अनुवाकः 6 TS 1.7.6

(A6)

चतु॑र्विꣳशतिश्च)

अनुवाकः 6 - Complete Audio

TS 1.7.6 - स्वरानुगामी

0:00 0:00
PS1.1 अग॑न्म॒ सुवः॒ सुव॑रग॒न्मेत्या॑ह सुव॒र्गमे॒व
PS1.2 लो॒कमे॑ति स॒न्दृश॑स्ते॒ मा छि॑थ्सि॒
PS1.3 यत्ते॒ तप॒स्तस्मै॑ ते॒ मा
PS1.4 ऽऽ वृ॒क्षीत्या॑ह यथाय॒जु-रे॒वैतथ् सु॒भूर॑सि॒
PS1.5 श्रेष्ठो॑ रश्मी॒नामा॑यु॒र्द्धा अ॒स्यायु॑र्मे धे॒हीत्या॑हा॒ऽऽशिष॑मे॒वैतामा
PS1.6 शा᳚स्ते॒ प्र वा ए॒षो᳚ऽस्मान्
PS1.7 ॅलो॒काच्च्य॑वते॒ यो - [
PS1.8 ]
PS2.1 वि॑ष्णुक्र॒मान् क्रम॑ते सुव॒र्गाय॒ हि
PS2.2 लो॒काय॑ विष्णुक्र॒माः क्र॒म्यन्ते᳚ ब्रह्मवा॒दिनो॑
PS2.3 वदन्ति॒ स त्वै वि॑ष्णुक्र॒मान्
PS2.4 क्र॑मेत॒ य इ॒मान् ॅलो॒कान्
PS2.5 भ्रातृ॑व्यस्य सं॒ॅविद्य॒ पुन॑रि॒मं ॅलो॒कं
PS2.6 प्र॑त्यव॒रोहे॒दित्ये॒ष वा अ॒स्य लो॒कस्य॑
PS2.7 प्रत्यवरो॒हो यदाहे॒दम॒हम॒मुं भ्रातृ॑व्यमा॒भ्यो दि॒ग्भ्यो᳚ऽस्यै
PS2.8 दि॒व इती॒माने॒व लो॒कान् भ्रातृ॑व्यस्य
PS2.9 सं॒ॅविद्य॒ पुन॑रि॒मं ॅलो॒कं प्र॒त्यव॑रोहति॒
PS2.10 सं - [ ]
PS3.1 ज्योति॑षाऽभूव॒मित्या॑हा॒स्मिन्ने॒व लो॒के प्रति॑ तिष्ठत्यै॒न्द्री-मा॒वृत॑-म॒न्वाव॑र्त॒
PS3.2 इत्या॑हा॒सौ वा आ॑दि॒त्य इन्द्र॒स्तस्यै॒वाऽऽवृत॒मनु॑
PS3.3 प॒र्याव॑र्तते दक्षि॒णा प॒र्याव॑र्तते॒ स्वमे॒व
PS3.4 वी॒र्य॑मनु॑ प॒र्याव॑र्तते॒ तस्मा॒द् दक्षि॒णोऽर्द्ध॑
PS3.5 आ॒त्मनो॑ वी॒र्या॑वत्त॒रोऽथो॑ आदि॒त्यस्यै॒वाऽऽवृत॒मनु॑ प॒र्याव॑र्तते॒
PS3.6 सम॒हं प्र॒जया॒ सं मया᳚
PS3.7 प्र॒जेत्या॑हा॒ऽऽशिष॑ - [ ]
PS4.1 मे॒वैतामा शा᳚स्ते॒ समि॑द्धो अग्ने
PS4.2 मे दीदिहि समे॒द्धा ते॑
PS4.3 अग्ने दीद्यास॒मित्या॑ह यथाय॒जु-रे॒वैतद्वसु॑मान्. य॒ज्ञो
PS4.4 वसी॑यान् भूयास॒-मित्या॑हा॒-ऽऽशिष॑मे॒वेतामा शा᳚स्ते ब॒हु
PS4.5 वै गार्.ह॑पत्य॒स्यान्ते॑ मि॒श्रमि॑व चर्यत
PS4.6 आग्निपावमा॒नीभ्यां॒ गार्.ह॑पत्य॒मुप॑ तिष्ठते पु॒नात्ये॒वाग्निं
PS4.7 पु॑नी॒त आ॒त्मानं॒ द्वाभ्यां॒ प्रति॑ष्ठित्या॒
PS4.8 अग्ने॑ गृहपत॒ इत्या॑ह -
PS4.9 [ ]
PS5.1 यथाय॒जुरे॒वैतच्छ॒तꣳ हिमा॒ इत्या॑ह श॒तं
PS5.2 त्वा॑ हेम॒न्तानि॑न्धिषी॒येति॒ वावैतदा॑ह पु॒त्रस्य॒
PS5.3 नाम॑ गृह्णात्यन्ना॒दमे॒वैनं॑ करोति॒ तामा॒शिष॒मा
PS5.4 शा॑से॒ तन्त॑वे॒ ज्योति॑ष्मती॒मिति॑ ब्रूया॒द्-यस्य॑
PS5.5 पु॒त्रोऽजा॑तः॒ स्यात् ते॑ज॒स्व्ये॑वास्य॑ ब्रह्मवर्च॒सी
PS5.6 पु॒त्रो जा॑यते॒ तामा॒शिष॒मा शा॑से॒ऽमुष्मै॒
PS5.7 ज्योति॑ष्मती॒मिति॑ ब्रूया॒द्-यस्य॑ पु॒त्रो -
PS5.8 [ ]
PS6.1 जा॒तः स्यात्तेज॑ ए॒वास्मि॑न् ब्रह्मवर्च॒सं
PS6.2 द॑धाति॒ यो वै य॒ज्ञ्ं
PS6.3 प्र॒युज्य॒ न वि॑मु॒ञ्चत्य॑प्रतिष्ठा॒नो वै
PS6.4 स भ॑वति॒ कस्त्वा॑ युनक्ति॒
PS6.5 स त्वा॒ वि मु॑ञ्च॒त्वित्या॑ह
PS6.6 प्र॒जाप॑ति॒र् वै कः प्र॒जाप॑तिनै॒वैनं॑
PS6.7 ॅयु॒नक्ति॑ प्र॒जाप॑तिना॒ वि मु॑ञ्चति॒
PS6.8 प्रति॑ष्ठित्या ईश्व॒रं ॅवै व्र॒तमवि॑सृष्टं
PS6.9 प्र॒दहोऽग्ने᳚ व्रतपते व्र॒तम॑चारिष॒मित्या॑ह व्र॒तमे॒व-[
PS6.10 ]
PS7.1 वि सृ॑जते॒ शान्त्या॒ अप्र॑दाहाय॒
PS7.2 परा॒ङ॒. वाव य॒ज्ञ् ए॑ति॒
PS7.3 न नि व॑र्तते॒ पुन॒र्यो
PS7.4 वै य॒ज्ञ्स्य॑ पुनरालं॒भं ॅवि॒द्वान्.
PS7.5 यज॑ते॒ तम॒भि नि व॑र्तते
PS7.6 य॒ज्ञो ब॑भूव॒ स आ
PS7.7 ब॑भू॒वेत्या॑है॒ष वै य॒ज्ञ्स्य॑ पुनरालं॒भ-स्तेनै॒वैनं॒
PS7.8 पुन॒रा ल॑भ॒तेऽन॑वरुद्धा॒ वा ए॒तस्य॑
PS7.9 वि॒राड् य आहि॑ताग्निः॒ सन्न॑स॒भः
PS7.10 प॒शवः॒ खलु॒ वै (
PS7.11 ) ब्रा᳚ह्म॒णस्य॑ स॒भेष्ट्वा प्राङु॒त्क्रम्य॑
PS7.12 ब्रूया॒द् गोमाꣳ॑ अ॒ग्नेऽवि॑माꣳ अ॒श्वी
PS7.13 य॒ज्ञ् इत्यव॑ स॒भाꣳ रु॒न्धे
PS7.14 प्र स॒हस्रं॑ प॒शूना᳚प्नो॒त्याऽस्य॑ प्र॒जायां᳚
PS7.15 ॅवा॒जी जा॑यते
PS7.16 (यः-स-मा॒सिषं॑-गृहपत॒-इत्या॑हा॒-मुष्मै॒ ज्योति॑ष्मती॒मिति॑ ब्रूया॒द् यस्य॑पु॒त्रो-व्र॒तमे॒व-खलु॒ वै-

