अनुवाकः 2 TS 1.7.2

(A2)

(गौर्वा-अ॑स्यै॒ तत्-प्र॑ति॒ष्ठा-ऽह्व॑था॒ इति॑-विꣳश॒तिश्च॑)

अनुवाकः 2 - Complete Audio

TS 1.7.2 - स्वरानुगामी

0:00 0:00
PS1.1 सꣳश्र॑वा ह सौवर्चन॒सः तुमि॑ञ्ज॒मौपो॑दिति-मुवाच॒
PS1.2 यथ्स॒त्रिणाꣳ॒॒ होताऽभूः॒ कामिडा॒मुपा᳚ह्वथा॒ इति॒
PS1.3 तामुपा᳚ह्व॒ इति॑ होवाच॒ या
PS1.4 प्रा॒णेन॑ दे॒वान् दा॒धार॑ व्या॒नेन॑
PS1.5 मनु॒ष्या॑नपा॒नेन॑ पि॒तृनिति॑ छि॒नत्ति॒ सा
PS1.6 न छि॑न॒त्ती(3) इति॑ छि॒नत्तीति॑
PS1.7 होवाच॒ शरी॑रं॒ ॅवा अ॑स्यै॒
PS1.8 तदुपा᳚ह्वथा॒ इति॑ होवाच॒ गौर्वा
PS1.9 - [ ]
PS2.1 अ॑स्यै॒ शरी॑रं॒ गां ॅवाव
PS2.2 तौ तत् पर्य॑वदतां॒ ॅया
PS2.3 य॒ज्ञे दी॒यते॒ सा प्रा॒णेन॑
PS2.4 दे॒वान् दा॑धार॒ यया॑ मनु॒ष्या॑
PS2.5 जीव॑न्ति॒ सा व्या॒नेन॑ मनु॒ष्यान्॑
PS2.6 यां पि॒तृभ्यो॒ घ्नन्ति॒ साऽपा॒नेन॑
PS2.7 पि॒तॄन्. य ए॒वं ॅवेद॑
PS2.8 पशु॒मान् भ॑व॒त्यथ॒ वै तामुपा᳚ह्व॒
PS2.9 इति॑ होवाच॒ या प्र॒जाः
PS2.10 प्र॒भव॑न्तीः॒ प्रत्या॒भव॒तीत्यन्नं॒ ॅवा अ॑स्यै॒
PS2.11 तदु - [ ]
PS3.1 पा᳚ह्वथा॒ इति॑ होवा॒चौष॑धयो॒ वा
PS3.2 अ॑स्या॒ अन्न॒मोष॑धयो॒ वै प्र॒जाः
PS3.3 प्र॒भव॑न्तीः॒ प्रत्या भ॑वन्ति॒ य
PS3.4 ए॒वं ॅवेदा᳚न्ना॒दो भ॑व॒त्यथ॒ वै
PS3.5 तामुपा᳚ह्व॒ इति॑ होवाच॒ या
PS3.6 प्र॒जाः प॑रा॒भव॑न्ती-रनुगृ॒ह्णाति॒ प्रत्या॒भव॑न्तीर् गृ॒ह्णातीति॑
PS3.7 प्रति॒ष्ठां ॅवा अ॑स्यै॒ तदुपा᳚ह्वथा॒
PS3.8 इति॑ होवाचे॒यं ॅवा अ॑स्यै
PS3.9 प्रति॒ष्ठे - [ ]
PS4.1 यं ॅवै प्र॒जाः प॑रा॒भव॑न्ती॒रनु॑
PS4.2 गृह्णाति॒ प्रत्या॒भव॑न्तीर् गृह्णाति॒ य
PS4.3 ए॒वं ॅवेद॒ प्रत्ये॒व ति॑ष्ठ॒त्यथ॒
PS4.4 वै तामुपा᳚ह्व॒ इति॑ होवाच॒
PS4.5 यस्यै॑ नि॒क्रम॑णे घृ॒तं प्र॒जाः
PS4.6 स॒ञ्ज॑007आ;व॑न्तीः॒ पिब॒न्तीति॑ छि॒नत्ति॒ सा
PS4.7 न छि॑न॒त्ती (3) इति॒
PS4.8 न छि॑न॒त्तीति॑ होवाच॒ प्र
PS4.9 तु ज॑नय॒तीत्ये॒ष वा इडा॒मुपा᳚ह्वथा॒
PS4.10 इति॑ ( ) होवाच॒
PS4.11 वृष्टि॒र्॒.वा इडा॒ वृष्ट्यै॒ वै
PS4.12 नि॒क्रम॑णे घृ॒तं प्र॒जाः स॒ञ्ज॑007आ;व॑न्तीः
PS4.13 पिबन्ति॒ य ए॒वं ॅवेद॒
PS4.14 प्रैव जा॑यतेऽन्ना॒दो भ॑वति

