पदपाठः (Word-by-word)
सायणभाष्यम् (Sayana Commentary)
(अथ प्रथमकाण्डे सप्तमप्रपाठके द्वादशोऽनुवाकः)।
एकादश उज्जितिमन्त्रा उक्ताः। द्वादशेऽतिग्राह्यमन्त्रा उच्यन्ते।
कल्पः — “आग्रयणं गृहीत्वा पञ्चैन्द्रानतिग्राह्यान्गृहात्युपयामगृहीतोऽसि नृषदं त्वा द्रुषदमित्येताभिः पञ्चभिः” इति।
तत्र प्रथममन्त्रपाठस्तु — उपयामेति। हे प्रथमातिग्राह्य त्वमुपयामेन पृथिव्यात्मकेन पात्रेण गृहीतोऽसि। इयं वा उपयाम इति पूर्वमुदाहृतम्। मनुष्येषु वनस्पतिषु भुवनेषु स्वामित्वेनावस्थितमिन्द्राय प्रियं त्वां गृह्णामि। एष स्वरप्रदेशस्ते स्थानं तस्मादिन्द्राय त्वामत्र सादयामि। एष इत्यादिः सादनमन्त्रः।
नृषदमित्यादिपदाभिप्रायमाह — “नृषदं त्वेत्याह। प्रजा वै नृन्। प्रजानामेवैतेन सूयते। द्रुषदमित्याह। वनस्पतयो वै द्रु। वनस्पतीनामेवैतेन सूयते। भुवनसदमित्याह। यदा वै वसीयान्भवति। भुवनमगन्निति वै तमाहुः। भुवनमेवैतेन गच्छति (१)” (ब्रा. का. १ प्र. ३ अ. ९) इति।
नृन्नरस्तेषु सीदतीति नृषत्तं नृषदम्। एतेन यजुष्पाठेन प्रजानां मध्ये सूयते स्वामित्वेनाभिषिच्यते। यदा लोके वसीयान्धनाढ्यो भवति तदा तं पुरुषं स्वामित्वेन कृत्स्नं भुवनमगन्प्राप्तवानिति जना आहुः।
एतदेवाभिप्रेत्य तथैव व्याचष्टे — “अप्सुषंद त्वा घृतसदमित्याह। अपामेवैतेन घृतस्य सूयते। व्योमसदामित्याह। यदा वै वसीयान्भवति। व्योमागन्निति वै तमाहुः। व्योमैवैतेन गच्छति” (ब्रा. का. १ प्र.३ अ.९) इति।
अप्स्वित्यादिपाठेन तत्स्वामित्वेनाभिषेकः। धनाढ्यस्य व्योमगामित्वं नाम गजाश्चारोहणम्।
पूर्ववद्व्याचष्टे — “पृथिविषदं त्वाऽन्तरिक्षसदमित्याह। एषामेवैतेन लोकाना सूयते। तस्माद्वाजपेययाजी न कंचन प्रत्यवरोहति। अपीव हि देवताना सूयते। नाकसदमित्याह। यदा वै वसीयान्भवति। नाकमगन्निति वै तमाहुः। नाकमेवैतेन गच्छति” (ब्रा.का. १ प्र. ३ अ. ९) इति।
तस्मादयं वाजपेययागेनाग्न्यादिदेवतानामपि मध्येऽभिषिक्त इव भवति। अग्नेस्त्वा साम्राज्येनाभिषिञ्चामीत्यादिमन्त्रेष्वग्न्यादीनां यत्तत्साम्राज्यं तेन निमित्तेनाभिषेकस्योक्तत्वान्न प्रत्यवरोहति। अपि तस्माद्देवतांना मध्येऽभिषिक्तत्वाद्देववदेव कमपि मनुष्यं प्रति गजदिवाहनान्नावरोहति नावरोहेदिति विधिः। अत एवाऽऽपस्तम्ब आह — “यावज्जीवं न कंचन प्रत्यवरोहेद्बृहस्पतिसवेन वा प्रत्यवरोहणीयेन यजेत” इति।