Report Timing Issue

Report timing issue for this location?

पञ्चशत् 1 #
TS 1.7.6.1 TS 1.7.6.1
अग॑न्म॒ सुवः॒ सुव॑रग॒न्मेत्या॑ह सुव॒र्गमे॒व लो॒कमे॑ति स॒न्दृश॑स्ते॒ मा छि॑थ्सि॒ यत्ते॒ तप॒स्तस्मै॑ ते॒ मा ऽऽ वृ॒क्षीत्या॑ह यथाय॒जु-रे॒वैतथ् सु॒भूर॑सि॒ श्रेष्ठो॑ रश्मी॒नामा॑यु॒र्द्धा अ॒स्यायु॑र्मे धे॒हीत्या॑हा॒ऽऽशिष॑मे॒वैतामा शा᳚स्ते॒ प्र वा ए॒षो᳚ऽस्मान् ॅलो॒काच्च्य॑वते॒ यो - [ ]
पदपाठः (Word-by-word)
अग॑न्म । सुवः॑ । सुवः॑ । अ॒ग॒न्म॒ । इति॑ । आ॒ह॒ । सु॒व॒र्गमिति॑ सुवः - गम् । ए॒व । लो॒कम् । ए॒ति॒ । स॒दृंश॒ इति॑ सं -दृशः॑ । ते॒ । मा । छि॒थ्सि॒ । यत् । ते॒ । तपः॑ । तस्मै᳚ । ते॒ । मा । एति॑ । वृ॒क्षि॒ । इति॑ । आ॒ह॒ । य॒था॒य॒जुरिति॑ यथा - य॒जुः । ए॒व । ए॒तत् । सु॒भूरिति॑ सु- भूः । अ॒सि॒ । श्रेष्ठः॑ । र॒श्मी॒नाम् । आ॒यु॒द्‌र्धा इत्या॑युः - धाः । अ॒सि॒ । आयुः॑ । मे॒ । धे॒हि॒ । इति॑ । आ॒ह॒ । आ॒शिष॒मित्या᳚-शिष᳚म् । ए॒व । ए॒ताम् । एति॑ । शा॒स्ते॒ । प्रेति॑ । वै । ए॒षः । अ॒स्मात् । लो॒कात् । च्य॒व॒ते॒ । यः ।
पदसंख्या: 50
सायणभाष्यम् (Sayana Commentary)

(अथ प्रथमकाण्डे सप्तमप्रपाठके षष्ठोऽनुवाकः)।

आप्यायनादिमन्त्राः पञ्चमे व्याख्याताः। उपस्थानादिमन्त्राः षष्ठे व्याख्या- यन्ते। तत्राऽऽहवनीयोपस्थानमन्त्रस्य पूर्वभागं व्याचष्टे - अगन्मेति। द्विरुक्त्याऽऽदरस्य प्रतीतेः सर्वथा प्राप्नोत्येव।