Report Timing Issue

Report timing issue for this location?

पञ्चशत् 1 #
TS 1.7.2.1 TS 1.7.2.1
सꣳश्र॑वा ह सौवर्चन॒सः तुमि॑ञ्ज॒मौपो॑दिति-मुवाच॒ यथ्स॒त्रिणाꣳ॒॒ होताऽभूः॒ कामिडा॒मुपा᳚ह्वथा॒ इति॒ तामुपा᳚ह्व॒ इति॑ होवाच॒ या प्रा॒णेन॑ दे॒वान् दा॒धार॑ व्या॒नेन॑ मनु॒ष्या॑नपा॒नेन॑ पि॒तृनिति॑ छि॒नत्ति॒ सा न छि॑न॒त्ती(3) इति॑ छि॒नत्तीति॑ होवाच॒ शरी॑रं॒ ॅवा अ॑स्यै॒ तदुपा᳚ह्वथा॒ इति॑ होवाच॒ गौर्वा - [ ]
पदपाठः (Word-by-word)
सꣳश्र॑वा॒ इति॒ सं - श्र॒वाः॒ । ह॒ । सौ॒व॒र्च॒न॒सः । तुमि॑ञ्जम् । औपो॑दिति॒मित्यौप॑ - उ॒दि॒ति॒म् । उ॒वा॒च॒ । यत् । स॒त्रिणा᳚म् । होता᳚ । अभूः᳚ । काम् । इडा᳚म् । उपेति॑ । अ॒ह्व॒थाः॒ । इति॑ । ताम् । उपेति॑ । अ॒ह्वे॒ । इति॑ । ह॒ । उ॒वा॒च॒ । या । प्रा॒णेनेति॑ प्र - अ॒नेन॑ । दे॒वान् । दा॒धार॑ । व्या॒नेनेति॑ वि - अ॒नेन॑ । म॒नु॒ष्यान्॑ । अ॒पा॒नेनेत्य॑प-अ॒नेन॑ । पि॒तॄन् । इति॑ । छि॒नत्ति॑ । सा । न । छि॒न॒त्ती(3) । इति॑ । छि॒नत्ति॑ । इति॑ । ह॒ । उ॒वा॒च॒ । शरी॑रम् । वै । अ॒स्यै॒ । तत् । उपेति॑ । अ॒ह्व॒थाः॒ । इति॑ । ह॒ । उ॒वा॒च॒ । गौः । वै ।
पदसंख्या: 50
सायणभाष्यम् (Sayana Commentary)

(अथ प्रथमकाण्डे सप्तमप्रपाठके द्वितीयोऽनुवाकः) ।

इडाद्यनुमन्त्रणमन्त्राः प्रथमे व्याख्याताः । तामिडां द्वितीये द्वयोर्मुन्योः प्रश्नोत्तराभ्यां प्रशंसति । तत्र प्रश्नमवतारयति -

सश्रवा इति । संश्रवा इत्यृषेर्नामधेयम् । स च सुवर्चनसः पुत्रः । तुमिञ्ज इत्यृष्यन्तरस्य नामधेयम् । स चोपोदितस्य पुत्रः ।

