पदपाठः (Word-by-word)
सायणभाष्यम् (Sayana Commentary)
(अथ प्रथमकाण्डे सप्तमप्रपाठके चतुर्थोऽनुवाकः )।
तृतीयेऽन्वाहार्योऽभिहितः। चतुर्थे शेषाहुतीनामनुमन्त्रणमन्त्रा व्याख्यायन्ते। तत्रानूयाजमन्त्रान्व्याचष्टे - बर्हिषोऽहमिति। बर्हिषा बर्हिर्यागानुमन्त्रणेन। एवमितरत्रोभयत्र।
सूक्तवाकानुमन्त्रणमन्त्रं व्याचष्टे - दर्शपूर्णमासयोरिति। अनुष्ठितयोर्दर्शपूर्णमासयोरनेनोज्जितिमन्त्रपाठेनो-ज्जितिरुत्कर्षः संपूर्णता भवति। तां च यज्ञोज्जितिमनु देवा अप्युत्कर्षेणाजयन्। ताभ्यां च संपूर्णाभ्यां दर्शपूर्णमासाभ्यामसुरान्निराचक्रुः।
स्रुग्व्यूहनानुमन्त्रणं विधत्ते - वाजवतीभ्यामिति। व्यूहति अध्वर्युणा क्रियमाणमनुमन्त्रयेदित्यर्थः।
पादद्वयेनैव प्रकर्षेण स्थित्यर्थं मन्त्रद्वित्वमित्याह - द्वाभ्यामिति। कालविशिष्टमेमा अग्मन्निति मन्त्रपाठं विधातुं प्रस्तौति - यो वा इति। एष इदानीमेव वक्ष्यामाण एमा अग्मन्नितिमन्त्रपाठः पृथग्दोहः। पूर्वमिडायामुक्तः सा मे सत्याऽऽशीरिति मन्त्रपाठः पृथग्दोहः।
विधत्ते - यर्हि होतेति। होता सूक्तवाकं पठन्नाशास्तेऽयं यजमानोऽसाविति यदा नाम गृह्णाति तदानीमेमा अग्मन्निति मन्त्रं पठेत्। या देवताः “अग्निमग्न आवह” “अग्निरिदं हविरजुषत” इत्यादिना होत्रा बहुशः संस्तुताः सर्वा अप्यनेन मन्त्रपाठेन यजमानो दुग्धे। किंचेडाकालीनो दोह इदानींतनो दोह इत्युभयमपि संपदितं भवति।
प्रस्तरानुमन्त्रणमन्त्रं व्याचष्टे - रोहितेनेति। यजमानवद्यागसाधनत्वात्प्रस्तरे यजमानत्वोपचारः।
परिधिविमोकानुमन्त्रणमन्त्रं व्याचष्टे - वि ते मुञ्चामीति। ते रशना विमुञ्चामीत्यग्निमुद्दिश्याभिधानादयमग्नेर्विमोकः।
शंयुवाकानुमन्त्रणमन्त्रं व्याचष्टे - विष्णोरिति। यज्ञस्य फलव्याप्त्या विष्णुत्वम्। अन्ततः समाप्तिकाले।
प्रथमस्य संयाजस्यानुमन्त्रणमन्त्रं व्याचष्टे - सोमस्येति। गर्भाशये रेतोधारणं सोमस्यानुग्रहाद्भवति। ततः सोमो रेतोधाः।
द्वितीयपत्नीसंयाजस्यानुमन्त्रणमन्त्रं व्याचष्टे - त्वष्टुरिति। अन्यत्र “यावच्छो वै रेतसः सिक्तस्य त्वष्टा रूपाणि विकरोति” इत्याम्नानान्मनुष्यगवाश्वादिपशूनां स्त्रीपुरुषमिथुनात्मकानां रूपं त्वष्टा करोति।
तृतीयचतुर्थपत्नीसंयाजयोरेकीकारेणानुमन्त्रणमन्त्रं व्याचष्टे - देवानामिति।
वेदाभिमर्शनमन्त्रं व्याचष्टे - वेदोऽसीति। वित्तं पूर्वलब्धं धनं, वेद्यमितः परं लब्धव्यं, तदुभयमसुर-संबन्धि यत्र क्वापि निक्षिप्तं, तदुभयं देवाः कदाचिद्वेदेन भूमिं संमृजन्तोऽ-लभन्त। ततो विद्यते वित्तमनेनेति व्युत्पत्त्या वेदत्वं निष्पन्नम्।
विधत्ते - यद्यद्भ्रातृव्येति। वैरिणः संबन्धि यद्गृहक्षेत्रादिकं यजमानो ममास्त्वित्य-भिध्यायेत्तस्य सर्वस्य नामधेयं मन्त्रमध्ये गृहीत्वा विदेयेत्येतत्पदं पठेत्।
एतस्य मन्त्रस्यान्त्यभागे सहस्रिणमिति पदस्योच्चारणं प्रशंसति - घृतवन्त-मिति।
मन्त्रार्थवेदनं प्रशंसति - आऽस्येति। प्रजायां संततौ सर्वतः पुत्रोऽन्नसंमृद्धो जायते॥