उत्तरभागं व्याचष्टे - संदृश इति। अस्मियजुषि तपःशब्ददर्शनात्तपसश्च विच्छिन्नो मा भूवमिति यत्प्रतीयत एतद्यजुरनतिक्रम्य तथैव प्रार्थ्यते।

आदित्योपस्थानमन्त्रं व्याचष्टे - सुभूरसीति। आयुर्मे धेहीत्यनेनाऽऽशीः प्रतीयते।

इदमहमित्यादिकं वैरिनिःसारणमन्त्रं व्याख्यातुं प्रस्तौति - प्र वा इति। विष्णुक्रमणां स्वर्गार्थत्वाद्विष्णुक्रमैरस्माल्लोकात्प्रच्युतिर्भवति। तस्याः प्रच्युतेः परिहारोपायं ब्रह्मवादिनः परस्परमेवमाहुः — यो यजमानो वैरिण इमाँल्लोकांस्तेन संपादितान्वैरिनिःसारणेन लब्ध्वा विष्णुक्रमैः स्वर्गा-रोहणादूर्ध्वं पुनरिमं मनुष्यलोकं प्रत्यवरोहेत्स एव यजमानो विष्णुक्रमेषु चतुर इति।

मन्त्रं व्याचष्टे - एष वा इति। इदमहमित्यादिमन्त्रमाहेति यदेष एव पाठोऽस्य भूलोकस्य संबन्धी प्रत्यवरोहः।

आत्माभिमर्शनमन्त्रं व्याचष्टे - संज्योतिषेति। एतल्लोकप्रापके(ण) ज्योतिषा संगतोऽहमित्येव मन्त्रे प्रतीयमानत्वात्।

प्रदक्षिणावृत्तिमन्त्रं व्याचष्टे - ऐन्द्रीमिति। परमैश्वर्ययोगादादित्यस्येन्द्रत्वम्।

प्रदक्षिणावृत्तिं विधत्ते - दक्षिणेति। दक्षिणा प्रादक्षिण्येन। द्रक्षिणभागमवस्थाप्य वामभागस्य परिभ्रमणात्प्रादक्षिण्यम्। पुरुषस्य दक्षिणाभागे सामर्थ्यातिशयसद्भावात्तदेवानुसृत्याऽऽवृत्तिः कृता भवति। यस्माद्दक्षिणभागे वीर्यं श्रुतेरभिप्रेतं तस्माल्लोकेषु सर्वेषु व्यापारेषु दक्षिणहस्तस्यैव वीर्यातिशय उपलभ्यते। किंच, आदित्यो मेरुं प्रदक्षिणी करोति तदप्यत्रानुसृतं भवति।

विपर्ययेणाऽऽवृत्तिमन्त्रं व्याचष्टे - समहमिति। स्वयं यथा प्रजादिना संगच्छते तथा प्रजादिरपि स्वेन संगच्छत इत्येतदुभयं द्वितीयावृत्त्या प्रार्थ्यते।

समिदाधानमन्त्रं स्पष्टार्थत्वेन व्याचष्टे - समिद्ध इति।

आहवनीयोपस्थानमन्त्रं व्याचष्टे - वसुमानिति। वसीयानतिशयेन धनवान्।

विधत्ते - बहु वा इति। गार्हपत्योऽजस्रं धार्यते। तथा सति एतत्संनिधौ बहुविधजन्तु-पातकं संभाव्यते। अतो यजमानेन गार्हपत्यस्य समीपे पापमिश्रमिव होमा-दिकर्मानुष्ठीयते।

ततोऽग्न आयूंषीत्याद्याभ्यामग्निपवमानदेवकाभ्यां शुद्धिहेतुभ्यामग्न्युपस्थाने वह्नेः स्वस्य च शुद्धिर्भवति।

अन्यमपि गार्हपत्योपस्थानमन्त्रं व्याचष्टे - अग्ने गृहपत इति। तदिदं मन्त्रब्राह्मणं स्पष्टार्थं पूर्वप्रपाठके व्याख्यातं च। तत्र नाम गृह्णातीति विधिः।

तद्ग्रहणे प्रकारविशेषमाहाऽऽपस्तम्बः — “तन्तव इत्यजातस्यामुष्मा इति जातस्य” इति।

अजातस्य पुत्रस्य विशेषनामभावात्तन्तव इत्येतदेव सामान्यनाम गृह्णीयात्। जातस्य पुत्रस्य त्वमुष्मा इत्यनेन विशेषनामनिर्देशो विवक्ष्यते।

यज्ञविमोकमन्त्रं व्याचष्टे - यो वै यज्ञमिति।

ईश्वर वा इति। यत्व्रतं गृहीतं सन्न विसृष्टं तद्व्रतं प्रदहो यजमानं प्रदग्धुमीश्वरं समर्थम्। अग्ने व्रतपत इत्यादिमन्त्रपाठ एव व्रतविसर्गः। तेन शीतं सन्तं न दहति।

पुनरालम्भमन्त्रं व्याख्यातुं प्रस्तौति - पराङिति। पराङ्वाव विमुख एव पुनर्न निवर्तते, पुनरालम्भमन्त्रवादिनं यजमानं प्रति तु पुनर्निवर्तते, पुनरप्यसावनुतिष्ठतीत्यर्थः।

