अनुवाकः 5 TS 1.7.5

(A5)

(यज॑माने॒नेति॑-चै॒ तद॑-वभृ॒थो-दिशः॑-स॒प्त च॑)

अनुवाकः 5 - Complete Audio

TS 1.7.5 - स्वरानुगामी

0:00 0:00
PS1.1 ध्रु॒वां ॅवै रिच्य॑मानां ॅय॒ज्ञोऽनु॑
PS1.2 रिच्यते य॒ज्ञ्ं ॅयज॑मानो॒ यज॑मानं
PS1.3 प्र॒जा ध्रु॒वामा॒प्याय॑मानां ॅय॒ज्ञोऽन्वा प्या॑यते
PS1.4 य॒ज्ञ्ं ॅयज॑मानो॒ यज॑मानं प्र॒जा
PS1.5 आ प्या॑यतां ध्रु॒वा घृ॒तेनेत्या॑ह
PS1.6 ध्रु॒वामे॒वा ऽऽ प्या॑ययति॒ तामा॒प्याय॑मानां
PS1.7 ॅय॒ज्ञोऽन्वा प्या॑यते य॒ज्ञ्ं ॅयज॑मानो॒
PS1.8 यज॑मानं प्र॒जाः प्र॒जाप॑तेर् वि॒भान्नाम॑
PS1.9 लो॒कस्तस्मिꣳ॑स्त्वा दधामि स॒ह यज॑माने॒नेत्या॑
PS1.10 - [ ]
PS2.1 हा॒यं ॅवै प्र॒जाप॑तेर् वि॒भान्नाम॑
PS2.2 लो॒कस्तस्मि॑-न्ने॒वैनं॑ दधाति स॒ह यज॑मानेन॒
PS2.3 रिच्य॑त इव॒ वा ए॒तद्-यद्-यज॑ते॒
PS2.4 यद्-य॑जमानभा॒गं प्रा॒श्ञात्या॒त्मान॑मे॒व प्री॑णात्ये॒तावा॒न्॒. वै
PS2.5 य॒ज्ञो यावान्॑. यजमानभा॒गो य॒ज्ञो
PS2.6 यज॑मानो॒ यद्-य॑जमानभा॒गं प्रा॒श्ञाति॑ य॒ज्ञ्
PS2.7 ए॒व य॒ज्ञ्ं प्रति॑ ष्ठापयत्ये॒तद्वै
PS2.8 सू॒यव॑सꣳ॒॒ सोद॑कं॒ यद्ब॒र्॒.हिश्चाऽऽप॑श्चै॒तद् -
PS2.9 [ ]
PS3.1 यज॑मानस्या॒ऽऽयत॑नं॒ ॅयद्वेदि॒र्यत् पू᳚र्णपा॒त्र-म॑न्तर्वे॒दि नि॒नय॑ति॒
PS3.2 स्व ए॒वाऽऽय॑तने सू॒यव॑सꣳ॒॒ सोद॑कं
PS3.3 कुरुते॒ सद॑सि॒ सन्मे॑ भूया॒
PS3.4 इत्या॒हाऽऽपो॒ वै य॒ज्ञ् आपो॒ऽमृतं॑
PS3.5 ॅय॒ज्ञ्मे॒वामृत॑-मा॒त्मन् ध॑त्ते॒ सर्वा॑णि॒ वै
PS3.6 भू॒तानि॑ व्र॒त-मु॑प॒यन्त॒ -मनूप॑ यन्ति॒
PS3.7 प्राच्यां᳚ दि॒शि दे॒वा ऋ॒त्विजो॑
PS3.8 मार्जयन्ता॒-मित्या॑है॒ष वै द॑र्.शपूर्णमा॒सयो॑-रवभृ॒थो -[
PS3.9 ]
PS4.1 यान्ये॒वैनं॑ भू॒तानि॑ व्र॒तमु॑प॒यन्त॑-मनूप॒यन्ति॒ तैरे॒व
PS4.2 स॒हाव॑भृ॒थमवै॑ति॒ विष्णु॑मुखा॒ वै दे॒वा
PS4.3 श्छन्दो॑भिरि॒मान् ॅलो॒का-न॑नपज॒य्यम॒भ्य॑जय॒न्॒. यद्-वि॑ष्णुक्र॒मान् क्रम॑ते॒
PS4.4 विष्णु॑रे॒व भू॒त्वा यज॑मान॒श्छन्दो॑भिरि॒मान् ॅलो॒का-न॑नपज॒य्यम॒भि
PS4.5 ज॑यति॒ विष्णोः॒ क्रमो᳚ऽस्यभिमाति॒हेत्या॑ह गाय॒त्री
PS4.6 वै पृ॑थि॒वी त्रैष्टु॑भम॒न्तरि॑क्षं॒ जाग॑ती॒
PS4.7 द्यौरानु॑ष्टुभी॒र् दिश॒ श्छन्दो॑भिरे॒वेमान् ॅलो॒कान्.
PS4.8 य॑थापू॒र्वम॒भि ज॑यति

