पदपाठः (Word-by-word)
सायणभाष्यम् (Sayana Commentary)
(अथ प्रथमकाण्डे सप्तमप्रपाठक एकादशोऽनुवाकः)।
दशमेऽन्नहोम उक्तः। एकादश उज्जितिमनन्त्रा उच्यन्ते।
कल्पः — “अथ यजमानमन्वास्थायोज्जितीर्वाचयत्यग्निरेकाक्षरेण वाचमुदजयदिति सप्तदश” इति।
पाठस्तु — अग्निरेकाक्षरेणेति। आश्रावयेत्यादिके सप्तदशाक्षरे मन्त्रसंघ एकैकाक्षरवृद्धय तत्तन्मन्त्रं पठित्वा तत्सामर्थ्यादग्न्यादयो वागादीनुदजयन्। अथवा विध्यन्तर एकाक्षरो मन्त्रशास्त्रप्रसिद्ध्या वागग्निबीजं तेनैकाक्षरेण मन्त्रेणाग्नेर्वागुज्जयः। व्द्यक्षरेणाजपामन्त्रेण प्राणापानात्मकेनाश्विनोः प्राणापानोज्जयः। एवमन्येऽपि त्र्यक्षरादिमन्त्रा यथायोगमुन्नेयाः। मन्त्राक्षरसंख्यानुसारेण लोकत्रयादिजयो विज्ञेयः। त्रिवृत्स्तोमगतानामृचां नवसंख्योपेतत्वात्तज्जयो द्रष्टव्यः। त्रयोदशस्तोमादावपि तिसृणामृचामावृत्तिविशेषेण तत्तत्संख्या द्रष्टव्या। एतदुज्जितिविधिस्तु ता वा एता उज्जितयो व्याख्यायन्त इत्येतादृशः पूर्वमेवास्माभिर्व्याख्यातः सोऽयमत्रोत्कर्षणीयः।
अत्र विनियोगसंग्रहः —
“अग्निः सप्तदशाऽऽम्नाता उज्जितीर्वाचयेदमूः।
यजमानं रथेष्वेषु धावत्स्वध्वर्युरादरात् ॥१॥” इति