मन्त्रं व्याचष्टे -यज्ञ इति। एष वै मन्त्रपाठ एव।

गोमतीमन्त्रं विधातुं प्रस्तौति - अनवरुद्धा इति। यो यजमान आहिताग्निरपि सन्सभारहितो भवेत्, एतस्य यजमानस्य विराड्विशेषेण राजमाना स्वोचितसभा कदाचिदप्यनवरुद्धाऽ-स्वाधीना भवति। यागकाले सभाहीनस्य लोकव्यावहारकालेऽपि सभा न संभवेदित्यर्थः। नात्र राज्ञ इवामात्यस्वभटरूपा सभा ब्राह्मणस्योचिता, किं तर्हि यज्ञनिष्पादका द्विपदश्चतुष्पादश्च पशवोऽस्य सभा॥

मन्त्रं विधत्ते - इष्ट्वा प्राङिति। भूमनिन्दाप्रशंसास्विति वैयाकरणैरुक्तत्वाद्गोमानित्यादिको मतुप्प्रत्ययो बाहुल्यवाची। अतः सहस्रप्राप्तिर्युक्ता। इडावान्प्रजावानिति मन्त्रेऽभिधानादस्य प्रजायामन्नवतः पुत्रस्योत्पत्तिर्युक्ता॥

इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजु-र्वेदीयतैत्तिरीयसंहिताभाष्ये प्रथमकाण्डे सप्तमप्रपाठके षष्ठोऽनुवाकः॥६॥
भट्टभास्करभाष्यम् (Bhatta Bhaskara Commentary)
1 अगन्म सुवरित्याहवनीयोपस्थानम् ॥ यथा यजुरिति । यथा यजुर्वदति तथैवेतत्सम्पद्यते । देवसन्दर्शनादनुध्यानलक्षणादविच्छेदनं, तपसश्च देवपरिचरणलक्षणादविच्छेदनमिति ॥
2 सुभूरित्यादित्योपस्थानम् ॥ आशिषं 'आयुर्मे धेहि वर्चो मयि धेहि' इत्येतां आशास्ते । अनेन मन्त्रेण लभते च यथाशासनमिति भावः ॥
3 प्र वा एष इत्यादि ॥ हेतुमाह - सुवर्गायेति । उक्तमुपस्थानान्तं विष्णुक्रमाणां क्रमणम् । तत्रैवायं विशेष उच्यते - ब्रह्म वदितुं शीलं येषान्ते आहुः । स विष्णुक्रमान् क्रमितुमर्हति य इमान् लोकान् पृथिवीप्रभृतीन् भ्रातृव्येण निजसुकृतैरार्जितान् संविद्य लब्ध्वा आत्मसात्कृत्य तत्रतत्रारुह्य पुनरिमं मनुष्यलोकं प्रत्यवरोहेदिति । एष वा इत्यादि । इदमहमित्यस्य मन्त्रस्य वचनं भ्रातृव्यलोकानां संवेदनस्य पुनरिह प्रत्यवरोहस्य च साधनमित्यर्थः । आभ्यो दिग्भ्योस्यै दिव इति द्वयोरुपादानेन सर्वान्भ्रातृव्यस्य लोकानुपलक्षयंस्तेषां भूयस्त्वं गमयति । हस्ताग्रेण निदर्शयन्निदंशब्दं प्रयुङ्क्ते ॥
4 सं ज्योतिषेत्यात्माभिमर्शनम् ॥ प्रतितिष्ठतीति । प्रतिष्ठयाभिदीप्त्या सङ्गच्छते ॥
5 ऐन्द्रीमावृतमित्युदक्पर्यावर्तनमन्त्रः ॥ असौ वा इत्यादि । ईश्वरत्वादिन्द्र आदित्यः तस्यावृतं पर्यावृत्तिं तेन पूर्वं कृतं यजमानोनुपर्यावर्तते । लक्षणेऽनोः कर्मप्रवचनीयत्वम् । दक्षिण दक्षिणेन शरीरभागेन प्रदक्षिणमिति यावत् । 'दक्षिणादाच्' । स्वमेवेत्यादि । आत्मनश्शरीरस्य दक्षिण एकदेशो वीर्यावत्तरः इतरस्मात् । छान्दसं दीर्घत्वम् । 'दक्षिणस्यादिगाख्यायाम्' इत्याद्युदात्तत्वम् । अथो अपि च । पुनर्वचनं प्रादक्षिण्यफलप्रदर्शनार्थम् ॥
6 समहमित्युपस्थानमन्त्रः ॥ आशिषमिति । ससाधनां क्रियामुपसर्ग आहेति योग्यभूतगमनक्रियोपस्थानात् प्रजया सङ्गसीयेति लाभादेवमुक्तम् ॥
7 समिद्ध इति समिदाधानम् ॥ यथायजुरेवैतद्भवति । दीद्यासमिति दीप्तिमत्त्वाशासनम् ॥
8 वसुमानित्युपस्थानम् ॥ आशिषमिति । वसीयान् भूयासमित्यनेनैतामाशिषमाशास्ते । लभते च यथाशासनमिति ॥
8 बहु वा इत्यादि ॥ गार्हपत्यस्यान्ते समीपे मिश्रमिव पापशबलमिव बहु चर्यते परद्रोहचिन्तादि(षु) । क्षुद्रजन्तुवधादि च । येन अग्निरप्यपूतस्स्यात् ; तस्मादाग्निपावमानीभ्यामृग्भ्यां 'अग्न आयूंषि पवसे' इत्याभ्यां गार्हपत्यमुपतिष्ठते । पुनात्येवाग्निं पुनीते चैवात्मानम् । कर्त्रभिप्रायत्वादुत्तरत्रात्मनेपदम्, सतिशिष्टोपि विकरणस्वरः लसार्वधातुकस्वरेण बाध्यते इत्याद्युदात्तत्वम् । पुनातीत्यत्र तस्य पित्त्वाद्विकरणस्वरः । समानवाक्ये पदात्परत्वाभावादुभयत्रापि निघाताभावः । द्वाभ्यामिति । उपतिष्ठत इत्येव । प्रतिष्ठित्या इति । द्वित्वान्वयात् पद्भ्यामिव प्रतिष्ठितो भवति । पूर्ववद्गतेः प्रकृतिस्वरत्वम् ॥
10 अग्ने गृहपते इत्युपस्थानमेव ॥ यथायजुरिति । सुगृहपतित्वावाप्तिर्ज्योतिष्मदपत्यलाभश्चेत्येतद्यथायजुर्भवत्येव ॥
11 शतं हिमा इत्यादि ॥ व्याख्यातं अग्निहोत्राग्न्युपस्पाने 'सम्पश्यामि' इत्यत्र ॥