Report Timing Issue

Report timing issue for this location?

पञ्चशत् 1 #
TS 1.7.5.1 TS 1.7.5.1
ध्रु॒वां ॅवै रिच्य॑मानां ॅय॒ज्ञोऽनु॑ रिच्यते य॒ज्ञ्ं ॅयज॑मानो॒ यज॑मानं प्र॒जा ध्रु॒वामा॒प्याय॑मानां ॅय॒ज्ञोऽन्वा प्या॑यते य॒ज्ञ्ं ॅयज॑मानो॒ यज॑मानं प्र॒जा आ प्या॑यतां ध्रु॒वा घृ॒तेनेत्या॑ह ध्रु॒वामे॒वा ऽऽ प्या॑ययति॒ तामा॒प्याय॑मानां ॅय॒ज्ञोऽन्वा प्या॑यते य॒ज्ञ्ं ॅयज॑मानो॒ यज॑मानं प्र॒जाः प्र॒जाप॑तेर् वि॒भान्नाम॑ लो॒कस्तस्मिꣳ॑स्त्वा दधामि स॒ह यज॑माने॒नेत्या॑ - [ ]
पदपाठः (Word-by-word)
ध्रु॒वाम् । वै । रिच्य॑मानाम् । य॒ज्ञ्ः । अन्विति॑ । रि॒च्य॒ते॒ । य॒ज्ञ्म् । यज॑मानः । यज॑मानम् । प्र॒जा इति॑ प्र - जाः । ध्रु॒वाम् । आ॒प्याय॑माना॒मित्या᳚ - प्याय॑मानाम् । य॒ज्ञ्ः । अनु॑ । एति॑ । प्या॒य॒ते॒ । य॒ज्ञ्म् । यज॑मानः । यज॑मानम् । प्र॒जा इति॑ प्र - जाः । एति॑ । प्या॒य॒ता॒म् । ध्रु॒वा । घृ॒तेन॑ । इति॑ । आ॒ह॒ । ध्रु॒वाम् । ए॒व । एति॑ । प्या॒य॒य॒ति॒ । ताम् । आ॒प्याय॑माना॒मित्या᳚ - प्याय॑मानाम् । य॒ज्ञ्ः । अनु॑ । एति॑ । प्या॒य॒ते॒ । य॒ज्ञ्म् । यज॑मानः । यज॑मानम् । प्र॒जा इति॑ प्र - जाः । प्र॒जाप॑ते॒रिति॑ प्र॒जा - प॒तेः॒ । वि॒भानिति॑ वि - भान् । नाम॑ । लो॒कः । तस्मिन्न्॑ । त्वा॒ । द॒धा॒मि॒ । स॒ह । यज॑मानेन । इति॑ ।
पदसंख्या: 50
सायणभाष्यम् (Sayana Commentary)

(अथ प्रथमकाण्डे सप्तमप्रपाठके पञ्चमोऽनुवाकः)।

चतुर्थे शेषाहुत्यनुमन्त्रणमन्त्रा व्याख्याताः। पञ्चमे त्वाप्यायनादिमन्त्रा व्याख्यायन्ते। तत्राऽऽप्यायनमन्त्रं व्याख्यातुमन्वयव्यतिरेकाभ्यां प्रस्तौति - ध्रुवां वा इति। ध्रुवायां रिक्तायां यज्ञस्यासंपूर्त्या यजमानस्य फलाभावात्त-दीयप्रजाया अन्नाद्यभाव इति व्यतिरेकः। एवमन्वये योज्यम्।