संश्रवसः प्रश्नं दर्शयति - यत्सत्रिणामिति । यद्यदा, तदेत्यध्याहारः । कां किंगुणकाम् ।

तामुपाह्व इति । प्राणादिवृत्तिभिरिडाया देवादिधारणमुत्तरत्र स्पष्टीकरिष्यते । तां देवादिधारणगुणकामिडामुपहूतवानस्मि ।

पुनः प्रश्नं दर्शयति - छिनत्तीति । त्वयोपहूता सेयमिडा गोरूपा सती दक्षिणात्वेन प्रतिग्रहीतॄन्किं छिनत्ति प्रतिग्रहदोषेण विनाशयत्यथवा न च्छिनत्तीति विचारार्थः प्लुतः ।

उत्तरं दर्शयति - छिनत्तीति ।

एवं तर्हि नेवं मुख्येडेति प्रश्नवादिनोक्तं दूषणं दर्शयति - शरीरमिति । अस्या इडादेवतायाः शरीरमेव त्वयोपहूतं न तु सा देवता ।

इदानीमाख्यायिकातोऽपसृत्य श्रुतिः स्वयमेवाऽऽह गौर्वा इति । गौरेवास्या इडायाः शरीरम् । एतच्च मानवी घृतपदी मैत्रावरुणीत्येतस्य हौत्रस्येडोपाह्वानमन्त्रस्य ब्राह्मणे मनुः पृथिव्या इत्याद्यनुवाके प्रसिद्धम् । अत इडायाः शरीरभूतां गामेव ज्ञातवन्तौ तदानीं छिनत्तीत्येतादृशाभ्यां प्रश्नोत्तराभ्यामनिन्दताम् ।

इदानीं देवादिधारणं स्पष्टीकरोति - या यज्ञ इति । यज्ञे दक्षिणारूपेण दत्तया गवा देवास्तूष्णीमेव तुष्यन्ति न तु तां दुहन्ति नापि घ्नन्ति । अतः प्राणेन प्रकृष्टचेष्टयोत्तमया वृत्त्या देवान्धारयति । मनुष्यास्तु गां दुग्ध्वा जीवन्ति, तदा नात्यन्तमहानि । क्षीरस्य हीनत्वात् । नाप्यत्यन्तं हानिः । शरीरस्य वधाभावात् । अतः प्राणापानमध्यवर्तिन्या व्यानसमानया मध्यमवृत्त्या मनुष्यान्धारयति । अष्टकाश्राद्धे गां पितृभ्यो घ्नन्ति । तथा चाऽऽपस्तम्बः — “श्वोभूते दर्भेण गामुपाकरोति पितृभ्यस्त्वा जुष्टामुपाकरोमि” इति । सेयं गौरपानेनाधमवृत्त्या मारणरूपया पितॄन्धारयति ।

उक्तस्य देवादिधारणस्य वेदनं प्रशंसति - अथ तुमिञ्जः स्वेनोपहूताया इडाया मुख्यत्वं संपादयितुं गुणान्तरेणेडां विशिनष्टीति दर्शयति -

अथ वेति । पक्षान्तरद्योतनायाथ वा इति पदद्वयम् । येयमिडा प्रभुत्वोपेताः प्रजाः प्रत्याभिमुख्येन वर्तते तादृशीमिडामुपहूतवानस्मि ।

संश्रवा एतस्या अपीडाया मुख्यत्वं वारयतीति दर्शयति - अन्नं वा इति । अस्या इडायाः संबन्धि यदन्नं तदेवोपहूतवानसि न तु मुख्यामिडाम् ।

तदेतद्वेद उपपादयति - ओषधय इति । ओषधीनां गवामन्नत्वं प्रसिद्धम् । प्रभुत्वोपेतानां च प्रजानां गृहेषु बहुजनभोजनाय व्रीह्याद्योषधय आगत्य वर्तन्ते ।