1 यो वै यज्ञमित्यादि ॥ गतम् । अप्रतिष्ठानः प्रतिष्ठारहितः । 'नञ्सुभ्याम्' इत्युत्तरपदान्तोदात्तत्वम् । कस्त्वेति यज्ञविमोकः । प्रजापतिनैवैनं युनक्ति कस्त्वा युनक्ति स त्वा युनक्त्विति प्रजापतिरेव त्वां योक्तुमर्हति ; अतस्स एव त्वां युनक्त्विति, पूर्वं प्रजापतिनैव योगः कारितः । एवमत्रापि प्रजापतिनैव विमुञ्चति - कस्त्वा युनक्ति स त्वा विमुञ्चत्विति । प्रजापतिर्हि त्वां युनक्ति स्म । अतस्स एव त्वां विमुञ्चतु । तेन युक्तं त्वां कोन्यो मोक्तुं शक्नोतीति भावः । एवं हि क्रियमाणं प्रतिष्ठित्यै भवति, इतरथा अप्रतिष्ठानस्स्यात् ; अन्येन विमोकस्याविमोकतुल्यत्वात् अप्रतिष्ठान एवेति । उक्तस्स्वरः । 'चादिलोपे विभाषा' इति प्रथमा तिङ्विभक्तिर्न निहन्यते ॥
13 ईश्वरमित्यादी ॥ अविसृष्टं प्रदहः प्रकर्षेण दग्धुमीश्वरं शक्तम् । 'ईश्वरे तोसुन्कसुनौ' इति कसुन् । अग्रे व्रतपते इति व्रतविमोकः ॥ 14पराङित्यादि ॥ युक्तमुक्तो गौरिव पराचीनगतिरेव यज्ञो मुक्तो गच्छति न पुनर्निवर्तते । किं सर्वत्र? नेत्याह - यो यज्ञस्य पुनरालम्भं विद्वान्यजते तमभि तदाभिमुख्येन निवर्तत एव । यज्ञो बभूवेत्यादि यज्ञस्य पुनरालम्भः ॥
15 अनवरुद्धेति ॥ विराडन्नं असभः अपशुस्स्यात् । 'नञ्सुभ्याम्' इत्युत्तरपदान्तोदात्तत्वम् । पशवः खल्वित्यादि । द्विपादश्चतुष्पादश्च तस्मादिष्ट्वा प्राङुत्क्रम्य उदेत्य 'गोमाꣳ अग्ने' इत्यादिकां गोमतीमृचं ब्रूयात् जपेत्, अवरुन्धे च सभाम् । प्राप्नोति च सहस्रं पशून् । आजायते वाजी अस्य प्रजासु । वाजी अन्नवान् पुरुषः । पूर्ववत्प्रथमा तिङ्विभक्तिर्न निहन्यते । 'बर्हिषोहम्' इत्यनुवाकान्ते तु 'प्र सहस्रं पशूनाप्नोति' इत्येकैव तिङ्विभक्तिः ; आजायत इत्यस्या वेदितृविषयत्वात् । तस्माच्चलोपाभावादुभयमपि तत्र निहन्यते ॥
इति सप्तमे षष्ठोनुवाकः ॥
पञ्चशत् 2 #
TS 1.7.6.2 TS 1.7.6.2
वि॑ष्णुक्र॒मान् क्रम॑ते सुव॒र्गाय॒ हि लो॒काय॑ विष्णुक्र॒माः क्र॒म्यन्ते᳚ ब्रह्मवा॒दिनो॑ वदन्ति॒ स त्वै वि॑ष्णुक्र॒मान् क्र॑मेत॒ य इ॒मान् ॅलो॒कान् भ्रातृ॑व्यस्य सं॒ॅविद्य॒ पुन॑रि॒मं ॅलो॒कं प्र॑त्यव॒रोहे॒दित्ये॒ष वा अ॒स्य लो॒कस्य॑ प्रत्यवरो॒हो यदाहे॒दम॒हम॒मुं भ्रातृ॑व्यमा॒भ्यो दि॒ग्भ्यो᳚ऽस्यै दि॒व इती॒माने॒व लो॒कान् भ्रातृ॑व्यस्य सं॒ॅविद्य॒ पुन॑रि॒मं ॅलो॒कं प्र॒त्यव॑रोहति॒ सं - [ ]
पदपाठः (Word-by-word)
वि॒ष्णु॒क्र॒मानिति॑ विष्णु - क्र॒मान् । क्रम॑ते । सु॒व॒र्गायेति॑ सुवः-गाय॑ । हि । लो॒काय॑ । वि॒ष्णु॒क्र॒मा इति॑ विष्णु - क्र॒माः । क्र॒म्यन्ते᳚ । ब्र॒ह्म॒वा॒दिन॒ इति॑ ब्रह्म - वा॒दिनः॑ । व॒द॒न्ति॒ । सः । तु । वै । वि॒ष्णु॒क्र॒मानिति॑ विष्णु - क्र॒मान् । क्र॒मे॒त॒ । यः । इ॒मान् । लो॒कान् । भ्रातृ॑व्यस्य । स॒म्ॅविद्येति॑ सं - विद्य॑ । पुनः॑ । इ॒मम् । लो॒कम् । प्र॒त्य॒व॒रोहे॒दिति॑ प्रति - अ॒व॒रोहे᳚त् । इति॑ । ए॒षः । वै । अ॒स्य । लो॒कस्य॑ । प्र॒त्य॒व॒रो॒ह इति॑ प्रति - अ॒व॒रो॒हः । यत् । आह॑ । इ॒दम् । अ॒हम् । अ॒मुम् । भ्रातृ॑व्यम् । आ॒भ्यः । दि॒ग्भ्य इति॑ दिक् - भ्यः । अ॒स्यै । दि॒वः । इति॑ । इ॒मान् । ए॒व । लो॒कान् । भ्रातृ॑व्यस्य । स॒म्ॅविद्येति॑ सं - विद्य॑ । पुनः॑ । इ॒मम् । लो॒कम् । प्र॒त्यव॑रोह॒तीति॑ प्रति - अव॑रोहति । समिति॑ ।
पदसंख्या: 50
पञ्चशत् 3 #
TS 1.7.6.3 TS 1.7.6.3
ज्योति॑षाऽभूव॒मित्या॑हा॒स्मिन्ने॒व लो॒के प्रति॑ तिष्ठत्यै॒न्द्री-मा॒वृत॑-म॒न्वाव॑र्त॒ इत्या॑हा॒सौ वा आ॑दि॒त्य इन्द्र॒स्तस्यै॒वाऽऽवृत॒मनु॑ प॒र्याव॑र्तते दक्षि॒णा प॒र्याव॑र्तते॒ स्वमे॒व वी॒र्य॑मनु॑ प॒र्याव॑र्तते॒ तस्मा॒द् दक्षि॒णोऽर्द्ध॑ आ॒त्मनो॑ वी॒र्या॑वत्त॒रोऽथो॑ आदि॒त्यस्यै॒वाऽऽवृत॒मनु॑ प॒र्याव॑र्तते॒ सम॒हं प्र॒जया॒ सं मया᳚ प्र॒जेत्या॑हा॒ऽऽशिष॑ - [ ]