मन्त्रं व्याचष्टे - आ प्यायतिमिति।

यजमानभागप्राशनमन्त्रं व्याचष्टे - प्रजापतेरिति। विशेषेण कर्मभूमित्वेन भातीति विभानयं भूलोकः। एनं यजमानभागम्।

यजमानस्य रिक्तीकरणनिवारणेन भागप्राशनं प्रशंसति - रिच्यत इति। यजत इति यत्, एतेन पुरोडाशाज्यसांनाय्यद्रव्यहोमे यजमानो रिक्त इव भवति। भागप्राशनेन तु प्रीतस्तं क्लेशं जहाति।

यज्ञप्रतिष्ठाहेतुत्वेनापि तदेव प्रशंसति - एतावानिति। यजमानस्य भागो यावानस्ति एतावानेवेह लोके यजमान-स्योपयुक्तो यज्ञोऽवशिष्टस्य देवैत्विग्भिश्च भक्ष्यमाणत्वात्। स्वयं च यज्ञस्वामित्वेन यज्ञात्मकः। तथा सति यजमानेन भागे प्राशिते यज्ञ एव यज्ञः प्रतिष्ठापितो भवति।

पूर्णपात्रस्य निनयनं विधातुं प्रस्तौति – एतद्वा इति। वेदेर्हविर्धारणेन यजमानस्थानत्वम्। एतच्च स्थानं बर्हिषाऽऽ-स्तीर्णत्वात्समीचीनतृणोपेतं प्रणीतानामत्र स्थापितत्वादुदकोपेतं च।

विधत्ते - यत्पूर्णपात्रमिति। सूवयसं तृणसमृद्धिं सोदमुकदसमृद्धिं च कुरुते।

निनयनमन्त्रं व्याचष्टे - सदसिति। अपां यज्ञसाधनत्वाद्यज्ञत्वं, जीवनहेतुत्वाच्चामृतत्वं, तस्मादपोऽ-भिलक्ष्य सन्मे भूया इत्युक्ते सति यज्ञरूपममृतं स्वस्मिन्धारयति।

व्युत्सेचनमन्त्रं व्याचष्टे - सर्वाणीति। यो यजमानो यज्ञव्रतमुपैति तमनु देवपित्रादीनि सर्वाणि भूतानि व्रतं प्रारभन्ते। अतो देवपित्रादिमार्जनप्रतिपादकेनानेन मन्त्रेण तैः सर्वैर्भूतैः सहैवावभृथं प्राप्नोति।

विष्णुक्रमान्विधत्ते - विष्णुमुखा इति। देवाः पूर्वं स्वेषु विष्णुमेव मुख्यं कृत्वा छन्दोभिमानिदेवैः सहिता अन्यैर्जेतुं यथा न शक्यते तथा लोकानजयन्। अतो यजमानो विष्णुक्रमान्क्रमत इति यत्स विष्णुरेव भूत्वेमाँल्लोकानभिजयति।

तत्रत्यान्मन्त्रान्व्याचष्टे - विष्णोः क्रम इति। गायत्रादिच्छन्दोदेवानां पृथिव्यादिलोकस्वामित्वेन तैः सह लोकानां जेतुं शक्यतया मन्त्रेषु गायत्रेण छन्दसेत्यादि पठितमित्यभिप्रायः॥

इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीय-तैत्तिरीयसंहिताभाष्ये प्रथमकाण्डे सप्तमप्रपाठके पञ्चमोऽनुवाकः॥५॥
भट्टभास्करभाष्यम् (Bhatta Bhaskara Commentary)
1 आप्यायतामिति ध्रुवाया आप्यायमानाया अनुमन्त्रणम् । तामाप्यायमानां स्तोतुमाह - ध्रुवां वा इत्यादि ॥ अनोर्लक्षणे कर्मप्रवचनीयत्वम् । रिचिर् रेचने, रौधादिकः, कर्मकर्तरि यक् व्यत्ययेनाद्युदात्तत्वम् । 'अचः कर्तृयकि' इति वा व्यत्ययेनानजन्तस्य भवति । श्यन्वा व्यत्ययेन । ओ प्यायी वृद्धौ । गतमन्यत् ॥
2 प्रजापतेर्वेभानिति ॥ यजमानप्राशनमन्त्रः । अयं लोको मनुष्यलोकः सूर्यादिभिर्विविधं भातीति विभान् । रिच्यत इवेत्यादि । नियमैः कर्शितत्वात् रिच्यत इव यजमानः । स आत्मीयभागप्राशनेनात्मानं तर्पयति । एतावानित्यादि । प्राधान्याद्यज्ञो यजमान इति तदधीनत्वात्तन्निवृत्तेः ॥

एतद्वा इत्यादि ॥ पूणपात्रविधिः । सूयवसं सोदकं चानेनेतत्क्रियते, यद्बर्हिश्चापश्च संयोज्यन्ते । किञ्च - एतद्यजमानस्यायतनं गृहं यद्वेदिः तस्माद्यदिदमन्तर्वेदि प्रणीतासु पूर्णपात्रमानयति तदेतत्स्व एवायतने आत्मार्थं सूयवसं सोदकं च कुरुते ॥