एतद्वेदनं प्रशंसति - य एवमिति ।

पुनरपि तुमिञ्जस्य गुणान्तरोक्तिमिडाया मुख्यत्वसंपादिकामुदाहरति - अथवा इति । येयमिडा व्याध्यादिभिः पराभूयमानाः प्रजाः स्वस्यामवस्थाप्यानुगृह्णाति, पराभूयमानाः प्रजास्तत्तदपेक्षितस्थानप्रदानेन स्वीकरोति ।

अस्या अपीडाया मुख्यत्वनिराकरणोक्तिं दर्शयति - प्रतिष्ठामिति । प्रतितिष्ठत्यस्यामिडा गोरूपेति प्रतिष्ठा भूमिस्तामेवोपहूतवानसि न मुख्यामिडाम् ।

तदेतद्वेद उपपादयति - इयं वा इति ।

वेदनं प्रशंसति - य एवमिति ।

मुख्यत्वसंपादनाय गुणान्तरोक्तिं दर्शयति - अथ वा इति । यस्या वृष्टिरूपाया इडाया निष्क्रमणे न्यग्भावेन पतने सति यद्घृतं क्षरदुदकं तज्जीवनार्थिन्यः प्रजा उपजीवन्ति तादृशीमिडामुपहूतवानस्मि ।

संश्रवा अस्यामिडायां पूर्ववद्दोषाभावौ पृच्छति - छिनत्तीति । वृष्टेर्गवान्नभूमीनामिव प्रतिग्राह्यद्रव्यत्वाभावात्तुमिञ्जस्य प्रतिग्राह्यदोषाभावोक्तिं गुणान्तरोक्तिं च दर्शयति -

न छिनत्तीति । वृष्टिरूपेयमिडा कमपि पुरुषं न च्छिनत्ति न दूषयति किंतु प्रकर्षेण सस्यादिकं जनयति ।

एष वा इति । एष वृष्टिरूपेडावादी त्वमेव मुख्यामिडामुपहूतवानसि ।

एतस्यामुक्तायामिडायां पूर्वोक्तलक्षणं वेदो दर्शयति - वृष्ठिर्वा इति । तदेवमस्मिन्ननुवाके सर्वप्राण्युपकारिभिर्गवान्नभूमिवृष्टिरूपैरियमिडा प्रशस्ता ॥

इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीयतैत्तिरीयसंहिताभाष्ये प्रथमकाण्डे सप्तमप्रपाठके द्वितीयोऽनुवाकः ॥२॥
भट्टभास्करभाष्यम् (Bhatta Bhaskara Commentary)
1 संश्रवा इत्यादि प्रासङ्गिकं हौत्रम् । सुवर्चनसोपत्यं संश्रवा नाम उपोदितस्यापत्यं तुमिञ्जन्नामोवाच । यदित्यादि । यत् यदा । उपाह्वथाः - 'निसमुपविभ्यो ह्वः' इत्यात्मनेपदम्, 'लिपि सिचि ह्वश्च' इत्यङ् । एवं संश्रवसा पृष्टे तामित्युत्तरमुवाच तुमिञ्जः । येत्यादि ।या प्राणेन उत्तमवृत्त्या दक्षिन्णात्वेन देवान्धारयति, व्यानेन मध्यमवृत्त्या मनुष्योपजीव्यत्वेन मनुष्यान् धारयति, अपानेनाधमवृत्त्या मरणेन पितॄन्धारयति, तादृशीमहमुपाह्वे, सन्ध्या [सेयं] अन्या वास्त्विति ॥
2 अथ संश्रवाः - छिनत्तीत्यादिकम् । प्रतिग्रहादिषु प्रजा अनर्थेन योजयति उत नेति । प्रश्नान्ते प्लुतः । छानदसं तिङ उदात्तत्वम्, विश्वजनादित्वात्तुगभावः । अथ छिनत्तीत्युवाच तुमिञ्जः । समानवाक्ये पदात्परत्वाभावान्न निहन्यते ।सर्वस्य श्रुतस्य पाक्षिकत्वादाख्यातलक्षणप्लुताभावः ॥
3 संश्रवा उवाच - शरीरमित्यादि ॥ किं पुनस्तच्छरीरमित्याकाङ्क्षायां गौर्वा इत्यादि वेदात्मा वदति गोरूपा इडा भवतीति । अथ सः असहमान इवाह - गामित्यादि । तत् तदानीं तौ संश्रवस्तुमिञ्जौ एवं गां पर्यवदतां, अन्यप्रारब्धमन्यत्फलितमिच्छति वेतृ [त्फलितमित्यतिवक्तृ] त्वाभ्युपगमां निन्दा ॥
4 अथ यदुक्तं संश्रवसा अस्याश्शरीरं त्वमुपाह्वथा इति तत्समर्थनार्थं प्राणादिवृत्तिभिर्देवादीनां धारकत्वं वेदात्मैव गौराह – या यज्ञ इत्यादि ॥ तस्मात्सम्यगभिहितं संश्रवसेति । य एवमित्यादि । गतम् ॥
5 अथ तुमिञ्ज उवाच - अथ वैतामित्यादि ॥ लक्षणं चाचष्टे - येत्यादि । या प्रभवन्तीः प्रभुत्ववतीः प्रजाः प्रत्याभवति प्रत्यक्षाभिमुख्येन भजति ॥
6 अथ संश्रवा उवाच - अन्नमित्यादि ॥ तत्समर्थयते वेदात्मा पुरुषः - ओषधय इत्यादि । अस्या 'गोरन्नमोषधयः, ताभिः प्रजाः प्रभवन्त्यो भवन्तीति ॥
7 पुनरपि तुमिञ्ज उवाच - अथेति ॥ लक्षणं च ब्रूते - येत्यादि । या पराभवन्तीः विद्यमानाः प्रजाः अनुगृह्णाति पुष्ट्यादिप्रदानेन धारयति । प्रत्याभवन्तीः आत्मानं भजमानाः प्रजाः गृह्णाति प्रतिष्ठिताः करोतीति ॥
8 अथ संश्रवा उवाच - प्रतिष्ठामित्यादि ॥ तदुपपादयति वेदात्मा - इयमित्यादि ॥