पदपाठः (Word-by-word)
ज्योति॑षा । अ॒भू॒व॒म् । इति॑ । आ॒ह॒ । अ॒स्मिन्न् । ए॒व । लो॒के । प्रतीति॑ । ति॒ष्ठ॒ति॒ । ऐ॒न्द्रीम् । आ॒वृत॒मित्या᳚ - वृत᳚म् । अ॒न्वाव॑र्त॒ इत्य॑नु - आव॑र्ते । इति॑ । आ॒ह॒ । अ॒सौ । वै । आ॒दि॒त्यः । इन्द्रः॑ । तस्य॑ । ए॒व । आ॒वृत॒मित्या᳚ - वृत᳚म् । अन्विति॑ । प॒र्याव॑र्तत॒ इति॑ परि - आव॑र्तते । द॒क्षि॒णा । प॒र्याव॑र्तत॒ इति॑ परि - आव॑र्तते । स्वम् । ए॒व । वी॒र्य᳚म् । अन्विति॑ । प॒र्याव॑र्तत॒ इति॑ परि - आव॑र्तते । तस्मा᳚त् । दक्षि॑णः । अद्‌र्धः॑ । आ॒त्मनः॑ । वी॒र्या॑वत्तर॒ इति॑ वी॒र्या॑वत् - त॒रः॒ । अथो॒ इति॑ । आ॒दि॒त्यस्य॑ । ए॒व । आ॒वृत॒मित्या᳚ - वृत᳚म् । अन्विति॑ । प॒र्याव॑र्तत॒ इति॑ परि - आव॑र्तते । समिति॑ । अ॒हम् । प्र॒जयेति॑ प्र - जया᳚ । समिति॑ । मया᳚ । प्र॒जेति॑ प्र - जा । इति॑ । आ॒ह॒ । आ॒शिष॒मित्या᳚ - शिष᳚म् ।
पदसंख्या: 50
पञ्चशत् 4 #
TS 1.7.6.4 TS 1.7.6.4
मे॒वैतामा शा᳚स्ते॒ समि॑द्धो अग्ने मे दीदिहि समे॒द्धा ते॑ अग्ने दीद्यास॒मित्या॑ह यथाय॒जु-रे॒वैतद्वसु॑मान्. य॒ज्ञो वसी॑यान् भूयास॒-मित्या॑हा॒-ऽऽशिष॑मे॒वेतामा शा᳚स्ते ब॒हु वै गार्.ह॑पत्य॒स्यान्ते॑ मि॒श्रमि॑व चर्यत आग्निपावमा॒नीभ्यां॒ गार्.ह॑पत्य॒मुप॑ तिष्ठते पु॒नात्ये॒वाग्निं पु॑नी॒त आ॒त्मानं॒ द्वाभ्यां॒ प्रति॑ष्ठित्या॒ अग्ने॑ गृहपत॒ इत्या॑ह - [ ]
पदपाठः (Word-by-word)
ए॒व । ए॒ताम् । एति॑ । शा॒स्ते॒ । समि॑द्ध॒ इति॒ सं - इ॒द्धः॒ । अ॒ग्ने॒ । मे॒ । दी॒दि॒हि॒ । स॒मे॒द्धेति॑ सं - ए॒द्धा । ते॒ । अ॒ग्ने॒ । दी॒द्या॒स॒म् । इति॑ । आ॒ह॒ । य॒था॒य॒जुरिति॑ यथा - य॒जुः । ए॒व । ए॒तत् । वसु॑मा॒निति॒ वसु॑ - मा॒न् । य॒ज्ञ्ः । वसी॑यान् । भू॒या॒स॒म् । इति॑ । आ॒ह॒ । आ॒शिष॒मित्या᳚-शिष᳚म् । ए॒व । ए॒ताम् । एति॑ । शा॒स्ते॒ । ब॒हु । वै । गार्.ह॑पत्य॒स्येति॒ गार्.ह॑ - प॒त्य॒स्य॒ । अन्ते᳚ । मि॒श्रम् । इ॒व॒ । च॒र्य॒ते॒ । आ॒ग्नि॒पा॒व॒मा॒नीभ्या॒मित्या᳚ग्नि - पा॒व॒मा॒नीभ्या᳚म् । गार्.ह॑पत्य॒मिति॒ गार्.ह॑ - प॒त्य॒म् । उपेति॑ । ति॒ष्ठ॒ते॒ । पु॒नाति॑ । ए॒व । अ॒ग्निम् । पु॒नी॒ते । आ॒त्मान᳚म् । द्वाभ्या᳚म् । प्रति॑ष्ठित्या॒ इति॒ प्रति॑ - स्थि॒त्यै॒ । अग्ने᳚ । गृ॒ह॒प॒त॒ इति॑ गृह - प॒ते॒ । इति॑ । आ॒ह॒ ।
पदसंख्या: 50
पञ्चशत् 5 #
TS 1.7.6.5 TS 1.7.6.5
यथाय॒जुरे॒वैतच्छ॒तꣳ हिमा॒ इत्या॑ह श॒तं त्वा॑ हेम॒न्तानि॑न्धिषी॒येति॒ वावैतदा॑ह पु॒त्रस्य॒ नाम॑ गृह्णात्यन्ना॒दमे॒वैनं॑ करोति॒ तामा॒शिष॒मा शा॑से॒ तन्त॑वे॒ ज्योति॑ष्मती॒मिति॑ ब्रूया॒द्-यस्य॑ पु॒त्रोऽजा॑तः॒ स्यात् ते॑ज॒स्व्ये॑वास्य॑ ब्रह्मवर्च॒सी पु॒त्रो जा॑यते॒ तामा॒शिष॒मा शा॑से॒ऽमुष्मै॒ ज्योति॑ष्मती॒मिति॑ ब्रूया॒द्-यस्य॑ पु॒त्रो - [ ]
पदपाठः (Word-by-word)
य॒था॒य॒जुरिति॑ यथा - य॒जुः । ए॒व । ए॒तत् । श॒तम् । हिमाः᳚ । इति॑ । आ॒ह॒ । श॒तम् । त्वा॒ । हे॒म॒न्तान् । इ॒न्धि॒षी॒य॒ । इति॑ । वाव । ए॒तत् । आ॒ह॒ । पु॒त्रस्य॑ । नाम॑ । गृ॒ह्णा॒ति॒ । अ॒न्ना॒दमित्य॑न्न - अ॒दम् । ए॒व । ए॒न॒म् । क॒रो॒ति॒ । ताम् । आ॒शिष॒मित्या᳚ - शिष᳚म् । एति॑ । शा॒से॒ । तन्त॑वे । ज्योति॑ष्मतीम् । इति॑ । ब्रू॒या॒त् । यस्य॑ । पु॒त्रः । अजा॑तः । स्यात् । ते॒ज॒स्वी । ए॒व । अ॒स्य॒ । ब्र॒ह्म॒व॒र्च॒सीति॑ ब्रह्म - व॒र्च॒सी । पु॒त्रः । जा॒य॒ते॒ । ताम् । आ॒शिष॒मित्या᳚ - शिष᳚म् । एति॑ । शा॒से॒ । अ॒मुष्मै᳚ । ज्योति॑ष्मतीम् । इति॑ । ब्रू॒या॒त् । यस्य॑ । पु॒त्रः ।