अथ चतुर्थग्रहणमन्त्रः — ये ग्रहा इति। येऽतिग्राह्यरूपा ग्रहाः पञ्चजनीनाः पञ्चजनेभ्यो देव मनुष्यासुररक्षोगन्धर्वेभ्यो निषादपञ्चमेभ्यो वर्णेभ्यो वा हिताः। येषामतिग्राह्याणां तिस्त्र आग्नेयैन्द्रसौर्याख्यातिग्राह्यरूपाः परमजाः प्रकृतयः। किंच येषां प्रभावेन दैव्यो दिवि भवः कोशो मेघः समुब्जितः सम्यङ्न्युब्जीकृतो वर्षाभिमुखः कृत इत्यर्थः। विविधानि शिप्राणि हनुस्थानीयानि पात्राग्राणि तैरुपेता विशिप्रियास्तादृशानां तेषामतिग्राह्याणां पूरणायेषमन्नसदृशमूर्जं बलप्रदं सोमरसं समग्रभीं सम्यग्गृह्णामि।
पञ्चजनीनशब्दाभिप्रायं दर्शयति — “ये ग्रहाः पञ्चजनीना इत्याह। पञ्चजनानामेवैतेन सूयते” (ब्रा. का. १ प्र. ३ अ. ९) इति।
एतेन मन्त्रपाठेन निषाद पञ्चमानां वर्णानां स्वामित्वेनाभिषिच्यते।
अथ पञ्चमग्रहणमन्त्रः — अपामिति। हेऽतिग्राह्या वो युष्मांक मध्य उत्तमं चरणं ग्रहं तं तथाविधं गृह्णामि। किंविधम्। अपां रसम्। उदकस्यैव सोमरसत्वेन परिणामात्। उद्भूतं वयोऽन्नं जीवनं वा यस्य तमुद्वयसम्। सोमरसो ह्यन्नभूतो जीवनहेतुश्च। अपाम सोमममृता अभूमेत्युक्तत्वात्। सूर्य (र्यो) रश्मिः परिपाकहेतुर्यस्य वं सूर्यरश्मिम्। वृष्टिक्लिन्ना ओषधय आतपेन पच्यन्तेऽन्यथा वृष्ट्याधिक्येन पूयेयुः। समाभृतं गायत्र्या द्युलोकात्सम्यगानीतम्। किंचापां रसः सोमवल्लिरूपेण परिणतस्तस्यापि यो रसः सारस्तादृशमुदकरसम्।
स्वामित्वं तेजोयुक्तत्वं च भागद्वयपाठेन भवतीति दर्शयति — “अपा रसमुद्वयसमित्याह। अपामेवैतेन रसस्य सूयते। सूर्यरश्मि समाभृतमित्याह सशुक्रत्वाय (२)” (ब्रा. का.१ प्र.३अ.९) इति।
कल्पः — “अया विष्ठा जनयन्कर्वराणीति सप्तदश प्राजापत्यान्सोमग्रहान्गृह्णाति” इति।
पाठस्तु — अया विष्ठेति। अयाऽयं प्रजापतिर्विष्ठा विशेषेणात्र स्थितः कर्वराण्येतानि कर्माणि जनयन्संपादयन्वर्तते। यस्मात्स प्रजापतिर्घृणिर्दीप्तिमान्प्रकाशको भूत्वा वराय श्रेष्ठाय कर्मफलायोरुर्गातुर्विस्तीर्णो मार्गो भवति। तस्मात्स प्रजापतिर्मध्वो मधुनः कर्मफलस्य धरुणो धारयितो सन्नग्रं प्रत्यस्मत्समीपं प्रति उदैदुत्कर्षेण प्राप्नोतु। यद्यस्मात्स्वायां तनुवां स्वकीये शरीरे तनूमस्मच्छरीरमैरयत प्रापयति, तस्माद्वयं फलं प्राप्स्याम इति शेषः। एकयर्चा गृह्णातीत्येतस्य विधिः। स च पूर्वमेव व्याख्यातः। अत्र विनियोगसंग्रहः — “उपेत्यतिग्राह्यमेन्द्रं गृहीत्वैषेति सादयेत्।
उत्तरेषु चतुर्ष्वेवमया सप्तदश ग्रहान्। प्राजापत्यान्प्रगृह्णाति मन्त्रा द्वादश वर्णिताः” ॥१॥ इति॥
भट्टभास्करभाष्यम् (Bhatta Bhaskara Commentary)
इसि सप्तमे दशमोनुवाकः ॥