4 तत्र सदसि सन्मे इति पूर्णपात्र अनीयमाने यजमानो जपति ॥ आपो वा इत्यादि । गतम् । यज्ञममृतं चात्मनि स्थापयति अनेन मन्त्रेण । सदादिपदैर्यज्ञामृते अभिधीयेते इति भावः ॥
5 सर्वाणीत्यादि ॥ व्रतोपायनकाल एवैनमनु सर्वाणि भूतानि देवादीनि उपयन्ति उपगच्छन्ति । इदानीं तैस्सर्वैस्सहावभृथमवैति । कः पुनरयमवभृथ इत्याह – प्राच्यामित्यादि । अनेन मन्त्रेण यद्दिशां व्युत्सेचनम् ॥
6 विष्णुमुखा इत्यादि ॥ विष्णुक्रमाणां क्रमणविधिः । ते च 'विष्णोः क्रमोसि' इत्यादयः । विष्णुमुखाः विष्णुप्रधानाः । अनपजय्यमन्यैरपजेतुमशक्यम् । क्रियाविशेषणम्, 'अचो यत्' 'क्षय्यजय्यौ शक्यार्थे' इति अयादेशः, 'ययतोश्चातदर्थे' इत्युत्तरपदान्तोदात्तत्वम् । विष्णोः क्रमोसीति । चतुर्णां क्रमाणां ग्रहणम् । त्रिष्टुब्जगत्यनुष्टुप्शब्देभ्य उत्सादित्वादञ् । आनुष्टुभीः अनुष्टुब्भ्यः । 'वा छन्दसि' इति पूर्वसवर्णदीर्घत्वम् । छन्दोभिरेवेत्यादि । गायत्र्यादयः पृथिव्यादीनां कारणानि ; कारणेन च कार्यजयस्सुकर इति भावः । यथापूर्वमिति । अनपजय्यमित्यर्थः । अनुक्रमेण वा ॥
इति सप्तमे पञ्चमोनुवाकः ॥
पञ्चशत् 2 #
TS 1.7.5.2 TS 1.7.5.2
हा॒यं ॅवै प्र॒जाप॑तेर् वि॒भान्नाम॑ लो॒कस्तस्मि॑-न्ने॒वैनं॑ दधाति स॒ह यज॑मानेन॒ रिच्य॑त इव॒ वा ए॒तद्-यद्-यज॑ते॒ यद्-य॑जमानभा॒गं प्रा॒श्ञात्या॒त्मान॑मे॒व प्री॑णात्ये॒तावा॒न्॒. वै य॒ज्ञो यावान्॑. यजमानभा॒गो य॒ज्ञो यज॑मानो॒ यद्-य॑जमानभा॒गं प्रा॒श्ञाति॑ य॒ज्ञ् ए॒व य॒ज्ञ्ं प्रति॑ ष्ठापयत्ये॒तद्वै सू॒यव॑सꣳ॒॒ सोद॑कं॒ यद्ब॒र्॒.हिश्चाऽऽप॑श्चै॒तद् - [ ]
पदपाठः (Word-by-word)
आ॒ह॒ । अ॒यम् । वै । प्र॒जाप॑ते॒रिति॑ प्र॒जा - प॒तेः॒ । वि॒भानिति॑ वि - भान् । नाम॑ । लो॒कः । तस्मिन्न्॑ । ए॒व । ए॒न॒म् । द॒धा॒ति॒ । स॒ह । यज॑मानेन । रिच्य॑ते । इ॒व॒ । वै । ए॒तत् । यत् । यज॑ते । यत् । य॒ज॒मा॒न॒भा॒गमिति॑ यजमान - भा॒गम् । प्रा॒श्नातीति॑ प्र - अ॒श्नाति॑ । आ॒त्मान᳚म् । ए॒व । प्री॒णा॒ति॒ । ए॒तावान्॑ । वै । य॒ज्ञ्ः । यावान्॑ । य॒ज॒मा॒न॒भा॒ग इति॑ यजमान - भा॒गः । य॒ज्ञ्ः । यज॑मानः । यत् । य॒ज॒मा॒न॒भा॒गमिति॑ यजमान - भा॒गम् । प्रा॒श्नातीति॑ प्र - अ॒श्नाति॑ । य॒ज्ञे । ए॒व । य॒ज्ञ्म् । प्रतीति॑ । स्था॒प॒य॒ति॒ । ए॒तत् । वै । सू॒यव॑स॒मिति॑ सु - यव॑सम् । सोद॑क॒मिति॒ स - उ॒द॒क॒म् । यत् । ब॒र्॒.हिः । च॒ । आपः॑ । च॒ । ए॒तत् ।
पदसंख्या: 50
पञ्चशत् 3 #
TS 1.7.5.3 TS 1.7.5.3