पदसंख्या: 50
पञ्चशत् 6 #
TS 1.7.6.6 TS 1.7.6.6
जा॒तः स्यात्तेज॑ ए॒वास्मि॑न् ब्रह्मवर्च॒सं द॑धाति॒ यो वै य॒ज्ञ्ं प्र॒युज्य॒ न वि॑मु॒ञ्चत्य॑प्रतिष्ठा॒नो वै स भ॑वति॒ कस्त्वा॑ युनक्ति॒ स त्वा॒ वि मु॑ञ्च॒त्वित्या॑ह प्र॒जाप॑ति॒र् वै कः प्र॒जाप॑तिनै॒वैनं॑ ॅयु॒नक्ति॑ प्र॒जाप॑तिना॒ वि मु॑ञ्चति॒ प्रति॑ष्ठित्या ईश्व॒रं ॅवै व्र॒तमवि॑सृष्टं प्र॒दहोऽग्ने᳚ व्रतपते व्र॒तम॑चारिष॒मित्या॑ह व्र॒तमे॒व-[ ]
पदपाठः (Word-by-word)
जा॒तः । स्यात् । तेजः॑ । ए॒व । अ॒स्मि॒न्न् । ब्र॒ह्म॒व॒र्च॒समिति॑ ब्रह्म - व॒र्च॒सम् । द॒धा॒ति॒ । यः । वै । य॒ज्ञ्म् । प्र॒युज्येति॑ प्र-युज्य॑ । न । वि॒मु॒ञ्चतीति॑ वि - मु॒ञ्चति॑ । अ॒प्र॒ति॒ष्ठा॒न इत्य॑प्रति - स्था॒नः । वै । सः । भ॒व॒ति॒ । कः । त्वा॒ । यु॒न॒क्ति॒ । सः । त्वा॒ । वीति॑ । मु॒ञ्च॒तु॒ । इति॑ । आ॒ह॒ । प्र॒जाप॑ति॒रिति॑ प्र॒जा - प॒तिः॒ । वै । कः । प्र॒जाप॑ति॒नेति॑ प्र॒जा - प॒ति॒ना॒ । ए॒व । ए॒न॒म् । यु॒नक्ति॑ । प्र॒जाप॑ति॒नेति॑ प्र॒जा - प॒ति॒ना॒ । वीति॑ । मु॒ञ्च॒ति॒ । प्रति॑ष्ठित्या॒ इति॒ प्रति॑ - स्थि॒त्यै॒ । ई॒श्व॒रम् । वै । व्र॒तम् । अवि॑सृष्ट॒मित्यवि॑ - सृ॒ष्ट॒म् । प्र॒दह॒ इति॑ प्र - दहः॑ । अग्ने᳚ । व्र॒त॒प॒त॒ इति॑ व्रत - प॒ते॒ । व्र॒तम् । अ॒चा॒रि॒ष॒म् । इति॑ । आ॒ह॒ । व्र॒तम् । ए॒व ।
पदसंख्या: 50
पञ्चशत् 7 #
TS 1.7.6.7 TS 1.7.6.7
वि सृ॑जते॒ शान्त्या॒ अप्र॑दाहाय॒ परा॒ङ॒. वाव य॒ज्ञ् ए॑ति॒ न नि व॑र्तते॒ पुन॒र्यो वै य॒ज्ञ्स्य॑ पुनरालं॒भं ॅवि॒द्वान्. यज॑ते॒ तम॒भि नि व॑र्तते य॒ज्ञो ब॑भूव॒ स आ ब॑भू॒वेत्या॑है॒ष वै य॒ज्ञ्स्य॑ पुनरालं॒भ-स्तेनै॒वैनं॒ पुन॒रा ल॑भ॒तेऽन॑वरुद्धा॒ वा ए॒तस्य॑ वि॒राड् य आहि॑ताग्निः॒ सन्न॑स॒भः प॒शवः॒ खलु॒ वै ( ) ब्रा᳚ह्म॒णस्य॑ स॒भेष्ट्वा प्राङु॒त्क्रम्य॑ ब्रूया॒द् गोमाꣳ॑ अ॒ग्नेऽवि॑माꣳ अ॒श्वी य॒ज्ञ् इत्यव॑ स॒भाꣳ रु॒न्धे प्र स॒हस्रं॑ प॒शूना᳚प्नो॒त्याऽस्य॑ प्र॒जायां᳚ ॅवा॒जी जा॑यते ॥(यः-स-मा॒सिषं॑-गृहपत॒-इत्या॑हा॒-मुष्मै॒ ज्योति॑ष्मती॒मिति॑ ब्रूया॒द् यस्य॑पु॒त्रो-व्र॒तमे॒व-खलु॒ वै-
पदपाठः (Word-by-word)
वीति॑ । सृ॒ज॒ते॒ । शान्त्यै᳚ । अप्र॑दाहा॒येत्यप्र॑ - दा॒हा॒य॒ । पराङ्॑ । वाव । य॒ज्ञ्ः । ए॒ति॒ । न । नीति॑ । व॒र्त॒ते॒ । पुनः॑ । यः । वै । य॒ज्ञ्स्य॑ । पु॒न॒रा॒ल॒भंमिति॑ पुनः - आ॒ल॒भंम् । वि॒द्वान् । यज॑ते । तम् । अ॒भि । नीति॑ । व॒र्त॒ते॒ । य॒ज्ञ्ः । ब॒भू॒व॒ । सः । एति॑ । ब॒भू॒व॒ । इति॑ । आ॒ह॒ । ए॒षः । वै । य॒ज्ञ्स्य॑ । पु॒न॒रा॒ल॒भं इति॑ पुनः-आ॒ल॒भंः । तेन॑ । ए॒व । ए॒न॒म् । पुनः॑ । एति॑ । ल॒भ॒ते॒ । अन॑वरु॒द्धेत्यन॑व - रु॒द्धा॒ । वै । ए॒तस्य॑ । वि॒राडिति॑ वि - राट् । यः । आहि॑ताग्नि॒रित्याहि॑त-अ॒ग्निः॒ । सन्न् । अ॒स॒भः । प॒शवः॑ । खलु॑ । वै ( ) । ब्रा॒ह्म॒णस्य॑ । स॒भा । इ॒ष्ट्वा । प्राङ् । उ॒त्क्रम्येत्यु॑त् - क्रम्य॑ । ब्रू॒या॒त् । गोमा॒निति॒ गो - मा॒न् । अ॒ग्ने॒ । अवि॑मा॒नित्यवि॑ - मा॒न् । अ॒श्वी । य॒ज्ञ्ः । इति॑ । अवेति॑ । स॒भाम् । रु॒न्धे । प्रेति॑ । स॒हस्र᳚म् । प॒शून् । आ॒प्नो॒ति॒ । एति॑ । अ॒स्य॒ । प्र॒जाया॒मिति॑ प्र - जाया᳚म् । वा॒जी । जा॒य॒ते॒ ॥
पदसंख्या: 74