्तिं दर्शयति - अथ वा इति । यस्या वृष्टिरूपाया इडाया निष्क्रमणे न्यग्भावेन पतने सति यद्घृतं क्षरदुदकं तज्जीवनार्थिन्यः प्रजा उपजीवन्ति तादृशीमिडामुपहूतवानस्मि ।
संश्रवा अस्यामिडायां पूर्ववद्दोषाभावौ पृच्छति - छिनत्तीति । वृष्टेर्गवान्नभूमीनामिव प्रतिग्राह्यद्रव्यत्वाभावात्तुमिञ्जस्य प्रतिग्राह्यदोषाभावोक्तिं गुणान्तरोक्तिं च दर्शयति -
न छिनत्तीति । वृष्टिरूपेयमिडा कमपि पुरुषं न च्छिनत्ति न दूषयति किंतु प्रकर्षेण सस्यादिकं जनयति ।
एष वा इति । एष वृष्टिरूपेडावादी त्वमेव मुख्यामिडामुपहूतवानसि ।
एतस्यामुक्तायामिडायां पूर्वोक्तलक्षणं वेदो दर्शयति - वृष्ठिर्वा इति । तदेवमस्मिन्ननुवाके सर्वप्राण्युपकारिभिर्गवान्नभूमिवृष्टिरूपैरियमिडा प्रशस्ता ॥