यज॑मानस्या॒ऽऽयत॑नं॒ ॅयद्वेदि॒र्यत् पू᳚र्णपा॒त्र-म॑न्तर्वे॒दि नि॒नय॑ति॒ स्व ए॒वाऽऽय॑तने सू॒यव॑सꣳ॒॒ सोद॑कं कुरुते॒ सद॑सि॒ सन्मे॑ भूया॒ इत्या॒हाऽऽपो॒ वै य॒ज्ञ् आपो॒ऽमृतं॑ ॅय॒ज्ञ्मे॒वामृत॑-मा॒त्मन् ध॑त्ते॒ सर्वा॑णि॒ वै भू॒तानि॑ व्र॒त-मु॑प॒यन्त॒ -मनूप॑ यन्ति॒ प्राच्यां᳚ दि॒शि दे॒वा ऋ॒त्विजो॑ मार्जयन्ता॒-मित्या॑है॒ष वै द॑र्.शपूर्णमा॒सयो॑-रवभृ॒थो -[ ]
पदपाठः (Word-by-word)
यज॑मानस्य । आ॒यत॑न॒मित्या᳚ - यत॑नम् । यत् । वेदिः॑ । यत् । पू॒र्ण॒पा॒त्रमिति॑ पूर्ण - पा॒त्रम् । अ॒न्त॒र्वे॒दीत्य॑न्तः - वे॒दि । नि॒नय॒तीति॑ नि - नय॑ति । स्वे । ए॒व । आ॒यत॑न॒ इत्या᳚ - यत॑ने । सू॒यव॑स॒मिति॑ सु - यव॑सम् । सोद॑क॒मिति॒ स - उ॒द॒क॒म् । कु॒रु॒ते॒ । सत् । अ॒सि॒ । सत् । मे॒ । भू॒याः॒ । इति॑ । आ॒ह॒ । आपः॑ । वै । य॒ज्ञ्ः । आपः॑ । अ॒मृत᳚म् । य॒ज्ञ्म् । ए॒व । अ॒मृत᳚म् । आ॒त्मन्न् । ध॒त्ते॒ । सर्वा॑णि । वै । भू॒तानि॑ । व्र॒तम् । उ॒प॒यन्त॒मित्यु॑प - यन्त᳚म् । अनु॑ । उपेति॑ । य॒न्ति॒ । प्राच्या᳚म् । दि॒शि । दे॒वाः । ऋ॒त्विजः॑ । मा॒र्ज॒य॒न्ता॒म् । इति॑ । आ॒ह॒ । ए॒षः । वै । द॒र्॒.श॒पू॒र्ण॒मा॒सयो॒रिति॑ दर्.श - पू॒र्ण॒मा॒सयोः᳚ । अ॒व॒भृ॒थ इत्य॑व - भृ॒थः ।
पदसंख्या: 50
पञ्चशत् 4 #
TS 1.7.5.4 TS 1.7.5.4
यान्ये॒वैनं॑ भू॒तानि॑ व्र॒तमु॑प॒यन्त॑-मनूप॒यन्ति॒ तैरे॒व स॒हाव॑भृ॒थमवै॑ति॒ विष्णु॑मुखा॒ वै दे॒वा श्छन्दो॑भिरि॒मान् ॅलो॒का-न॑नपज॒य्यम॒भ्य॑जय॒न्॒. यद्-वि॑ष्णुक्र॒मान् क्रम॑ते॒ विष्णु॑रे॒व भू॒त्वा यज॑मान॒श्छन्दो॑भिरि॒मान् ॅलो॒का-न॑नपज॒य्यम॒भि ज॑यति॒ विष्णोः॒ क्रमो᳚ऽस्यभिमाति॒हेत्या॑ह गाय॒त्री वै पृ॑थि॒वी त्रैष्टु॑भम॒न्तरि॑क्षं॒ जाग॑ती॒ द्यौरानु॑ष्टुभी॒र् दिश॒ श्छन्दो॑भिरे॒वेमान् ॅलो॒कान्. य॑थापू॒र्वम॒भि ज॑यति ॥
पदपाठः (Word-by-word)
यानि॑ । ए॒व । ए॒न॒म् । भू॒तानि॑ । व्र॒तम् । उ॒प॒यन्त॒मित्यु॑प - यन्त᳚म् । अ॒नू॒प॒यन्तीत्य॑नु - उ॒प॒यन्ति॑ । तैः । ए॒व । स॒ह । अ॒व॒भृ॒थमित्य॑व - भृ॒थम् । अवेति॑ । ए॒ति॒ । विष्णु॑मुखा॒ इति॒ विष्णु॑ - मु॒खाः॒ । वै । दे॒वाः । छन्दो॑भि॒रिति॒ छन्दः॑ - भिः॒ । इ॒मान् । लो॒कान् । अ॒न॒प॒ज॒य्यमित्य॑नप-ज॒य्यम् । अ॒भीति॑ । अ॒ज॒य॒न्न् । यत् । वि॒ष्णु॒क्र॒मानिति॑ विष्णु - क्र॒मान् । क्रम॑ते । विष्णुः॑ । ए॒व । भू॒त्वा । यज॑मानः । छन्दो॑भि॒रिति॒ छन्दः॑ - भिः॒ । इ॒मान् । लो॒कान् । अ॒न॒प॒ज॒य्यमित्य॑नप - ज॒य्यम् । अ॒भीति॑ । ज॒य॒ति॒ । विष्णोः᳚ । क्रमः॑ । अ॒सि॒ । अ॒भि॒मा॒ति॒हेत्य॑भिमाति - हा । इति॑ । आ॒ह॒ । गा॒य॒त्री । वै । पृ॒थि॒वी । त्रैष्टु॑भम् । अ॒न्तरि॑क्षम् । जाग॑ती । द्यौः । आनु॑ष्टुभी॒रित्यानु॑ - स्थु॒भीः॒ । दिशः॑ ( ) । छन्दो॑भि॒रिति॒ छन्दः॑ - भिः॒ । ए॒व । इ॒मान् । लो॒कान् । य॒था॒पू॒र्वमिति॑ यथा - पू॒र्वम् । अ॒भीति॑ । ज॒य॒ति॒ ॥
पदसंख्या: 57