पदपाठः (Word-by-word)
सायणभाष्यम् (Sayana Commentary)
(अथ प्रथमकाण्डे सप्तमप्रपाठके षष्ठोऽनुवाकः)।
आप्यायनादिमन्त्राः पञ्चमे व्याख्याताः। उपस्थानादिमन्त्राः षष्ठे व्याख्या- यन्ते। तत्राऽऽहवनीयोपस्थानमन्त्रस्य पूर्वभागं व्याचष्टे - अगन्मेति। द्विरुक्त्याऽऽदरस्य प्रतीतेः सर्वथा प्राप्नोत्येव।
उत्तरभागं व्याचष्टे - संदृश इति। अस्मियजुषि तपःशब्ददर्शनात्तपसश्च विच्छिन्नो मा भूवमिति यत्प्रतीयत एतद्यजुरनतिक्रम्य तथैव प्रार्थ्यते।
आदित्योपस्थानमन्त्रं व्याचष्टे - सुभूरसीति। आयुर्मे धेहीत्यनेनाऽऽशीः प्रतीयते।
इदमहमित्यादिकं वैरिनिःसारणमन्त्रं व्याख्यातुं प्रस्तौति - प्र वा इति। विष्णुक्रमणां स्वर्गार्थत्वाद्विष्णुक्रमैरस्माल्लोकात्प्रच्युतिर्भवति। तस्याः प्रच्युतेः परिहारोपायं ब्रह्मवादिनः परस्परमेवमाहुः — यो यजमानो वैरिण इमाँल्लोकांस्तेन संपादितान्वैरिनिःसारणेन लब्ध्वा विष्णुक्रमैः स्वर्गा-रोहणादूर्ध्वं पुनरिमं मनुष्यलोकं प्रत्यवरोहेत्स एव यजमानो विष्णुक्रमेषु चतुर इति।
मन्त्रं व्याचष्टे - एष वा इति। इदमहमित्यादिमन्त्रमाहेति यदेष एव पाठोऽस्य भूलोकस्य संबन्धी प्रत्यवरोहः।
आत्माभिमर्शनमन्त्रं व्याचष्टे - संज्योतिषेति। एतल्लोकप्रापके(ण) ज्योतिषा संगतोऽहमित्येव मन्त्रे प्रतीयमानत्वात्।
प्रदक्षिणावृत्तिमन्त्रं व्याचष्टे - ऐन्द्रीमिति। परमैश्वर्ययोगादादित्यस्येन्द्रत्वम्।
प्रदक्षिणावृत्तिं विधत्ते - दक्षिणेति। दक्षिणा प्रादक्षिण्येन। द्रक्षिणभागमवस्थाप्य वामभागस्य परिभ्रमणात्प्रादक्षिण्यम्। पुरुषस्य दक्षिणाभागे सामर्थ्यातिशयसद्भावात्तदेवानुसृत्याऽऽवृत्तिः कृता भवति। यस्माद्दक्षिणभागे वीर्यं श्रुतेरभिप्रेतं तस्माल्लोकेषु सर्वेषु व्यापारेषु दक्षिणहस्तस्यैव वीर्यातिशय उपलभ्यते। किंच, आदित्यो मेरुं प्रदक्षिणी करोति तदप्यत्रानुसृतं भवति।
विपर्ययेणाऽऽवृत्तिमन्त्रं व्याचष्टे - समहमिति। स्वयं यथा प्रजादिना संगच्छते तथा प्रजादिरपि स्वेन संगच्छत इत्येतदुभयं द्वितीयावृत्त्या प्रार्थ्यते।
समिदाधानमन्त्रं स्पष्टार्थत्वेन व्याचष्टे - समिद्ध इति।
आहवनीयोपस्थानमन्त्रं व्याचष्टे - वसुमानिति। वसीयानतिशयेन धनवान्।
विधत्ते - बहु वा इति। गार्हपत्योऽजस्रं धार्यते। तथा सति एतत्संनिधौ बहुविधजन्तु-पातकं संभाव्यते। अतो यजमानेन गार्हपत्यस्य समीपे पापमिश्रमिव होमा-दिकर्मानुष्ठीयते।
ततोऽग्न आयूंषीत्याद्याभ्यामग्निपवमानदेवकाभ्यां शुद्धिहेतुभ्यामग्न्युपस्थाने वह्नेः स्वस्य च शुद्धिर्भवति।
अन्यमपि गार्हपत्योपस्थानमन्त्रं व्याचष्टे - अग्ने गृहपत इति। तदिदं मन्त्रब्राह्मणं स्पष्टार्थं पूर्वप्रपाठके व्याख्यातं च। तत्र नाम गृह्णातीति विधिः।
तद्ग्रहणे प्रकारविशेषमाहाऽऽपस्तम्बः — “तन्तव इत्यजातस्यामुष्मा इति जातस्य” इति।
अजातस्य पुत्रस्य विशेषनामभावात्तन्तव इत्येतदेव सामान्यनाम गृह्णीयात्। जातस्य पुत्रस्य त्वमुष्मा इत्यनेन विशेषनामनिर्देशो विवक्ष्यते।
यज्ञविमोकमन्त्रं व्याचष्टे - यो वै यज्ञमिति।
ईश्वर वा इति। यत्व्रतं गृहीतं सन्न विसृष्टं तद्व्रतं प्रदहो यजमानं प्रदग्धुमीश्वरं समर्थम्। अग्ने व्रतपत इत्यादिमन्त्रपाठ एव व्रतविसर्गः। तेन शीतं सन्तं न दहति।
पुनरालम्भमन्त्रं व्याख्यातुं प्रस्तौति - पराङिति। पराङ्वाव विमुख एव पुनर्न निवर्तते, पुनरालम्भमन्त्रवादिनं यजमानं प्रति तु पुनर्निवर्तते, पुनरप्यसावनुतिष्ठतीत्यर्थः।
मन्त्रं व्याचष्टे -यज्ञ इति। एष वै मन्त्रपाठ एव।
गोमतीमन्त्रं विधातुं प्रस्तौति - अनवरुद्धा इति। यो यजमान आहिताग्निरपि सन्सभारहितो भवेत्, एतस्य यजमानस्य विराड्विशेषेण राजमाना स्वोचितसभा कदाचिदप्यनवरुद्धाऽ-स्वाधीना भवति। यागकाले सभाहीनस्य लोकव्यावहारकालेऽपि सभा न संभवेदित्यर्थः। नात्र राज्ञ इवामात्यस्वभटरूपा सभा ब्राह्मणस्योचिता, किं तर्हि यज्ञनिष्पादका द्विपदश्चतुष्पादश्च पशवोऽस्य सभा॥
मन्त्रं विधत्ते - इष्ट्वा प्राङिति। भूमनिन्दाप्रशंसास्विति वैयाकरणैरुक्तत्वाद्गोमानित्यादिको मतुप्प्रत्ययो बाहुल्यवाची। अतः सहस्रप्राप्तिर्युक्ता। इडावान्प्रजावानिति मन्त्रेऽभिधानादस्य प्रजायामन्नवतः पुत्रस्योत्पत्तिर्युक्ता॥