9 अथ तूमिञ्ज उवाच - अथेति ॥ लक्षाणं चाभिधत्ते - यस्यइत्यादि । यस्या निक्रमणे न्यक्पतने सर्वाः प्रजास्सञ्जीवन्त्यः घृतमुदकं पिबन्ति । ब्राह्मणान्तरं च भवति 'सा यत्र यत्र न्यक्रामत्ततो घृतमपीड्यत' इति ॥
10 अथ संश्रवा उवाच - छिनत्तीत्यादि ॥ व्याख्यातम् ॥
11 अथ तुमिञ्जः प्रत्युवाच - न छिनत्ति, अपितु प्रजनयत्येव प्रजा इति ॥
12 अथ संश्रवा उवाच - एष वा इडामित्यादि ॥ एष त्वमिडामुपह्वथाः यस्त्वं घृतपदीमह्वथा इति । तदेतत्समर्थयते वेदात्मा - वृष्टिर्वा इत्यादि । तत्साधनत्वात्ताच्छब्द्यम् । एवं वेदिता होता प्रकरणाद्वा यजमानः वृष्टिलाभेन प्रजावान् भवति अन्नस्य चात्ता ॥
इति सप्तमे द्वितयोनुवाकः ॥
पञ्चशत् 2 #
TS 1.7.2.2 TS 1.7.2.2
अ॑स्यै॒ शरी॑रं॒ गां ॅवाव तौ तत् पर्य॑वदतां॒ ॅया य॒ज्ञे दी॒यते॒ सा प्रा॒णेन॑ दे॒वान् दा॑धार॒ यया॑ मनु॒ष्या॑ जीव॑न्ति॒ सा व्या॒नेन॑ मनु॒ष्यान्॑ यां पि॒तृभ्यो॒ घ्नन्ति॒ साऽपा॒नेन॑ पि॒तॄन्. य ए॒वं ॅवेद॑ पशु॒मान् भ॑व॒त्यथ॒ वै तामुपा᳚ह्व॒ इति॑ होवाच॒ या प्र॒जाः प्र॒भव॑न्तीः॒ प्रत्या॒भव॒तीत्यन्नं॒ ॅवा अ॑स्यै॒ तदु - [ ]
पदपाठः (Word-by-word)
अ॒स्यै॒ । शरी॑रम् । गाम् । वाव । तौ । तत् । परीति॑ । अ॒व॒द॒ता॒म् । या । य॒ज्ञे । दी॒यते᳚ । सा । प्रा॒णेनेति॑ प्र - अ॒नेन॑ । दे॒वान् । दा॒धा॒र॒ । यया᳚ । म॒नु॒ष्याः᳚ । जीव॑न्ति । सा । व्या॒नेनेति॑ वि - अ॒नेन॑ । म॒नु॒ष्यान्॑ । याम् । पि॒तृभ्य॒ इति॑ पि॒तृ - भ्यः॒ । घ्नन्ति॑ । सा । अ॒पा॒नेनेत्य॑प - अ॒नेन॑ । पि॒तॄन् । यः । ए॒वम् । वेद॑ । प॒शु॒मानिति॑ पशु-मान् । भ॒व॒ति॒ । अथ॑ । वै । ताम् । उपेति॑ । अ॒ह्वे॒ । इति॑ । ह॒ । उ॒वा॒च॒ । या । प्र॒जा इति॑ प्र - जाः । प्र॒भव॑न्ती॒रिति॑ प्र - भव॑न्तीः । प्रतीति॑ । आ॒भव॒तीत्या᳚ - भव॑ति । इति॑ । अन्न᳚म् । वै । अ॒स्यै॒ । तत् ।
पदसंख्या: 50
पञ्चशत् 3 #
TS 1.7.2.3 TS 1.7.2.3
पा᳚ह्वथा॒ इति॑ होवा॒चौष॑धयो॒ वा अ॑स्या॒ अन्न॒मोष॑धयो॒ वै प्र॒जाः प्र॒भव॑न्तीः॒ प्रत्या भ॑वन्ति॒ य ए॒वं ॅवेदा᳚न्ना॒दो भ॑व॒त्यथ॒ वै तामुपा᳚ह्व॒ इति॑ होवाच॒ या प्र॒जाः प॑रा॒भव॑न्ती-रनुगृ॒ह्णाति॒ प्रत्या॒भव॑न्तीर् गृ॒ह्णातीति॑ प्रति॒ष्ठां ॅवा अ॑स्यै॒ तदुपा᳚ह्वथा॒ इति॑ होवाचे॒यं ॅवा अ॑स्यै प्रति॒ष्ठे - [ ]
पदपाठः (Word-by-word)
उपेति॑ । अ॒ह्व॒थाः॒ । इति॑ । ह॒ । उ॒वा॒च॒ । ओष॑धयः । वै । अ॒स्याः॒ । अन्न᳚म् । ओष॑धयः । वै । प्र॒जा इति॑ प्र - जाः । प्र॒भव॑न्ती॒रिति॑ प्र - भव॑न्तीः । प्रति॑ । एति॑ । भ॒व॒न्ति॒ । यः । ए॒वम् । वेद॑ । अ॒न्ना॒द इत्य॑न्न - अ॒दः । भ॒व॒ति॒ । अथ॑ । वै । ताम् । उपेति॑ । अ॒ह्वे॒ । इति॑ । ह॒ । उ॒वा॒च॒ । या । प्र॒जा इति॑ प्र - जाः । प॒रा॒भव॑न्ती॒रिति॑ परा - भव॑न्तीः । अ॒नु॒गृ॒ह्णातीत्य॑नु - गृ॒ह्णाति॑ । प्रतीति॑ । आ॒भव॑न्ती॒रित्या᳚ - भव॑न्तीः । गृ॒ह्णाति॑ । इति॑ । प्र॒ति॒ष्ठामिति॑ प्रति - स्थाम् । वै । अ॒स्यै॒ । तत् । उपेति॑ । अ॒ह्व॒थाः॒ । इति॑ । ह॒ । उ॒वा॒च॒ । इ॒यम् । वै । अ॒स्यै॒ । प्र॒ति॒ष्ठेति॑ प्रति - स्था ।
पदसंख्या: 50
पञ्चशत् 4 #
TS 1.7.2.4 TS 1.7.2.4
यं ॅवै प्र॒जाः प॑रा॒भव॑न्ती॒रनु॑ गृह्णाति॒ प्रत्या॒भव॑न्तीर् गृह्णाति॒ य ए॒वं ॅवेद॒ प्रत्ये॒व ति॑ष्ठ॒त्यथ॒ वै तामुपा᳚ह्व॒ इति॑ होवाच॒ यस्यै॑ नि॒क्रम॑णे घृ॒तं प्र॒जाः स॒ञ्ज॑007आ;व॑न्तीः॒ पिब॒न्तीति॑ छि॒नत्ति॒ सा न छि॑न॒त्ती (3) इति॒ न छि॑न॒त्तीति॑ होवाच॒ प्र तु ज॑नय॒तीत्ये॒ष वा इडा॒मुपा᳚ह्वथा॒ इति॑ ( ) होवाच॒ वृष्टि॒र्॒.वा इडा॒ वृष्ट्यै॒ वै नि॒क्रम॑णे घृ॒तं प्र॒जाः स॒ञ्ज॑007आ;व॑न्तीः पिबन्ति॒ य ए॒वं ॅवेद॒ प्रैव जा॑यतेऽन्ना॒दो भ॑वति ॥
पदपाठः (Word-by-word)
इ॒यम् । वै । प्र॒जा इति॑ प्र - जाः । प॒रा॒भव॑न्ती॒रिति॑ परा - भव॑न्तीः । अन्विति॑॑ । गृ॒ह्णा॒ति॒ । प्रतीति॑ । आ॒भव॑न्ती॒रित्या᳚ - भव॑न्तीः । गृ॒ह्णा॒ति॒ । यः । ए॒वम् । वेद॑ । प्रतीति॑ । ए॒व । ति॒ष्ठ॒ति॒ । अथ॑ । वै । ताम् । उपेति॑ । अ॒ह्वे॒ । इति॑ । ह॒ । उ॒वा॒च॒ । यस्यै᳚ । नि॒क्रम॑ण॒ इति॑ नि - क्रम॑णे । घृ॒तम् । प्र॒जा इति॑ प्र - जाः । स॒जींव॑न्ती॒रिति॑ सं - जीव॑न्तीः । पिब॑न्ति । इति॑ । छि॒नत्ति॑ । सा । न । छि॒न॒त्ती(3) । इति॑ । न । छि॒न॒त्ति॒ । इति॑ । ह॒ । उ॒वा॒च॒ । प्रेति॑ । तु । ज॒न॒य॒ति॒ । इति॑ । ए॒षः । वै । इडा᳚म् । उपेति॑ । अ॒ह्व॒थाः॒ । इति॑ ( ) । ह॒ । उ॒वा॒च॒ । वृष्टिः॑ । वै । इडा᳚ । वृष्‌ट्यै᳚ । वै । नि॒क्रम॑ण॒ इति॑ नि - क्रम॑णे । घृ॒तम् । प्र॒जा इति॑ प्र - जाः । स॒जींव॑न्ती॒रिति॑ सं - जीव॑न्तीः । पि॒ब॒न्ति॒ । यः । ए॒वम् । वेद॑ । प्रेति॑ । ए॒व । जा॒य॒ते॒ । अ॒न्ना॒द इत्य॑न्न - अ॒दः । भ॒व॒ति॒ ॥
पदसंख्या: 70